संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षट्षष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षट्षष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
अथोच्यते महायन्त्रसंस्कारः सर्वसिद्धिदः ॥१॥
शुभेsह्नि स्नानमाचर्य शुभे लग्ने शुभे क्षणे ।
कृतनित्यक्रियो मन्त्री प्राड्मुखो वाप्युदड्मुखः ॥२॥
भूतशुद्धयादिकं कृत्वा कल्पोक्तं न्यासमाचरेत् ।
सुवर्णं राजतं ताम्रं श्रेष्ठं मध्यं तथाधमम् ॥३॥
ताम्रं शतगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् ।
स्वर्णं चानन्तफलदं स्फाटिकेsपि तथा भवेत् ॥४॥
स्फाटिके वा मरकते नियमो नास्ति मानकम् ।
एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ॥५॥
पञ्चतोलं रसतोलं सप्ताष्टतोलकं तथा ।
साधकस्य मनोज्ञं वा कृत्वा पीठं सुसाधयेत् ॥६॥
पूर्वोक्तधातुद्रव्युऐश्च सुन्दरं सुमनोहरम् ।
ताम्रे द्वादशवर्षाणि धारणे न तु पूजणे ॥७॥
ताम्रार्घ्ये ताम्रयन्त्रे च देवता सर्वदा स्थिता ।
सुरेखं शुभदं यन्त्रं लेखयित्वा विधानतः ॥८॥
प्रतिष्ठां च ततः कुर्यात् यथाशास्त्रप्रमाणतः ।
पुण्यक्षेत्रे पुण्यकाले शैलादिविहिते स्थले ॥९॥
मन्त्री कल्पानुसारेण पूर्वेद्युरधिवासयेत् ।
सायं संकल्प्य विधिवत् घटस्थापनपूर्वकम् ॥१०॥
गणेशादीन्समभ्यर्च्य दिक्पालान्परिपूजयेत् ।
मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ॥११॥
यन्त्रसंस्कारकर्मादौ द्रव्यमेतन्मयेरितम् ।
यथाशक्त्युपचाराद्यैः पूजयेन्मूलदेवताम् ॥१२॥
सुगन्धतैलगन्धाद्यैर्द्रव्युऐस्तमधिवासयेत् ।
चन्द्रेत्यादि तु मन्त्रेण जपेद्दोषपुरःसरम् ॥१३॥
इत्यधिवासनं कृत्वा संयतो विजितेन्द्रियः ।
प्रातःकृत्यं तु निर्वर्त्य कृत्वा योगस्थले विशेत् ॥१४॥
पताकाध्वजसंकीर्णे दिव्यमण्डलमण्डिते ।
वितानचामरच्छत्रपुष्पमालाविराजिते ॥१५॥
मङ्गलाङ्कुरपत्राद्यैः कलशैः परिभूषिते ।
मण्डलं सर्वतोभद्रं रेखासहस्रसंयुतम् ॥१६॥
सामान्यभद्रं वा देवि वेद्या उपरितो लिखेत् ।
प्राड्मुखो वाग्यतो भूत्वा सङ्कल्पाभीष्टसिद्धये ॥१७॥
पंचशुद्धि समाचर्य्य कूर्चमक्षतसंयुतम् ।
संस्थाप्य मण्डले तत्र यजेदाधरशक्तितः ॥१८॥
पीठमन्त्रान् समास्तीर्य स्थापयेत् कलशं बुधः ।
दीक्षाक्रमोक्तविधिनाभिषेककलशं तथा ॥१९॥
पंचगव्यं तथा कुर्यात् शिवमन्त्रैर्विशोधयेत् ।
तेन सुस्नापयेन्मन्त्री यन्त्रे वा प्रणवं जपेत् ॥२०॥
पञ्चामृतेन हविषा दध्ना च पयसा क्रमात् ।
तत उद्वर्तणं कृत्वा जलेन स्नापयेदपि ॥२१॥
पञ्चगव्यं समानीय तत्र यन्त्रं समाहितः ।
जप्तं क्षिपेत्सुवर्णादि देवमूलपुरःसरम् ॥२२॥
तत उद्धृत्य स्वर्णादि पात्रे संस्थाप्य मन्त्रवित् ।
पञ्चामृतेन तीर्थेन शीतलेन जलेन च ॥२३॥
सहस्रशीर्षामन्त्रेण मूलमन्त्रपुरःसरम् ।
सुस्नाप्य पावमानेन कर्पूरागुरुनीरतः ॥२४॥
सर्वौषधिजलैर्गन्धजलैर्यत्नेन मज्जनम् ।
ततः शुद्धदुकूलेन जलमुत्सार्य साधकः ॥२५॥
परिधाय दुकूले द्वे स्वर्णनिर्मितदोलया ।
मण्डले तं समानीय नृत्यगीतैर्जयस्वनैः ॥२६॥
कुंकुमाद्यैर्विलेप्याथ पूज्य सर्वोपचारकैः ।
पीठपूजां ततः कुर्यात् स्वसङ्कल्पोक्तमानतः ॥२७॥
कुशैः कुलीनैर्देवेशि शतमष्टोत्तरं जपेत् ।
प्रणवं यन्त्रराजय विद्महे पदमुद्धरेत् ॥२८॥
महायन्त्राय धीरूपं लिखेत्ततो महीति च ।
तन्नो यन्त्रं प्रचोरूपं दयादेषा प्रकीर्तिता ॥२९॥
इमां यन्त्रस्य गायत्रीं जप्त्वा देवत्वमाप्नुयात् ।
अथेष्टदेवतां ध्यात्वा मुद्रयाsवाहयेत्ततः ॥३०॥
जीवन्यासं ततः कुर्यात् पूजयेदिष्टदेवताम् ।
नृत्यगीतैश्च वादित्रैः पञ्चघोषपुरःसरम् ॥३१॥
ततो जपेदिष्टमन्त्रं अष्टोत्तरसहस्रकम् ।
कुण्डे वा स्थंडिले मन्त्री हविषा संस्कृतेsनले ॥३२॥
यथाविधिविधानेन स्रुचा होमं समाचरेत् ।
ग्रासप्रमाणं चरुकं मूलेनावृत्य मन्त्रवित् ॥३३॥
घृतस्रुवं ततो दत्त्वा ज्य्हुयादग्निसंमुखे ।
पञ्चविंशतितत्त्वैश्च तत्त्वन्यासपरायणः ॥३४॥
वरुणं दिक्पतिं चैव दद्यात्पूर्वोदितं बलिम् ।
तत आवृतिदेवेभ्यो घृतेनाहुतिमाचरेत् ॥३५॥
तदन्ते देवीमन्त्रेण हुनेदष्टोत्तरं शतम् ।
मातृकायुक्तमन्त्रं तु जपन् जयजयस्वनैः ॥३६॥
गत्वा होमसमीपे तु दत्त्वा पूर्णाहुतिं ततः ।
इष्टसिध्यै बलिं दद्यात् प्रणमेच्चक्रमुत्तमम् ॥३७॥
तोषयेत्स्वर्णवस्त्राद्यैः प्रदद्याद्दक्षिणामपि ।
मकारैः पञ्चभिर्देवि वीरपूजां समाचरेत् ॥३८॥
शक्तिं कुमारिकां बालां पूजयेत्पञ्चपञ्चकम् ।
कुर्यादष्टाष्टकं वापि कुलद्रव्यसमाक्तकैः ॥३९॥
त्रैलोक्यनाथो भवति यन्त्रपूजनयोगतः ।
रहस्यातिरहस्यं च मुण्डयन्त्रविशोधनम् ॥४०॥
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४१॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे यन्त्रसंस्करणं नाम षट्षष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP