TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षष्ठः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षष्ठः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


षष्ठः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि शक्तिकोणविनिर्णयम् ।
श्रीशिव उवाच ।
त्रयोsग्नयस्त्रयो ग्रामाः देवाश्चापि त्रयो गुणाः ॥१॥
भावत्रयं तथा शक्तित्रयी नाडी त्रयात्मिका ।
त्रिधा सिद्धिस्त्रितत्त्वाख्यं पात्रत्रयमथाद्भुतम् ॥२॥
त्रिकोणवासिनी काली वीरसिद्धा वरप्रदा ।
ध्येया ज्ञेया कलौ देवि नान्यविद्या कदाचन ॥३॥
सुन्दरी शिथिला देवि राजसी गुप्तदर्शना ।
दशकोटिप्रजापाद्वै कदाचिद्वरदा भवेत् ॥४॥
कलौ काली कलौ काली कलौ काली च केवला ।
श्रीमत्कादिमताधीशा कलौ शीघ्रफलप्रदा ॥५॥
सदा पञ्चमकारैश्च पूजयेत्कालिकाम्बिकाम् ।
शक्तिं विना न हि जपेत् न शक्तिः कारणं विना ॥६॥
सदा पञ्चमरूपोsहमित्येवं परिभावयेत् ।
एवं भावसमायुक्तः षोढान्यासपरो भवेत् ॥७॥
दशविद्याविधौ देवि दशधा भिन्नभिन्नतः ।
श्रीविद्यायां महेशानि षोढापञ्चकमीरितम् ॥८॥
लघुषोढा पूर्वषोढा महाषोढा तृतीयका ।
चतुर्था मंत्रषोढा च पञ्चमी गुह्यषोढका ॥९॥
षोढाषट्कं कालिकायां भेदभेदान्तरेण च ।
लघुषोढा महाषोढा गुह्यषोढा तृतीयका ॥१०॥
मंत्रषोढा शक्तिहंसी दिव्यषोढा रसाभिधा ।
षोढाद्यचक्रकं क्रोधे छिन्ना या वह्निसंज्ञिका ॥११॥
श्यामलायां तथा देवि चान्यासु द्वितय शिवे ।
लघुषोढा महाषोढा द्वितयं परमेश्वरि ॥१२॥
प्रत्येकं षडृषित्वं च सध्यानं च समाचरेत् ।
ऋषिच्छन्दादिक यत्र कीर्तितं परमेश्वरि ॥१३॥
तदेव तत्र गदितमनुक्ते मूलदेवता ।
ध्यानं छन्दादिकं स्तोत्रं देवीवत्सर्वमेव तु ॥१४॥
अयुतं च पुरश्चर्या न्य्सनक्रममार्गतः ।
इति संक्षेपतः प्रोक्तं सर्वमेतत्किमिच्छसि ॥१५॥
श्रीदेव्युवाच ।
क्रमेण दशविद्यायां कुलुकार्चाविधिं वद ।
श्रीशिव उवाच ।
काली तारा तथा छिन्ना सुन्दरी बगलामुखी ॥१६॥
मातङ्ही श्यामला लक्ष्मीः सिद्धविद्या च भैरवी ।
धूमावती क्रमेणैव महाविद्या दशैव तु ॥१७॥
काली कूर्चं वधू माया फडंता कुल्लुका मता ।
अघोराख्यो ऋषिः प्रोक्तो विराट् छन्दः प्रकीर्तितम् ॥१८॥
देवता कुल्लुका काली बीजं मायाभिधं मतम् ।
कामशक्तिस्तथा कूर्चं कीलकं परिकीर्तितम् ॥१९॥
षड्दीर्घाढ्येन कामेन षडंगन्यासमीरितम् ।
ध्यानपूजादिकं सर्वं कालिकावत्समाचरेत् ॥२०॥
माया रमा तथा कूर्चं तारिणी कुल्लुका मता ।
तारिणीकुल्लकायाश्च विरूपाक्षो ऋषिः स्मृतः ॥२१॥
उष्णिक् छन्दः समाख्यतं देवता नीलतारिणी ।
कूर्चबीजं तथा माया शक्तिर्वधू च कीलकम् ॥२२॥
मायाया तु षडङ्गानि सर्वनीला सरस्वती ।
वज्रवैरोचनी प्रोच्य संबुद्ध्यन्ते सवर्म च ॥२३॥
अतिकालो ऋषिः प्रोक्तो गायत्र्यं छन्द ईरितम् ।
हॅंबीज मूऍं तथा शक्तिः कीलकं रोचिनी मता ॥२४॥
शिवं षड्दीर्घयुक्तेन षडङ्गं न्यासमाचरेत् ।
ध्यानपूजादिकं सर्वं छिन्नावत्समुपाचरेत् ॥२५॥
संपत्प्रदायाः प्रथमं बीजं श्री भैरवीमनौ ।
विकरालो ऋषिः प्रोक्तः पंक्तिच्छन्दः प्रकीर्तितम् ॥२६॥
देवता भरवीनाम्ना कुल्लुका परिकीर्तिता ।
हॅंबीजं सौमहाशक्तिरमन्त्रं कीलकं मतम् ॥२७॥
षडदीर्घाढ्येन बीजेन षडङ्गन्यासमाचरेत् ।
ध्यानपूजादिकं सर्वं बालावत्समुपाचरेत् ॥२८॥
सुन्दर्याः कुल्लुका देवि सम्प्रोक्ता द्वादशाक्षरी ।
वाग्भवं कामराजं च लज्जा च त्रिपुरे पदम् ॥२९॥
शी च भगवती प्रोच्य तदन्ते ठद्वयं वदेत् ।
सुन्दरी कुल्लुकायास्तु ऋषिरानन्दभैरवः ॥३०॥
गायत्री छन्द आदिष्टं वाग्भवं बीजमीरितम् ।
लज्जा शक्तिर्महेशानि कामबीज च कीलकम् ॥३१॥
देवता त्रिपुरेशी च षडङ्गेति द्वयेन च ।
ध्यानपूजादिकं सर्वं सुन्दरीवत्समाचरेत् ॥३२॥
मातङ्गी बगला लक्ष्मीर्धूम्रोच्छिष्टाक्रमे श्रृणु ।
तारं कूर्चं नारसिंहैः पञ्चानां कुल्लुका मता ॥३३॥
ऋषिर्भैरवनामा च यावच्छन्दांसि पार्वति ।
देवता सैव बीजादि स्वस्य देवक्रमेण वै ॥३४॥
ध्यानपूजादिकं सर्वं स्वस्वदेववदाचरेत् ।
इति संक्षेपतः प्रोक्तं कहरूपं श्रृणु प्रिये ॥३५॥
कहेश्वरी महाविद्या द्रुतं सिद्धिफलप्रदा ।
कहेति द्वयक्षरो मन्त्रो यस्य वक्त्रे विराजते ॥३६॥
स एव कालीरूपः स्यात्तारादेहमवाप्नुयात् ।
कहेति पुष्पिणी मुख्या तत्सर्वं सर्वदा चरेत् ॥३७॥
ऋतुस्नातां समादाय तस्या xxप्रपूजयेत् ।
xxपूजनमात्रेण त्रैलोक्यविजयी शिवः ॥३८॥
त्रिकोणसंज्ञा xxस्यात्तत्रस्थो बिन्दुरुच्यते ।
त्रिकोणमध्ये साङ्गां वै तथा सावरणां प्रिये ॥३९॥
सरहस्यां प्रपूज्याथ तत्र यन्त्रं विभावयेत् ।
कृत्वाsवरणपूजां च यत्किञ्चित् जपति प्रिये ॥४०॥
तत्सर्वं सिद्धिदं देवि नात्र कार्या विचारणा ।
तया यदुच्यते देवि शुभं वा यदि वाxशुभम् ॥४१॥
तत्सर्वं यत्नतो देवि कर्तव्यं हितमिच्छता ।
xxxxमृतैर्देवि तर्पणं सर्वदा चरेत् ॥४२॥
ब्रह्मरूपा सिद्धरूपा प्रसन्ना कालिका भवेत् ।
उत्तमा xxपूजा स्याद्यन्त्रपूजा च मध्यमा ॥४३॥
अधमा मूर्तिपूजा च पादपूजा वृथा भवेत्
xxपूजा नाभिपूजा कोणाभावे प्रकीर्तिता ॥४४॥
कोणे तदीये विद्यन्ते नाड्यस्तिस्त्रः प्रधानिकाः ।
अम्बु स्रवति चान्द्रीया पुष्पं स्रवति भानवी ॥४५॥
बीजं स्रवति चाग्नेयी त्रिकोणमध्यगा स्मृता ।
आग्नेयीनाडिकां वीक्ष्यपूज्य जाप्य प्रतर्पयेत् ॥४६॥
xxxxमृतैः कुण्डगोलोत्थैः स्वस्वपुष्पकैः ।
स्वयम्भूकुसुमैर्देवि पूजयेत्कालिकां सदा ॥४७॥
मुण्डमाला गले धार्या महाशङ्खं कराम्बुजे ।
ध्यायेत् xxमुखे हाला कामबाला तवाग्रतः ॥४८॥
नरमाला दन्तमाला स्मशानं योनिमण्डलम् ।
एवं यः कुरुते देवि त्रिशक्तिसिद्धिमाप्नुयात् ॥४९॥
अन्यथानन्तजापैश्च वीरसाधनकोटिभिः ।
त्रिशक्तयो न सिध्यन्ति किमन्यच्छ्रोतुमिच्छसि ॥५०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे शक्तिकोणविनिर्णयो नाम षष्ठः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:34.9670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गूळ हाती देणें

  • लहान मुलाला गूळखोबरे देऊन त्‍याच्याकडून लागेल ते काम करून घेतां येते. १. लालूच दाखविणें, लांच देणें. २. फसविणें 
  • भुरळ घालणें 
  • तोंडावर हात फिरविणें. ‘गुळखोबरे विलोकुनि भलत्‍याहि जनासि बाळक वळावा।’ -मोउद्योग ७.९. 
RANDOM WORD

Did you know?

वास्तुशास्त्र पाहणे कितपत विश्वासार्ह आहे? त्याचे परिणाम जाणवतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site