TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टपंचाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टपंचाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


अष्टपंचाशतिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि स्त्रीणां दीक्षाविनिर्णयम् ।
स्त्रीणां दीक्षा कथं देया केन वा परमेश्वर ॥१॥
ईश्वर उवाच ।
पुत्रेण मातुर्दीक्षा वै देया भक्तिवशेन तु ।
भक्तियोगे द्रढीयान्वै मन्त्रशास्त्रे महेश्वरि ॥२॥
ऐक्यसम्भावनाद्देवि देवत्वमुपजायते ।
मन्त्ररूपो भवेद्देवो देवरूपो गुरुः स्मृतः ॥३॥
गुरुरूपो भवेदात्मा चात्मरूपो मनुर्भवेत् ।
मन्त्रश्चैतन्य इत्युक्तश्चैतन्यं गुरुरूपकम् ॥४॥
मन्त्रो देवो गुरुरिति त्वेकपर्यायवाचकः ।
एतदभ्यासयोगेन तद्रूपरूपको भवेत् ॥५॥
ताद्रूप्यरूपकं नाम तत्र त्वात्मैकविग्रहम् ।
ताद्रूप्ये तु समापन्ने शिवयोगी स जायते ॥६॥
अयं मानसिको धर्मः कारणं मन एव हि ।
मात्रा दीक्षा प्रदेया वै स्त्रीणां नान्येन शाम्भवि ॥७॥
देवीपरम्पराप्राप्ता दीक्षा स्त्रीणां शुभा मता ।
देवीपरम्परायां तु विशेषं श्रृणु पार्वति ॥८॥
देवीपरम्परोद्दिष्टपारम्पर्यक्रमागता ।
स्त्रीणां दीक्षा परं जाता दीक्षा देवि शुभा मता ॥९॥
तत्परम्परया प्राप्ता दीक्षा सिद्धिप्रदा मता ।
पुरुषाणां तत्सकाशद्दीक्षा जाता परम्परा ॥१०॥
मुख्यं श्रृणु महादेवि स्त्रीणां न नियमो मतः ।
नियमः पुरुषे ज्ञेयो न योषित्सु कथञ्चन ॥११॥
इदं पशुपरं बोध्यं नहि वीरपरं शिवे ।
वीराणां देवदेवेशि सर्वत्र दीक्षणं वरम् ॥१२॥
देवीपारम्पर्यवरे स्त्रीणां दीक्षा तु या मता ।
तेन दीक्षणयोगेन त्रैलोक्यविजया सती ॥१३॥
तत्समानैव सा स्त्री स्यात् नान्यथा शांकरं वचः ।
तस्या मुखोद्गता विद्या सिद्धविद्या प्रकीर्तिता ॥१४॥
सा विद्या बालसंस्कारे रसनायां विलिख्यते ।
त्रिवर्षादूर्ध्वतो देवि त्रैलोक्यविजयी कविः ॥१५॥
शाक्ते विकल्पसहिते कथं दीक्षा भवेत् प्रिये ।
गुरोः सकाशाच्चेद्दे या तदा सा भगिनी मता ॥१६॥
स्वयं वै यदि चेद्देया तदा कन्या प्रकीर्तिता ।
अन्यतो दापनीया चेन्मार्गभ्रष्टा तदा भवेत् ॥१७॥
श्रीदेव्युवाच ।
मन्त्रशास्त्रे बहुविधा मार्गा देव पुरोदिताः ।
तदर्थं शङ्क्यते चित्तं किं कार्यं वद शङ्कर ॥१८॥
श्रीशिव उवाच ।
स्वसम्प्रदाये यः श्रेष्ठस्तत्सकाशात्तु दीक्षणम् ॥१९॥
त्रयोदश्यां कृष्णपक्षे चन्द्रवासरसंयुते ।
ताडपत्रे मनुं लिख्य संस्कारदशकं चरेत् ॥२०॥
दशसंस्कारयोगेन सिद्धो मन्त्रो भविष्यति ।
तद्दिने पायसं कृत्वा दक्षिणामूर्तिसन्निधौ ॥२१॥
पायसाद्यं निवेद्याsथ बिल्वैः संपूज्य शङ्करम् ।
शतं कृत्वा वाचनीयमष्टोत्तरसहस्रकम् ॥२२॥
संजप्य होमयेद्देवि तत्र तंत्रोक्तवर्त्मना ।
वाचने नास्ति चेच्छक्तिस्तदा किं वा विधीयते ॥२३॥
पुत्रद्वारा वाचनीयं स पुत्रो गुरुरेव तु ।
एवं गृहीतमन्त्रस्तु सिद्धिदो भवति प्रिये ॥२४॥
अथवा तादृशी कार्या शास्त्रवाचनतत्परा ।
धर्मशास्त्रं तु सम्पाद्य चार्णवानां च विंशतिः ॥२५॥
शास्त्रज्ञां कारयित्वा तु समयाचारतत्पराम् ।
शास्त्रसंवाचनपरां कारयित्वा महेश्वरि ॥२६॥
ततः पूर्वोक्तविधिना वाचनीयो मनुः प्रिये ।
एवं गृहीतविधिना देवीरूपैव सा मता ॥२७॥
श्रीदेव्युवाच ।
देवदेव महादेव सर्वसिद्धिप्रदायक ।
पूर्वं प्रोक्तं त्वया देव स्त्रीणां नात्राधिकारिता ॥२८॥
दक्षिणामुर्तिघोरादौ पञ्चाक्षर्य्यां महेश्वर ।
प्रणवाद्येषु मन्त्रेषुं स्त्रीणां नात्राधिकारिता ॥२९॥
विशेषाद्दक्षिणामुर्तौ स्त्रीणां वै नाधिकारिता ।
त्वया प्रोक्तं महादेव सम्प्राप्तेsपि ध्रुवं त्यजेत् ॥३०॥
इत्याद्युक्तं महादेव कथं ग्राह्यो मनुस्तथा ।
शूद्राणां तु यथा यज्ञो नोक्तः प्रत्यक्षतस्त्वया ॥३१॥
वेदादौ तु महादेव शूद्राणां नाधिकारिता ।
तैर्यज्ञश्च कथं कार्यस्तथा स्त्रीणां महेश्वर ॥३२॥
उपासनायां देवेश यस्य वै नाधिकारिता ।
तस्य ध्यानं कथं कार्यं तत्सकाशात्कथं मनुः ॥३३॥
ग्राह्यो वै देवदेवेश यथा वै सूतकद्वये ।
उपस्थानाधिकारो न तस्य पूजा कथं मता ॥३४॥
श्रीशिव उवाच ।
अध्यातास्तु क्रियाः कार्या नोपस्थानं समाचरेत् ।
तथा वै देवदेवेशि स्त्रीणां वै नाधिकारिता ॥३५॥
पूर्णाभिषेकयुक्तानां सूतकाद्यं न च स्मृतम् ।
स्नानं दानं तथा सन्ध्या पूजाद्यं कारयेच्छिवे ॥३६॥
यस्य दर्शनमात्रेण पापिष्ठाः पुण्यरूपिणः ।
तस्य पापं कुतो देवि वर्तते वद सत्वरम् ॥३७॥
स एव पुण्यराशिर्वै नात्स्यत्र संशयः शिवे ।
अन्यदीक्षादिभिर्युक्तास्तेषां वै सुतकं नहि ॥३८॥
श्रीदेव्युवाच ।
एकं तु सुतकं देव वर्तते तस्य देवते ।
मन्त्रस्य च तथा होमस्यास्ति देव न चेतरम् ॥३९॥
जन्मसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।
दक्षिणामुर्तितो देव गृहीते मन्त्रवर्यके ॥४०॥
गुरुः को वा तत्र पूज्यः का वा तत्र परम्परा ।
श्रीशिव उवाच ।
ध्यात्वा श्रीदक्षिणामुर्ति विहाय प्रणवं प्रिये ॥४१॥
मन्त्रो ग्राह्यो महेशानि गुरुः श्रीदक्षिणेश्वरः ।
महाविद्याविधौ देवि दक्षिणेशपरम्परा ॥४२॥
तत्परम्परया पूजा गुरोः कार्या महेश्वरि ।
यथा शूद्रेण देवेशि यज्ञमुख्याः क्रियाः शुभाः ॥४३॥
कार्य्यं ते चान्यद्वारेण तथाsत्र प्रणवं त्यजेत् ।
इयं दीक्षा पशूनां वै पाशवत्वप्रदायिनी ॥४४॥
अथवाsन्यप्रकारेण दीक्षणं श्रृणु साम्प्रतम् ।
नद्यां समुद्रगामिन्यां शुभलग्ने शुभे दिने ॥४५॥
सम्प्रदायं पुरा पृष्ट्वा श्रीसूर्यमण्डलं लिखेत् ।
साङ्गं सावरणं सूर्यं सम्पूज्य प्राणवल्लभे ॥४६॥
ताडपत्रे मनुं लिख्य वाचयेत्तत्सकाशतः ।
शताष्टवारं संवाच्यं चाङ्कानां वामतो गतिः ॥४७॥
तत्र सूर्यं गुरुं पूज्य सर्वसिद्धीश्वरो भवेत् ।
वीराणां कौलिकानां तु भर्ता दीक्षणमाचरेत् ॥४८॥
इदं पशुपरं प्रोक्तं नहि दक्षिणदीक्षणम् ।
स्वस्वकल्पोक्तविधिना संजप्य परमेश्वरि ॥४९॥
पुरश्चर्यां प्रकुर्वीत यथोक्तेन तु वर्त्मना ।
इति प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि ॥५०॥
श्रीदेव्युवाच ।
पूर्वं संसूचितं देव न मह्यं वै प्रकाशितम् ।
तदद्य कथ्यतां देव यद्यहं तव वल्लभा ॥५१॥
श्रीशिव उवाच ।
अथ तेsहं प्रवक्ष्यामि पूर्वं संगोपितं मया ।
दुर्गां कालीं शूलिनीं तु विहाय सिद्धिमिच्छति ॥५२॥
दघ्योदनं परित्यज्य दृषद्भक्षणमिच्छति ।
दुर्गा काली शूलिनी तु सर्वसिद्धिप्रदा मता ॥५३॥
महाविद्या कलौ देवि न देया यस्य कस्यचित् ।
प्रमादाद्यदि वा दद्यात् नहि सिध्यति सर्वथा ॥५४॥
तत्रापि सुन्दरी काली न देया सर्वथा प्रिये ।
शक्ति स्वायम्भुवे बौद्धे वैष्णवे सौरचान्द्रयोः ॥५५॥
गाणपे चीनकौलेषु तथा पाशुपतक्रमे ।
शाबरे केरले दिव्ये मन्त्रमात्रे महेश्वरि ॥५६॥
वरदानाधिकारी हि कालिकायां प्रकीर्तितः ।
मन्त्रमात्रे प्रसादस्तु कालिकायाः प्रकीर्तितः ॥५७॥
शैवशाक्ताद्यागमेषु कालिका वरदायिनी ।
एकस्मिन्समये पूर्वं त्रिपुराजयवानहम् ॥५८॥
पञ्चाशल्लक्षजापं तु कृतं तु शम्भुना शिवे ।
प्रसन्ना वै तदा जाता सुन्दरी भक्तवत्सला ॥५९॥
कालिकाग्रे त्वया गत्वा ग्राह्यं तु वरदानकम् ।
शिवेनोक्तं महादेवि कोटिब्रह्माण्डनायिके ॥६०॥
राजराजेश्वरी त्वं हि मया कुत्र प्रगम्यते ।
आद्या श्री दक्षिणा काली अनिरुद्धसरस्वती ॥६१॥
मम प्रकृतिभूता तु सैव विद्या महेश्वरी ।
अन्या विकृतयः सर्वा विकृतौ नहि मुख्यता ॥६२॥
श्रीदेव्युवाच ।
अहं तु दक्षिणाकाली द्वितीया प्रकृतिर्वरा ।
ब्रह्मसम्मोहनार्थाय प्रपञ्चार्थं महेश्वर ॥६३॥
जाता तदाज्ञया देव साहं ज्येष्ठा महेश्वर ।
तत्र गत्वा वरो ग्राह्यः सैवाहं नात्र संशयः ॥६४॥
वरदानं मन्त्रमात्रे काल्या एव प्रकीर्तितम् ।
एवमन्ये महामन्त्राः संजपन्ति महेश्वर ॥६५॥
महामन्त्रैः कालिकाग्रे गत्वा सम्प्रोच्यते च यत् ।
तत् श्रृणुष्व महादेव महद्गुह्यतरं वचः ॥६६॥
कालकाली महाकाली विद्याराज्ञी महोदया ।
सिद्धिनाथेश्वरी प्राणप्रिये सर्ववरप्रदे ॥६७॥
उपासकप्रसादाख्यं वरदानं कृतं शिवे ।
तत्रस्थं जायतां देवि त्विदं याचे तवाग्रतः ॥६८॥
महामन्त्रादयो मन्त्रा यूयं गच्छन्तु मे गृहम् ।
तथैव क्रियतेsस्माभिर्यथाकर्मानुसारतः ॥६९॥
भगवत्याः प्रसादेत्युक्ते वै सुन्दरीं प्रति ।
सुन्दर्या तु तथा प्रोक्तं प्रसादात्परमेव च ॥७०॥
अहं प्रपञ्चभूतास्मि सा तु निर्गुणरूपिणी ।
यथा यत्क्रियते सर्वं तंत्रं जातु विधीयते ॥७१॥
त्वया यत्क्रियते शम्भो तन्मया क्रियतेsद्य तु ।
क्रियाद्येषु च देवेश अधिष्ठात्री तु कालिका ॥७२॥
सा शैवमूर्त्तिरित्युक्ता चाहं शक्तिस्वरूपिणी ।
अहं शिवब्रह्मरूपा शक्तिरिति प्रकीर्तिता ॥७३॥
श्रीमत्पाशुपताद्येषु अधिष्ठात्री तु कालिका ।
उभयोरन्तरं देव प्रपञ्चार्थं प्रकीर्तितम् ॥७४॥
श्रीशिव उवाच ।
कालीसुन्दर्यन्तरं तु यः पश्यति महेश्वरि ।
स पापिष्ठो महादुःखी रौरवं नरकं व्रजेत् ॥७५॥
तस्य दर्शनजं पापं को दूरीकर्त्तुमिच्छति ।
प्रमादाद्दर्शनं चेत्स्यात् पुनर्दीक्षां समाचरेत् ॥७६॥
पूर्णाभिषेकदीक्षा तु पुनः कार्या महेश्वरि ।
पुनर्दीक्षाविधानेन विद्या सिध्यति नान्यथा ॥७७॥
नान्यथा ह्यधिकारोsस्ति कादिहादिमते शिवे ।
काद्यं मतं तन्त्रराजं खण्डाष्टकमितीरितम् ॥७८॥
तत्र कादिमते देवि मतद्वयमुदीरितम् ।
पूर्वार्धं चोत्तरार्धं तु हादिकादिमतद्वयम् ॥७९॥
वर्णसाम्यान्मन्त्रसाम्यात् कादिहादिमतं महत् ।
कहेत्येवं महामन्त्रस्तूत्तराम्नायगोचरः ॥८०॥
ककाराद् ब्रह्मरूपत्वं तत्कादिमतमीरितम् ।
हकारात् शिवरूपत्वं तद्धादिमतमीरितम् ॥८१॥
काद्यं कालीमतं देवि हाद्यं श्रीसुन्दरीमतम् ।
द्वयं मिलित्वा कहाख्यं कादिहादिमतद्वयम् ॥८२॥
सौन्दर्ये तु प्रपञ्चोsस्ति सौन्दर्यव्यतिरिक्तके ।
न प्रपञ्चोsस्ति देवेश सौन्दर्यं सर्वदर्शकम् ॥८३॥
ब्रह्मसन्दर्शनं देवि ह्यसौन्दर्यं महेश्वरि ।
एतद्रहस्यमाख्यातं कालीमुखविनिर्गतम् ॥८४॥
ग्रन्थेषु सुन्दरी काली सदा तिष्ठति शङ्करि ।
द्वयोः प्रियकरो ग्रन्थः पूजयेद् गोपयेच्छिवे ॥८५॥
रहस्यातिरहस्ये च रहस्यातिरहस्यकम् ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे कालीविवरणं नाम नामाष्टपंचाशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:38.4670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाळत, थ

  • f  A narrow and covert watching. Tracing. 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site