TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुःपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुःपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


चतुःपञ्चाशतिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
तन्मे कथय देवेश यद्यहं तव वल्लभा ॥१॥
श्रीशिव उवाच ।
तव प्रीत्या महेशानि रहस्यमपि कथ्यते ।
मालायन्त्राणि सर्वाणि दुर्गञ्चैव तृतीयकम् ॥२॥
त्रयाणां नहि भेदोsस्ति रत्नलेखनधारणे ।
फलमेकं महेशानि द्रुतसिद्धिकरं भुवि ॥३॥
बिन्दुरत्नविशीर्णाङ्गे कृमिकीटविवर्जिते ।
दोषो न रत्ने देवेशि काश्मीरे मौक्तिके शिवे ॥४॥
प्रवाले कथितो दोषः साङ्गं जलयुतं शुभम् ।
मौक्तिकानामष्टजातिर्वंशादिक्रमयोगतः ॥५॥
त्रिविधानि प्रवालानि हीरस्पर्शौ चतुर्विधौ ।
अन्यो नियमो नास्त्यत्र रत्नं बहुविधं भवेत् ॥६॥
बिन्दुत्रिबिन्दुवर्णादि नवसङ्करजातितः ।
तत्रापि फलमेतद्धि कीर्तितं परशम्भुना ॥७॥
मध्यं विद्धं कोणमष्टं वक्त्रे रेखा विजृम्भितम् ।
न तद्यन्त्रं दोषकरं यत्सिद्धगुरुदर्शितम् ॥८॥
न तद्यन्त्रं दोषकरं यत्सिद्धगुरुदर्शितम् ।
जापे वै केवला सिद्धा यन्त्राणां गणनायकाः ॥९॥
स्वर्णे वर्षार्द्धमात्रेण फलं भवति निश्चितम् ।
रौप्ये वर्षोत्तरं देवि शिरोवस्त्रे द्विपक्षतः ॥१०॥
कटिवस्त्रे त्रिपक्षान्ते फलं यच्छति मुद्रिका ।
तथावरणवस्त्रे तु फलमत्रं प्रकीर्तितम् ॥११॥
गारुत्मते पक्षमात्रात् सिद्धिर्भवति निश्चितम् ।
प्रद्मरागे षड्दिनानां युग्मात् सिद्धिर्भवेद् ध्रुवम् ।
पञ्चरात्रेण गोमेदे मनोवांछितकामदा ॥१३॥
हीरके त्रिदिनेनैव वैडूर्ये दिनसप्ततः ।
परिसे तत्क्षणादेव सिद्धिर्भवति निश्चितम् ॥१४॥
इन्द्रनीले वेददिनैः सिद्धिर्भवति निश्चितम् ।
प्रवाले मासदशकैर्मौक्तिके वसुमासतः ॥१५॥
सिद्धिर्भवति देवेशि नात्र कार्या विचारणा ।
मुद्रा माला तथा दुर्गं नाल्पस्य तपसः फलम् ॥१६॥
रुद्रप्रयोगे देवेशि कर्त्ता हर्त्ता प्रजायते ।
अन्ययोगं प्रवक्ष्यामि कामनाद्रव्यभेदतः ॥१७॥
हरिद्रावत्सनाभेन दशयन्त्राणि लेखयेत् ।
त्रैलोक्यनिग्रहे शक्तिर्दशाहेन भवेद् ध्रुवम् ॥१८॥
वत्सनाभं समानीय दीपाग्रे तु प्रदर्शयेत् ।
तैलं पतति यद्भूमौ तदान्यं घ्राणहोमतः ॥१९॥
वत्सनाभं कृष्णवर्णं तैलाक्तं परमेश्वरि ।
तेन मुद्रात्रयं लेख्य दीपे प्रज्वालयेन्नरः ॥२०॥
त्रैलोक्याकर्षणं कुर्यान्मार्ज्य चोच्चाटनं चरेत् ।
पुनर्लिख्य प्रतापाद्धि पुनराकर्षयेद् ध्रुवम् ॥२१॥
पुनर्माज्य महेशानि त्रैलोक्याकर्षणं चरेत् ।
विषेण प्रलिखेन्मुद्रां संपुटीकृत्य दीपके ॥२२॥
प्रत्यहं दाहयेद्दिवि त्रैलोक्यनिग्रहो भवेत् ।
विषाष्टकेन संलिप्य दाहयेदविचारयन् ॥२३॥
यन्नाम्ना विलिखेद्देवि तमेव मारयेद् ध्रुवम् ।
रत्नपीठे लिखेद्देवि भावयेत् प्रतिबिंबयेत् ॥२४॥
ऊर्ध्वरेखा च वा देवि तथा पातालरेखिका ।
हीरके परिसे नीले यथैव विलिखेत्तथा ॥२५॥
कारयेद्यत्नतो देवि लेखयेदपि पार्वति ।
रत्नेsपि विलिखेद्देवि यथाकामनया प्रिये ॥२६॥
पुनर्लेख्य पुनर्मार्ज्य तदेव फलमश्नुते ।
अन्यपीठादपि शिवे फलमत्राधिकं भवेत् ॥२७॥
परिसे हीरके देवि कनिष्ठानां च पर्वणः ।
मानं प्रोक्तं महेशानि गोमेदे स्यादनामिका ॥२८॥
गारुत्मते मध्यमायां मध्यपर्वार्धमुद्रिका ।
कारयेत्परमेशानि त्रैलोक्यविजयाय च ॥२९॥
तर्जनी पूर्ववद्वापि पीठवैडूर्यसम्भवे ।
इन्द्रनीले मध्यमायां मध्यमार्धं महेश्वरि ॥३०॥
पद्मरागे तु तर्जन्या मध्यमे न्यूनमेव च ।
पुष्परागे त्वनामाया मध्यं न्यूनानना भवेत् ॥३१॥
वृद्धाया मध्यमा नामा न्यूना मुद्रा सुवर्णजा ।
तदस्यार्द्धा सुवर्णे स्याद्रत्नवल्ल्यर्धरूपके ॥३२॥
वर्तुलं चतुरस्त्रं वा वस्वस्त्रं वा षडस्रकम् ।
नवास्त्रं ध्वजरूपं वा पीठं प्रोक्तं मया तव ॥३३॥
न रत्नसदृशं पीठं न भूतं न भविष्यति ।
यन्त्रसिद्धं जीवचक्रं यथा कौले प्रकीर्तितम् ॥३४॥
यथा चीने कपालाख्यं यत्रपीठं सुसिद्धिदम् ।
यथा जैने दिव्यपीठं बार्हस्पत्ये तु कीलकम् ॥३५॥
तथा मुद्रादुर्गविधौ पीठमेतत्प्रकीर्तितम् ।
अन्यत्र वर्षाद्या सिद्धिः सा रत्ने क्षणमात्रतः ॥३६॥
द्रुतसिद्धिकरं पीठं रत्नपीठं महेश्वरि ।
विंशत्यङ्के शताङ्के तु सहस्रदिक्सहस्रकम् ॥३७॥
समाङ्कमात्रे देवेशि कोष्ठके नवकोष्ठके ।
स ब्रह्मा स शिवः प्रोक्तं स स्वाराट् ईशतां व्रजेत् ॥३८॥
अहो ज्ञानवतां ज्ञानी मुद्रादुर्गपरायणः ।
शिव एव महेशानि नात्र कार्या विचारणा ॥३९॥
एतत्सिद्धे महेशानि क्षणादिन्द्रत्वकारकः ।
नवीनविष्णुनिर्माणं विधीनां दशपञ्चकम् ॥४०॥
कर्तुं शक्रोति देवेशि नात्र कार्या विचारणा ।
शिवताण्डवतन्त्रे तु यन्त्रं सिध्यभिधे परे ॥४१॥
अङ्कार्णवसर्वस्तेतु अङ्कचूडामणावपि ।
अक्षोभ्यकक्षपुट्यां तु खेचरीसिद्धिनामनि ॥४२॥
संक्षेपेण मया प्रोक्तं विस्तरोsत्र प्रदर्शितः ।
नवकोष्ठे समाङ्काख्ययन्त्राणि सिद्धिदानि च ॥४३॥
पूर्वसिद्धानि कार्याणि ततश्च प्रत्ययं चरेत् ।
कोट्यङ्कयन्त्रं देवेशि लिख्य धर्मे प्रतापयेत् ॥४४॥
यन्नाम्ना तापयेद्देवि तमेवाकर्षयेद् ध्रुवम् ।
पद्माङ्कमेतत् संलिख्य स्थापनीयमधोमुखम् ॥४५॥
तत्र स्थित्वा जपेच्छक्तिं सर्वाकर्षणकुन्नरः ।
पञ्चाशत्पद्मपर्यन्तं समाङ्के फलमेककम् ॥४६॥
सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ।
जलस्थलगता लोका यत्किञ्चिज्जगतीगतम् ॥४७॥
स्त्रीहेमरत्नखङ्गादि पातालतलमप्यलम् ।
सर्वमाकर्षयेत्तोर्णं कालीताराप्रसादतः ॥४८॥
कालीताराप्रसादेन महामधुमतीं लभेत् ।
मधुमत्याः प्रसादेन यत्किञ्चिद् गोलगोचरम् ॥४९॥
सर्वमाकर्षयेत्तर्णं नात्र कार्या विचारणा ।
गोपालसुन्दरी देवी यथा प्रोक्ता मया तव ॥५०॥
कालीतारा मया प्रोक्ता ताराकाली तथा परा ।
काली कालो कालकाली ताराक्षोभ्यस्तथैव च ॥५१॥
अक्षोभ्यतारा देवेशि प्रत्येकं योजयेच्छिवे ।
तस्योच्चारो भवेदादौ तत्पीठमादिमं मतम् ॥५२॥
कालीपीठे यजेत्तारां तारापीठें तु कालिकाम् ।
कालीपीठ यजेत्कालं तथैवाक्षोभ्यतारिणीम् ॥५३॥
मेधा वा कमला लक्ष्मी रामा संवश्यकर्मणि ।
इत्याद्यं प्रोक्तमाकर्षे x x x शक्तिपूजने ॥५४॥
पीठतेतन्मया प्रोक्तं रहस्यातिरहस्यकम् ।
गोपनीयं गोपनीयं गोपनीयं महेश्वरि ॥५५॥
अवाच्यं कुरु देवेशि स्वयोनिरपरा यथा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतिमिच्छसि ॥५६॥
 
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे रत्नसङ्केतकथनं नाम चतुःपञ्चाशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:37.8270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अडमुशी

  • वि. 
  • गुदमरण्याच्या स्थितींत असलेला ; गुदमरुन गेलेला ; श्वास कोंडल्यामुळें व्याकूळ झालेला . 
  • a  That is in the state of choking. Drawn up and rolled together. 
  • गठडी वळलेला ( तापामुळें ). ( क्रि० पडणें , होणें ). [ सं . अर्ध + मुह ] 
RANDOM WORD

Did you know?

ADHYAY 43 OF GURUCHARITRA IS WRONGLY PRINTED AND ADHYAY 47 AND 48 ARE SAME KINDLY CHANGE or make correction for it
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.