TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टादशं पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टादशं पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


अष्टादशं पटलः ।
श्रीदेव्युवाच ।
पूजाचिह्नविधिं देव श्रोतुमिच्छामि साम्प्रतम् ।
श्रीशिव उवाच ।
यदाशाभिमुखो भूत्वा चक्रराजं समुद्धरेत् ॥१॥
सैव प्राची महेशानि ताराछिन्नाविधौ स्मृता ।
पूज्यपूजकयोर्मध्ये प्राची काली विधौ स्मृता ॥२॥
पुरन्दरमुखो मन्त्री पूजयेज्जगदम्बिकाम् ।
देवीनामक्रमेणैव गौडे ताराविधौ स्मृता ॥३॥
स्ववामकालीदक्षाख्यक्रमेण कालिकाविधौ ।
देवीपृष्ठदलारम्य गौडकाश्मीरयोर्विधिः ॥४॥
तदैवार्ध्यक्रिया देवि स्वदेवीक्रमतो द्विधा ।
अर्घ्यश्च पीठपूजा च सिद्धासु कल्पितासु च ॥५॥
दिक्षु कार्या केरलाख्यकाश्मीरक्रमयोगतः ।
अङ्गक्रमो महेशानि स्वस्वदेशीक्रमेण च ॥६॥
षट्कोणेषु षडङ्गानि वह्नीशादिक्रमेण वा ।
बीजानां लेखनं देवि तथैव त्रिविध मतम् ॥७॥
प्रसिद्धदिक्क्रमेणैव केरलाख्यक्रमो भवेत् ।
बाजलेखो गौडमार्गे कल्पितासु च दिक्षु च ॥८॥
प्रसिद्धदिक्षु काश्मीरे पीठपूजनमीरितम् ।
स्वसाम्मुख्यक्रमेणैव देवतां पूजयेत् सदा ॥९॥
आग्नेय्यादिक्रमेणैव गौडे बलिचतुष्टयम् ।
उग्रविद्याविधौ देवि तिर्यग्भूत्वा प्रपूजयेत् ॥१०॥
गोपनीयं गोपनीयं गोपनीयं पुनः पुनः ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥११॥
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥१२॥
यन्न कस्य त्वया प्रोक्तं तदेव कथ्यतां शिव ।
श्रीशिव उवाच ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥१३॥
कथ्यते देवदेवेशि तत्र सावहिता भव ।
अन्तरालं भवेत्प्राची पूज्यपूजकयोरपि ॥१४॥
इयं छिन्नाविधौ प्राची विरूपाक्षस्य सम्मतम् ।
देवपूजकयोरन्तः प्राची दिक् भैरवे मता ॥१५॥
पूज्यपूजकयोर्मध्ये प्राची सैव तु केरले ।
तद्दक्षिणं दक्षिणं स्यात् देवसाम्मुख्यमार्गतः ॥१६॥
स्वदक्षिणक्रमेणैव भरवे प्राग्विनिर्णयः ।
यदाशाभिमुखो भूत्वा चक्रराजं समालिखेत् ॥१७॥
सैव प्राची गौडमार्गे चीनमार्गक्रमे भवेत् ।
पुरन्दरमुखो मन्त्री त्रिपुरा मुक्तमालिनी ॥१८॥
देवीपृष्ठे तदा प्राची प्रतीची त्रिपुरा मता ।
भानुर्यत्र सदोदेति सैव प्राचीति वैदिके ॥१९॥
अपरा सूर्यसिद्धान्ते परिक्रमणमार्गतः ।
स्वसम्मुखे भवेत्प्राची देवीपृष्ठं तु पश्चिमम् ॥२०॥
सव्यं तु दक्षिणं विद्यात् दक्षिणं सव्यमेव च ।
इति प्राचीक्रमः प्रोक्तः समताष्टकमार्गतः ॥२१॥
तत्र नाथक्रमेणैव गुरुपंक्ति प्रपूजयत् ।
देवतादक्षिणे देवि गुरुपंक्तिं प्रपूजयेत् ॥२२॥
देवीमध्यत्रिकोणे तु गौडे तु गुढपूजनम् ।
दक्षवामपृष्ठपंक्तिक्रमेण गुरुपूजनम् ॥२३॥
चैतन्याख्यमतं देवि त्रिरेखानन्दसम्मतिः ।
त्रिपंक्तिक्रममार्गेण नाथमार्गे प्रपूजनम् ॥२४॥
दक्षाङ्गं पुरुषश्रेष्ठं वामाङ्गं चण्डिकामनौ ।
अत एव महेशानि वामहस्ते जपस्य च ॥२५॥
समर्पणं निगदितं सर्वसिद्धिप्रदायकम् ।
दक्षहस्ते तु पुरुषं जपान्तं तु समर्पणम् ॥२६॥
गुरुपंक्तिर्वामभागे कल्पितप्राक्क्रमेण वै ।
गुरुपूजाक्रमः प्रोक्तस्त्वर्घ्यद्वयक्रमं श्रृणु ॥२७॥
सामान्यार्घ्यविशेषार्घ्यौ द्वौ प्रोक्तौ यत्र पार्वति ।
चतुष्पात्राणि सामान्ये घटास्त्वावश्यको मतः ॥२८॥
यथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् ।
यथा घटं विना देवि पूजा सर्वत्र वर्जिता ॥२९॥
यथा दलं केशरेण वियुक्तं कर्मवर्जितम् ।
तथा त्रिकोणं देवेशि बिन्दुना वर्जितं भवेत् ॥३०॥
बिन्दुहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् ।
बिन्दुयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिदायकम् ॥३१॥
तथैवाष्टदलस्योर्ध्वं वृत्तं यत्नेन कारयेत् ।
वृत्तं विना नाष्टदलं गर्भभूषणभेदतः ॥३२॥
पात्रद्वये महेशानि निर्णयं यत्नतः श्रृणु ।
प्रोक्षणिपाद्यपात्रं च तथाचमनकं शिवे ॥३३॥
अर्घ्यश्च मधुपर्कश्च तथा पञ्चामृतं शिवे ।
स्नानीयादि महेशानि सामान्यार्घ्येण वै भवेत् ॥३४॥
शिवपूजामपि शिवे सामान्यार्घ्येण केरले ।
भैरवाणां प्रपूजा च सामान्यार्घ्येण गौडयोः ॥३५॥
विशेषार्घ्यं महेशानि गुरुपात्रं च भरवे ।
वीरपात्रं शक्तिपात्रं वीरपात्रं च योगिनाम् ॥३६॥
बलिपात्रं तथा देवि श्रीपात्रेण प्रकल्पयेत् ।
केरलक्रम आदिष्टः श्रीसदाशिवसम्मतः ॥३७॥
बलिपात्रं वीरशक्तिं योगिनीपूर्वपात्रकम् ।
विरूपाक्षमते प्रोक्तं वीरभद्रमतं श्रृणु ॥३८॥
सामान्यार्घ्यश्च श्रीपात्रमेकमन्यन्महेश्वरि ।
सामान्यार्घ्येण संसिद्धिर्विशेषार्घ्येण पूजनम् ॥३९॥
तृतीयेन महेशानि पाद्यादीनि प्रकल्पयेत् ।
पञ्चाङ्गं कल्पयेद्देवि वीरभद्रमते शिवे ॥४०॥
बटुकस्य मते देवि सामान्या प्रोक्षणी भवेत् ।
देवीपूजा विशेषार्घ्ये सर्वं तार्त्रीयतश्चरेत् ॥४१॥
गुरूभरववीरादिशक्तिश्च योगिनी तथा ।
बलिपाद्यादि सर्वत्र तार्तीयेन समाचरेत् ॥४२॥
बटुकस्य मतं प्रोक्तमानन्दस्य मतं श्रृणु ।
सामान्ये वीरपात्रं च शक्तिपात्रं विशेषके ॥४३॥
गुरुपात्रादिस्नानान्तं पूजनं परिकीर्तितम् ।
सामान्यार्घ्ये योगिनी च बलिपात्रं विशेषके ॥४४॥
करालस्य मतं प्रोक्तं विकरालमतं श्रृणु ।
योगिनी तु विशेषार्थ्ये सामान्ये बलिपात्रकम् ॥४५॥
गुर्वादिस्नानपात्रान्तं पूर्ववत्परमेश्वरि ।
विकरालमतं प्रोक्तं महादेवमतं श्रृणु ॥४६॥
गुरुपात्रं विशेषार्घ्यें सामान्ये भरवो भवेत् ।
अन्यानि पूर्ववद्देवि दक्षिणाख्यमतं श्रृणु ॥४७॥
विशेषार्घ्ये भैरवो हि सामान्यार्घ्ये गुरुर्भवेत् ।
अन्यानि पूर्ववद्देवि बटवासिमतं श्रृणु ॥४८॥
सवं विशेषतः कुर्यात्सामान्येन तु संस्क्रियाम् ।
मधुपर्कं विशेषेण पूजनादि यथाक्रमात् ॥४९॥
सर्वं सामान्यतः कुर्याद् गौडोक्तं च क्रमं श्रृणु ।
सामान्ये वस्तुद्वारार्घ्यं विशेषे तु विशेषता ॥५०॥
सामान्यार्घ्ये तु सामान्यं श्रीपात्रमेकमेव वा ।
तथापि देवदेवेशि घटपात्रमवश्यकम् ॥५१॥
कपालं यदि वा देवि तदैवपात्रमाचरेत् ।
महावीरस्य पात्राणि कपालानि महेश्वरि ॥५२॥
तदभावे एकपात्रं कपाले सर्वपात्रता ।
कपालपात्रे देवेशि कापालीसिद्धिरस्ति च ॥५३॥
यद्यद्वाञ्छति कामानि गुटिकाञ्जनसिद्धयः ।
सिद्धद्रव्यं कामगतिर्मनोरथमयी कला ॥५४॥
वाञ्छाभोगो नव्यसृष्टिकरणं स्पर्शरत्नकम् ।
चिन्तामणिः कामकला यत्पात्रे सर्वमेव च ॥५५॥
कापालिनी त्वियं सिद्धिः कपालपात्रगोचरा ।
कापालिकानां चीनानां कपालपात्रमीरितम् ॥५६॥
त्रिविधं तत्कपालञ्च विश्वामित्रक्रमेण च ।
नारिकेलं तथा तुम्बी कपालं च कपालकम् ॥५७॥
त्रिविधं च कपालं त्रिसम्प्रदायक्रमेण च ।
पात्रमेकं समासाद्य खण्डत्रितयभेदतः ॥५८॥
चतुरङ्गुलमुच्छ्रायमायामे द्वादशाङ्गुलम् ।
अष्टाङ्गुलसविस्तारि द्रोणग्राहिजलं यथा ॥५९॥
तथा पात्रं पूर्णदीक्षा सूर्यार्व्ये विप्रकीर्तितम् ।
विशेषार्घ्ये महेशानि आयामे वसुसंज्ञकम् ॥६०॥
षडङ्गुलं च विस्तीर्णमुत्तानं नौसमाकृतिम् ।
अथवा देवदेवेशि पात्रं च वर्तुलाकृतिम् ॥६१॥
अश्वत्थपत्राकारं वा कुतपाकारमेव वा ।
त्रिकोणाकारपात्रं च त्रित्रियोनिसमन्वितम् ॥६२॥
मध्यबिन्दुयुतं पात्रं ध्वजचिह्नसमन्वितम् ।
अथवा तु xxकारं ध्वजबिन्दुसकेसरम् ॥६३॥
एवं पात्रं समानीय महाचीनेश्वरीं यजेत् ।
प्रसिद्धदिक्षु देवेशि पीठपूजनमाचरेत् ॥६४॥
कल्पिते वा महेशानि साङ्गां सम्पूजयेद्व्रती ।
पीठपूजां समाचर्य पञ्चोपचारतोsर्चयेत् ॥६५॥
सुधासिन्धौ तु संस्थाप्य पूज्य सिंहासनेsर्चयेत् ।
तत्त्वपीठं भवेदेकं पीठं ज्ञात्वा महेश्वरि ॥६६॥
अथवा देवदेवेशि अक्षतान्स्थाप्य पूजयेत् ।
सम्पूज्य पीठपूजां च ततः सिंहासनेsर्चयेत् ॥६७॥
मुख्यं तु देवदेवेशि यन्त्रपीठं समर्चयेत् ।
तद्यंत्रसिंहपीठे तु सपीठं स्थापयेच्छिवे ॥६८॥
स्नानं च पीठकस्याsथ चावृत्तिदेवतात्ववत् ।
पीठावृत्तिश्च वा कार्या सर्वसम्मतमीरितम् ॥६९॥
तत्र पीठ महायन्त्रं स्वेष्टदेवात्मकं महत् ।
त्रिकोणे वृत्तमात्रं तु तारायन्त्रमिदं भवेत् ॥७०॥
जीवचक्रे त्विदं यन्त्रं भाव्यं लेख्यं महेश्वरि ।
मध्ये स्पष्टो महाबिन्दुः सदाशिवमयो ध्रुवम् ॥७१॥
तत्र स्त्रीवेषमासाद्य जपं कुर्य्यादनन्यधीः ।
तत्र स्त्रीवेषधारी स्यात्सिन्दूराङ्कितभालकः ॥७२॥
लम्बीकञ्चुकभूषाढ्यश्चीनाचारो यथार्थवत् ।
स्त्रीवेषं वा समासाद्य कुचकज्वलकेशयुक् ॥७३॥
कङ्कणं तिलकं हारं स्त्रीवेषेण प्रपूजयेत् ।
पट्टकूलं दुकूलं वा काश्मीरं वरवीरकम् ॥७४॥
वस्त्रं वा रक्तं श्वेत वा पीतं स्वर्णादिभूषितम् ।
मुक्तकेशो दिशावासः सिन्दूरतिलकान्वितः ॥७५॥
संविद्भक्षणमासाद्य सर्वदेवान् प्रपूजयेत् ।
x x xप्रासनेनाथ यन्त्रमब्जं सुकर्णिकम् ॥७६॥
गोपयेतु कुलद्रव्यं कुलगन्धाष्टकं शिवे ।
अलिनालोचनं कुर्य्यादलिना लेपनं च वा ॥७७॥
अलिलाक्षारसालिश्च सीधुकादम्बरी मता ।
एवं यन्त्रं च वा कृत्वा ध्यात्वावृत्तिमथार्चयेत् ॥७८॥
स्थानस्थाः फलदा मन्त्रा ध्यानस्थाः फलदायकाः ।
स्थानध्यानपरिभ्रष्टास्ते मन्त्राः फलदा नहि ॥७९॥
कुण्डल्युत्थानमासाद्य तारारूपां परां कलाम् ।
हृत्पद्मेsथ समानीय कुण्डलीं स्वेष्टदेवताम् ॥८०॥
स्वमन्त्रं च महेशानि हृत्पद्मे ध्यानयोगतः ।
ध्यायेद्देवेशि ध्यानस्थं कीर्त्तितं परमेश्वरि ॥८१॥
ध्यानस्थां देवतां कृत्वा स्थानस्थां तां समाचरेत् ।
तां देवतां सहस्रारे परशम्भोनिंयोजयेत् ॥८२॥
सामरस्यं समासाद्य स्थानध्याने समभ्यसेत् ।
ध्यानस्थानासनी भूत्वा ततो यजनमाचरेत् ॥८३॥
साङ्गां सावरणां देवीमासादनसमन्विताम् ।
ध्यात्वा बल्यन्तमाचर्य्यं सर्वसिद्धीश्वरो भवेत् ॥८४॥
ततः पूजोत्तरं देवि बलिदानं च केरले ।
पीठपूजोत्तरं देवि काश्मीरे बलिदानकम् ॥८५॥
पंचोपचारोत्तरणे गौडे तु बलिदानकम् ।
पात्रोत्तरं तु श्रीगौडे बलिदानं प्रकीर्त्तितम् ॥८६॥
तत्रबान्ते होमकर्म समासाद्य प्रहोमयेत् ।
तत्तत्कामनया देवि तथा कुण्डानि कारयेत् ॥८७॥
सयोनिमेखलाटङ्कभूषितं सूत्रलक्षितम् ।
कुण्डं कृत्वा होमयेद्धि सर्वसिद्ध्यर्थमेव च ॥८८॥
एकत्रिपञ्चनव वा सप्तैकादश वा प्रिये ।
मेखला होमकुण्डे तु कीर्तिता परमेश्वरि ॥८९॥
तथान्तर्मेखला वापि x x x न कारयेत् ।
दलेsष्टदलकं नो हि संक्षेपात्परिकीर्तितम् ॥९०॥
होमे तु काम्यकमार्थं चत्वरे वा महेश्वरि ।
स्थण्डिले होमयेद्देवि सर्वकुण्डाप्तिरुत्तमा ॥९१॥
स्थण्डिले सर्वकुण्डानि दिग्विभागक्रमेण च ।
कवलं च क्रमेणापि होमयेत्परमेश्वरि ॥९२॥
कवचाद्यं महेशानि पल्लवीकुण्डमेव वा ।
स्वाहान्तः सर्वकार्यार्थं फडन्तः क्रूरकर्मणि ॥९३॥
नमोsन्ते मारणे देवि पात्राख्यं कुण्दमेव वा ।
कृत्वा च होमयेद्देवि सर्वसिद्धीश्वरो भवेत् ॥९४॥
विजयापत्रहोमेन त्रैलोक्यं जयति क्षणात् ।
बीजानि होमयेद्देवि त्रैलोक्याकर्षणाय च ॥९५॥
वश्यार्थं दर्शनार्थं तु पुष्पाणि होमयेच्छिवे ।
श्वेतपुष्पेन वाक्सिद्धिर्वश्यं रक्ते च स्तब्धता ॥९६॥
पीते कृष्णे मृते देवि वृक्षवर्णाश्च यत्नतः ।
केरलाख्ये सम्प्रदाये पूजान्ते होमकर्म च ॥९७॥
पञ्चोपचारपूजान्ते काश्मीरे होमकर्म च ।
नैवेद्यान्ते होमकर्म गौडमार्गे महेश्वरि ॥९८॥
आदौ मध्ये तथा चान्ते का श्मीरे क्रममर्चने ।
सदाशिवमते देवि सर्वान्ते होमकर्म च ॥९९॥
बाह्यपूजां ततः कुर्यात् यथोक्तेन तु वर्त्मना ।
प्राणायामादिकं कृत्वा यथासरणिमार्गतः ॥१००॥
सम्प्रदायत्रयेणैव पात्राणां स्थापनं चरेत् ।
महाकलामहानन्दवाणाग्निचन्द्रभेदतः ॥१०१॥
स्थाप्य सम्पूजयेद्देवि पूर्वकल्पप्रभेदतः ।
पात्रं प्राच्यां स्थानमध्ये पात्राणां चालनं यदि ॥१०२॥
पुनरादि समारभ्य पात्राणां स्थापनं चरत् ।
पात्रसंघट्टनं देवि यदि भूयात्पमादत ॥१०३॥
पुनः पात्राणि संस्थाप्य पूजयेज्जगदिम्बिकाम् ।
संस्थापिते पात्रवरे पात्रोत्सर्जनकं न हि ॥१०४॥
विसर्जनमकृत्वा तु पुनस्तु पूर्ववद् यजेत् ।
त्रिसन्ध्यं पूजयेद्देवि पात्रस्थापनमात्रतः ॥१०५॥
स्थापितैरेकवारैस्तु तैः पूजयेच्छिवाम ।
विसर्जनोत्तरं देवि पात्राणामविसर्जनम् ॥१०६॥
पूजा जाता महेशानि न कृतं च विसर्जनम् ।
एवं क्रमेण देवेशि पूजयेद्गौडसम्मतम् ॥१०७॥
पात्रासादनकं कर्म कृत्वादौ पूजनक्रमे ।
सम्पूज्य देवतां तारां पात्राणां तु विसर्जनम् ॥१०८॥
पुनः पात्राणि संस्थपय पूजां माध्याह्निकीं चरेत् ।
पुनर्विसर्जनं कृत्वा पुनः स्थाप्य प्रपूजयेत् ॥१०९॥
चैतन्याख्यः क्रमः प्रोक्तो महाभैरवसम्मते ।
एवं क्रमेण देवेशि पात्रसिद्धिकरो भवेत् ॥११०॥
पात्रं दिव्यमयं पश्ये द्विशेषार्घ्यमय शिवे ।
वीरपात्रं तु वीराणां शक्तीनां शक्तिपात्रकम् ॥१११॥
अवीराणां महेशानि योगिनीपात्रमीरितम् ।
गुरुपात्रं श्रीगुरूणां यतीनां भैरवाभिधम् ॥११२॥
कापालिकानां मुख्यं च बलिपात्रं प्रकीर्तितम् ।
तद्भावेन तु शूद्राणां सर्वाभावे जलं पिबेत् ॥११३॥
दिव्यं देव्यग्रतः पानं वीरं वीरसमागमेः ।
अन्यथा पशुपानं च नरकार्थं प्रकीर्तितम् ॥११४॥
सामान्यार्घ्यविशेषार्घ्यावेकीकृत्य स्वयं पिबेत् ।
घटद्रव्यं तु वीराणां वीराभावे स्वयं पिबेत् ॥११५॥
स्थापयेत् याचकार्थं च पात्रे याचकसंज्ञके ।
याचकार्थं च यत्पात्रं तत्पात्रं याचकं विदुः ॥११६॥
चक्रान्ते परमेशानि विशेषार्घ्यजलं शिवे ।
देवीपीठे चक्ररूपं भ्रामयित्वा स्वयं मुखे ॥११७॥
क्षिपेद्देवेशि यत्नेन स्वयमादौ तु सङ्ग्रहेत् ।
सामान्यार्घ्यजलेनैव जलं देव्यै समर्पयेत् ॥११८॥
ब्रह्ममन्त्रं समुच्चार्य देव्यै सर्वं समर्पयेत् ।
महादिव्यामृतमयं पात्रं ज्ञात्वा महेश्वरि ॥११९॥
देवीस्वरूपं तद्ध्यात्वा गृह्नीयात्स्वयमादरैः ।
मूलमन्त्रैश्च मन्त्रैर्वा अभिषिञ्चेत्स्वमूर्द्धनि ॥१२०॥
स्निग्धभूमौ तज्जलं तु क्षिप्त्वा मायां लिखेच्छिवे ।
मन्त्रेणानेन देवेशि तिलकं कारयेद्ध्रुवम् ॥१२१॥
यं यं स्पृशति हस्ताभ्यां यं यं पश्यति चक्षुषा ।
स एव दासतां याति यदि शक्रसमो नरः ॥१२२॥
इति सर्वं विधानेन ज्ञात्वा कर्माणि कारयेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥१२३॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे पूजाचिह्नविधिर्नामाष्टादशः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

full premium, if lost clause

  • नष्ट होनेखोने पर पूरा प्रीमियम वापसी का खंड 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site