संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि यक्षिणीमण्डलं शुभम् ।
श्रीशिव उवाच ।
गन्धर्वाप्सरसो यक्षकिन्नरा गुह्यकादयः ॥१॥
एतेषां देवदेवेशि मण्डलानि बहूनि च ।
यक्षिणीमण्डलं चादौ ततो गन्धर्वमण्डलम् ॥२॥
अप्सराकिन्नरीयुग्मे ततो गुह्यकयुग्मकम् ।
भूतिनीनागिनीयुग्मे कूष्माण्डमण्डलं ततः ॥३॥
महाक्रोधेन क्रोधेन श्रीपार्षन्मण्डलेन वा ।
अन्यथा नैव सिध्यन्ति लक्षकोटियुगैरपि ॥४॥
महाविद्यामहायक्ष्या मण्डलं सिद्धमण्डलम् ।
महायक्षश्च यक्षिण्यो महायक्षश्च यक्षकः ॥५॥
कस्मिन्को वा भवेद्यक्षो महायक्षश्च को भवेत् ।
यक्षिणी का च कस्यां च महायक्षी तु का भवेत् ॥६॥
एतदज्ञाअनतो देवि नहि सिध्यन्ति कुत्रचित् ।
पूर्वोक्तमण्डलान्यत्र सिध्यन्ति विद्यया ध्रुवम् ॥७॥
आदौ काली च तद्यक्षी महामधुमती परा ।
द्वितीया भ्रामरी या च सुन्दर्याः सुरसुन्दरी ॥८॥
भैरव्याश्चन्द्ररेखा च भार्या च भगिनी सुता ।
मता शाली केलिकुञ्ची श्वश्रूश्च शालभञ्जिका ॥९॥
यक्षिणीरूपमाख्यातं महायक्षी च मातृका ।
तारायास्तारिणी यक्षी किंकटा पद्मनायिका ॥१०॥
छिन्नाया लम्पटा यक्षी बगलाया बिडालिका ।
कमलायास्तु धनदा भुवनेश्याः श्रृणु प्रिये ॥११॥
त्रैलोक्यमोहिनी यक्षी मातंग्याः श्रृणु यत्नतः ।
श्रीमनोहारिणी प्रोक्ता धूमावत्याः श्रृणु प्रिये ॥१२॥
भीषणी यक्षिणी प्रोक्ता दशमण्डलमीरितम् ।
दशविद्याविधौ देवि महायक्ष्यः प्रकीर्तिताः ॥१३॥
यद्विद्यायाश्च या यक्षी सा तस्याः सेवका मता ।
तस्याश्चोपासको यो हि तस्य सा सिध्यति ध्रुवम् ॥१४॥
अन्यमन्त्रं जपन्मर्त्यो यां काञ्चिद्यक्षिणीं जपेत् ।
न तस्य फलसिद्धिः साद्यक्षिणीकोपमाप्नुयात् ॥१५॥
दशमण्डलयक्षिण्या भेदा वै कोटिशः स्मृताः ।
तेsपि वै दशविद्यानां भेदाः सिध्यन्ति नान्यथा ॥१६॥
भूतमण्डलमप्यत्र सिद्धं भवति निश्चितम् ।
एतद्यो वै न जानाति तस्य यक्षी कथं भवेत् ॥१७॥
अथाष्टनायिका यक्ष्यः सिध्यन्त्यत्र महेश्वरि ।
षट्त्रिंशदत्र यक्षिण्यो यक्षिण्यः षोडश प्रिये ।
विद्यासिद्धौ प्रसिध्यन्ति नान्यथा नाशमाप्नुयात् ॥१८॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे यक्षिणीमण्डलं नाम सप्तमः पटलः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP