संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्विषष्टिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्विषष्टिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
रहस्यातिरहस्यं च गोप्याद्गोप्यं परात्परम् ॥१॥
ब्रह्मराजाभिधं योगं सर्वयोगोत्तमोत्तमम् ।
कथ्यते परमेशानि श्रृणु सावहिता भव ॥२॥
सुन्दरीं चञ्चलां बाला चार्वङ्गीं शोभनेक्षणाम् ।
चतुरां कामलीलादिज्ञानयुक्तां विनोदिनीम् ॥३॥
प्रथमाब्दं समारभ्य नववर्षान्तमीश्वरि ।
नवदुर्गेति विख्याता तदनन्तरगां श्रृणु ॥४॥
नववर्षोत्तरं देवि कामवर्षान्तमेव च ।
तावद्बलिति विख्याता सर्वसिद्धिपरा मता ॥५॥
त्रयोदशं समारभ्य षोडशान्तं महेश्वरि ।
तावत् श्यामेति विख्याता श्यामा षोडशवार्षिकी ॥६॥
षोडशोर्ध्वं विंशत्यन्तं तरुणी परिकीर्त्तिता ।
विंशोत्तरं त्रिंशदन्तं महातारुण्यकौमुदी ॥७॥
चत्वारिंशोत्तरं देवि प्रोक्ता गतवयाभिधा ।
जाप्याष्टकसमायुक्तां कुलाकुलसमुद्भवाम् ॥८॥
पञ्चक्रमसमुद्भूतां षट्त्रिंशज्जातिगोचराम् ।
पञ्चाशत्तीर्थसम्भूतां बालामानीय पार्वति ॥९॥
तां x x x कृत्वा वयःसन्धिपरां शिवे ।
निष्कलां समुनुज्ञात्वा न्यासजालं प्रविन्यसेत् ॥१०॥
न्यासान् विधाय तद्देहे कामसोमशिवात्मकान् ।
प्रसूनमञ्चे संस्थाप्य x x x x x ॥११॥
वस्त्रालङ्करणं दत्त्वा x x  देवीं प्रपूजयेत् ।
यन्त्रं विभाव्य परितो मध्यबिन्दौ महेश्वरि ॥१२॥
कुमारीं देवतारूपां देवतारूपविग्रहाम् ।
ध्यात्वा सम्पूजयेद्देवें सर्वावयवसंयुताम् ॥१३॥
चक्रे वा पूजयेद्देवि सर्वावरणसंयुताम् ।
देवतां पूजयेद्रात्रौ सर्वावरणसंयुताम् ॥१४॥
सबल्यन्तं च संसाध्य जपध्यानपरायणः ।
ध्यात्वा x x  तां देवीं यथाध्यानोक्तविग्रहाम् ॥१५॥
जपं तत्र समाप्यादौ तदुक्तं वा समाचरेत् ।
x x x x x x x x x x x x ॥१६॥
त्रिकालज्ञो नरो भूयात्कामं सर्वमयं भवेत् ।
अश्रुतान्यपि शास्त्रानि वेदादीन् पाठयेच्छिवे ॥१७॥
अनधीतगतां विद्यां यां काञ्चिज्जगतीगताम् ।
सर्वं वेत्ति पाठयति नात्र कार्या विचारणा ॥१८॥
तस्याः सर्वाङ्गमालोक्य संस्पृश्य परमेश्वरि ।
तया यदुक्तं देवेशि तदेव कारयेत्प्रिये ॥१९॥
अन्यच्च कुरुते यस्तु तस्य नाशो भविष्यति ।
तां बालां तु समादाय दशवर्षोत्तरां शिवे ॥२०॥
प्रसूनमञ्चे संस्थाप्य सर्वसौगन्धभूषितः ।
सर्वानन्दमयः शान्तः शक्ति x x x x ॥२१॥
शक्तिं स्वाभिमुखीं कृत्वा बालां वा परमेश्वरी ।
x x x x x x प्रजपेत्कालिकाम्बिकाम् ॥२२॥
लक्षमात्रं जपेद्देवि सर्वज्ञः साधको भवेत् ।
x x वंशसमुद्भतां समानीय कुमारिकाम् ॥२४॥
सर्वावयवमालोक्य पूजयेन्मूलदेवताम् ।
सानन्दामथ संवीक्ष्य x x परमेश्वरि ॥२५॥
सर्वाङ्गं वीक्ष्य देवेशि स्पृष्ट्वाsपि परमेश्वरि ।
लक्षं जपेन्महेशानि त्रैलोक्यविजयी कविः ॥२६॥
x x वंशसम्भूतां बालामानीय पार्वति ।
घृणालज्जाविनिर्मुक्तां चञ्चलां x x चारिणीम् ।
नवोत्तरां x x मध्यां प्रसूनमञ्चकेsर्चयेत् ॥२७॥
x x x x x x जपेत् सदा ।
x x x x x x x x x x ॥२८॥
x x x x x x x x x x ।
महाश्रुतिधरो भूयादिच्छासिद्धिं लभे त्तु सः ॥२९॥
x x हृदम्भोजे जपात् कालिसमः क्षितौ ।
इति प्रोक्तं रहस्यञ्च किमन्यच्छ्रोतुमिच्छसि ॥३०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे ब्रह्मराजयोगो नाम द्विषष्टिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP