संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकचत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकचत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि मालाग्रथननिर्णयम् ।
कया कश्च पर्जप्तव्यो न जप्तव्यश्च को मनुः ॥१॥
सर्वं कथय देवेश यद्यहं तव वल्लभा ।
श्रीशिव उवाच ।
ध्रुवेण ग्रथनं कार्यं प्रत्येकं मणिकाक्रमात् ॥२॥
सर्वमन्त्रमयी माला सर्वसिद्धिकरी परा ।
तन्मन्त्रे देवतारूपं ध्यात्वा तु मालिकान्तरे ॥३॥
सर्वे मन्त्राः प्रजप्तव्याः सर्वकार्यार्यसिद्धये ।
अथवा मातृकाभिश्च ग्रथनं कारयेत् प्रिये ॥४॥
पञ्चाशन्मणिभिर्माला क्षकारो मेरुसज्ञिकः ।
अनुलोमविलोमेन माला शतमयी भवेत् ॥५॥
अष्टवर्गे प्रकल्पाथ माला त्व ष्टोत्तरं शतम् ।
मातृकामालया जापः सर्वत्रैव प्रशस्यते ॥६॥
रुद्राक्षस्फटिकादीन् वै समानीय प्रयत्नतः ।
ग्रथनं मातृकाभिश्च कारयेद्यत्नतः शिवे ॥७॥
सर्वदेवमयी माला द्रुतसिद्धिकरी परा ।
तत्तन्मन्त्रमयीं देवीं तत्र ध्यात्वा जपक्षणी ॥८॥
जपं कुर्यात्प्रयत्नेन नात्र कार्या विचारणा ।
सर्वसिद्धिप्रदा माला सर्वकार्यकारी परा ॥९॥
शक्तिमन्त्रेण संग्रथ्य शिवमन्त्रं जपेच्छिवे ।
शिवमन्त्रेण संग्रथ्य शक्तिमन्त्रं जपेच्छिवे ॥१०॥
शिवशक्त्योरभेदेन माला कार्यकरी परा ।
दन्ताख्यं चैव मुण्डाख्यं मत्स्यस्यापि मणिं प्रिये ॥११॥
नाड्या संग्रथनं कार्यं त्रिशक्तिमालिका मता ।
काली तारा तथा छिन्ना स्वरूपा मालिका परा ॥१२॥
सर्वसिद्धिपरा भूमिः सर्वदेवमयी परा ।
येनैव ग्रथ्यते देवि तमेव प्रजपेन्मनुम् ॥१३॥
इत्युक्तं च मया पूर्वं किं त्वया विस्मृतं प्रिये ।
इदानीमन्यथा प्रोक्तं संशयोsस्ति मम प्रिये ॥१४॥
मातृकातारभिन्नानां शिवशक्तिविहीनके ।
मालिकायामिदं नोक्तमन्यमालाविधौ मतम् ॥१५॥
अन्यप्रकारग्रथने येनैव ग्रथनं चरेत् ।
तमेव प्रजपेन्मन्त्रं नान्यमन्त्रं जपेच्छिवे ॥१६॥
मातृकादावपि शिवे मालां तन्मन्त्ररूपिणीम् ।
ध्यात्वा जीवं प्रविन्यस्य नान्यथा सिद्धिरोधकृत् ॥१७॥
इति सक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
श्रेदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यं परमाद्भुतम् ॥१८॥
मालारहस्यं परमं कथयस्व महेश्वर ।
श्रीशिव उवाच ।
पूर्वोक्तानां मणीनाञ्च त्वभावे परमेश्वरि ॥१९॥
गन्धरूपाश्च मणयो दन्तस्फटिकसम्भवाः ।
मणयो यत्नतः कार्याः सर्वसिद्धिमभीप्सुभिः ॥२०॥
मुण्डाभावे नारिकेलैर्मुण्डाधो मणयश्च वा ।
गजहारिणखङ्गाख्यस्वर्णसाम्बरश्रृङ्गजाः ॥२१॥
रौप्यजास्ताम्रजाः कांस्यसीसनागमयाश्च वै ।
मुण्डरूपाश्च मणयः सर्वसिद्धिमयाः स्मृताः ॥२२॥
अथ विद्यामयी देवि मालिका कार्यसाधिनी ।
वैडूर्यनीलकाचाख्या मणयः सर्वकार्यदाः ॥२३॥
बीजकीलकशक्तीनां मणयो द्रुतसिद्धिदाः ।
कुल्लुकामालिका देवि विद्या वश्यकरी स्मृता ॥२४॥
बीजाद्या वीर्यसंसिद्ध्यै कीलैर्निष्कीलने स्मृता ।
शक्तियुक्ता सर्वसिद्ध्यै जीवमात्रास्थिमुण्डधृक् ॥२५॥
अस्थिमुण्दमयी माला शिवरूपप्रदायिनी ।
तदाकारविशिष्ठा या तत्तत्कार्यकरीष्टदा ॥२६॥
ताराकालीमयी माया ताराछिन्नामयी परा ।
कालीछिन्नामयी वा या त्रितयं मुण्डबीजजा ॥२७॥
सर्वसिद्धिपरा भूमिरनिरुद्धसरस्वती ।
रत्नमात्रमयी माला रत्नमात्र समुद्भवा ॥२८॥
रक्तचन्दनमुण्डोत्या तथाष्टगन्धमुण्डजा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२९॥
श्रीदेव्युवाच ।
मातृकावर्ण रूपा च माला संसूचिता वद ।
श्रीशिव उवाच ।
रहस्यमपि वक्ष्यामि वर्णबीजस्वरूपतः ॥३०॥
मातृकावर्णरूपां च मालिकां कारयेच्छिवे ।
जपस्तेन प्रकर्तव्यः सर्वदेवस्वरूपिणी ॥३१॥
सौवर्णताम्रतारोत्था खङ्गोत्था गजदन्तजा ।
रत्नजा स्फटिकोत्था वा मातृका वर्णमालिका ॥३२॥
स्वर्णमाला सर्वसिद्ध्य रौप्यजा सकेलष्टदा ।
ताम्रमाला सर्वशान्त्यै खङ्गजा पितृमोक्षदा ॥३३॥
गजदन्तमयी माला सिद्धिदा बिल्वजार्थदा ।
अर्कवृक्षभवा पूर्वा शत्रोरुच्चाटकर्मणि ॥३४॥
एवं सम्पाद्य मालां तु जपेद्देवे समर्पयेत् ।
देवस्य प्रतिमायत्रं दिव्यचक्रं विशेषतः ॥३५॥
पूजिते प्रतिमायन्त्रे धारणीयं द्वयं शिवे ।
रत्नाढ्यमङ्गुलौ धार्यं स्वर्णरत्नमयं हृदि ॥३६॥
मुद्रारूपं हाररूपं कृत्वा यत्नेन धारयेत् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्याविचारणा ॥३७॥
तत्रोपचारदेवानां नामानि श्रृणु पार्वति ।
अन्नस्य देवता लक्ष्मीर्वैष्णवे तु प्रजापतिः ॥३८॥
सुवर्णं वह्निदैवत्यं रजतं चन्द्रदैवतम् ।
हीरकं वारुणं ज्ञेयं रसानां पृथिवी स्मृता ॥३९॥
जलस्य वरुणो देवो वीर्याणां वारुणेश्वरी ।
कृशरस्य रमा देवी परमान्नस्य कालिक ॥४०॥
घृतदीपे महाविष्णुस्तलदीपे वनस्पतिः ।
गन्धर्वश्च तथा धूपे घृतं सूर्याग्निदैवतम् ॥४१॥
मधु वै वारुणं ज्ञेयं दधिक्षीरं महेश्वरः ।
वानस्पत्यं महापुष्पं वैष्णवो गन्ध र्हरितः ॥४२॥
मालायाञ्च तथा दुर्वा सर्वं देवीमयं च वा ।
प्रतिमां पूजयेत् ज्ञात्वा नान्यया सिद्धिरोधकृत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४३॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाग्रथनं नाम नामैकचत्वारिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP