TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुर्दशः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुर्दशः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.


चतुर्दशः पटलः ।
श्रीदेव्युवाच ।
शक्तौ पूजाक्रमं देव कथयस्व ममाधुना ।
श्रीशिव उवाच ।
शक्तिपूजां प्रवक्ष्यामि येन देवीमयो भवेत् ॥१॥
नटी कापालिका वेश्या रजकी नापिताङ्गना ।
मालाकारस्य कन्या च कुभ्मकारस्य कन्यका ॥२॥
कन्याष्टकमिदं प्रोक्तं कुलाष्टकमथ श्रृणु ।
राजवेश्या गुप्तवेश्या देववेश्या तथैव च ॥३॥
नृत्ययात्रातीर्थवेश्या कुट्टिनी व्यभिचारिणी ।
पञ्च x x हता वेश्या दश x x  x x श्वरी ॥४॥
पञ्चविंशति x x च x x तुष्टा प्रकीर्तिता ।
पञ्चाश x x संयुक्ता x x सिद्धा प्रकीर्तिता ॥५॥
शत x x x x नन्दा सहस्रा x x सुन्दरी ।
असंख्य x x संयुक्ता x x ब्रह्मपरा मता ॥६॥
कुलाष्टकमथेदानीं श्रृणु पार्वति तत्त्वतः ।
मध्य x x महेशानि x x माला महोत्तमा ॥७॥
विश्व x x सर्वयोनिः सर्वस्मादपि चोत्तमा ।
कुलाकुलाष्टके देवि द्विविधा परिकीर्तिता ॥८॥
राजवेश्यादिकायुग्मं गौडे पुष्पोपचारिकम् ।
माता पुत्री तथा पौत्री स्वसा चैव स्नुषानुजा ॥९॥
श्यालिका केलिकुञ्ची च मातृजाया तथाष्टमी ।
कुलाष्टकमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥१०॥
तरुणीं सुन्दरीं रम्यां चञ्चलां x x  लोलुपाम् ।
गुरुभक्तां मन्त्रयुक्तां सर्वलक्षणसंयुताम् ॥११॥
ईदृग्विधां समानीय प्रसूनतूलिकोपरि ।
x x तु कलशौ प्रोक्तौ सामान्यार्ध्यस्तु नाभिका ॥१२॥
x x ध्वजो विशेषार्ध्यस्त्रिकोणं यन्त्रमीरितम् ।
गमागमावृत्तिरुक्ता पुष्पं प्रहसितं स्मृतम् ॥१३॥
आलापस्तु जपः प्रोक्तस्तवलोको वरः स्मृतः ।
क्रोधस्तु निग्रहं प्रोक्तः करग्रहोsभयं भवेत् ॥१४॥
x x पादप्रसारस्तु पृथिव्यास्तु प्रदक्षिणा ।
x x x स्तोत्रपाठोsत्र x x धारस्तपःक्रिया ॥१५॥
गले पादस्य निक्षेपः सिंहासनमितीरितम् ।
विपरीतं दोलिकाख्या पूजा प्रोक्ता महेश्वरि ॥१६॥
विसर्जनं बीजपातो मुद्रा त्वालिङ्गनं भवेत् ।
ओष्ठ x x देवि खेचरीयोग ईरितः ॥१७॥
कपोल x x देवि गुटिका परिकीर्तिता ।
ललाट x x देवि लबका परिकीर्तिता ॥१८॥
नेत्रसं x x देवि अञ्जनं परिकीर्तितम् ।
करसं x x देवि खङ्गसिद्धिः प्रकीर्तिता ॥१९॥
x x x x x देवि मनोरथमयी गतिः ।
x x x x देवेशि कालवञ्चनमीरितम् ॥२०॥
x x संलेहनं देवि ब्रह्मरूपं न संशयः ।
आलोकनं पृथिव्यास्तु देवतादर्शनं भवेत् ॥२१॥
तत्सङ्गिना सदा भाव्यं तामालोक्य जपेत्सदा ।
कोटिब्रह्माण्डदानादि एकतः परिकीर्तितः ॥२२॥
तच्छायालोकनं देवि सर्वाच्छ्रेष्ठतमं भवेत् ।
तपस्या कोटितीर्थेषु यागानामपि कोटयः ॥२३॥
देवालयानामानन्त्यं कृतं येन निरन्तरम् ।
तेनेदं प्राप्यते देवि दर्शनं विन्दुरूपिणः ॥२४॥
ब्रह्मणॊ दर्शनं देवि शब्दब्रह्म महत्तरम् ।
चन्द्रामृतं राहुभीत्या तथा स्वर्गामृतं प्रिये ॥२५॥
राक्षसानां तु संभीत्या ओष्ठे x x विराजते ।
चन्द्रामृतं चाधरोष्ठे x x स्वर्गामृतं प्रिये ॥२६॥
सदा तिष्ठति देवेशि ज्ञानात् सिध्यति नान्यथा ।
अज्ञानाद्विषरूपं स्यान्नात्र कार्या विचारणा ॥२७॥
मुखे हाला करे माला x x शाला तु तच्छविः ।
हृदये स्त्री कराला तु दीपमाला गृहाङ्गणे ॥२८॥
न करोति नरो यस्तु स कथं मम पूजकः ।
संयोगो ग्रहनं देवि महाकल्पान्ततो तथा ॥२९॥
सूर्यग्रहो यथा योगो विपरीते निशाकरे ।
प्रमादान्मनसा वाsपि मोहतोsपि न गालयेत् ॥३०॥
तया यदुच्यते वाक्यं तदेव कारयेत्प्रिये ।
तथा योगे समारब्धे पूर्णयोगो यदा न च ॥३१॥
पुरुषस्य न संजातस्तेन संक्रीड्यते मुहुः ।
ग्रस्तास्तः स तु विज्ञेयः सर्वपर्वोत्तमोत्तमः ॥३२॥
स्वयं योगे समारब्धे स्वस्य पूर्वं तु x x x ।
तथा कार्यं समाचर्य तस्य पातो न जायते ॥३३॥
ग्रस्तोदयः स विज्ञेयः सर्वसिद्धिप्रदायकः ।
इदं रहस्यं परं प्रोक्तं दिवायोगं श्रृणु प्रिये ॥३४॥
तस्याः स्वय्झं क्रमेणैव तस्यास्त्वर्द्धोदयो मतः ।
महोदयः स्वयोगे स्यात् वार्ता दशहरा स्मृता ॥३५॥
तद्वार्ताsक्षयरूपाख्या तृतीया परिकीर्तिता ।
इति संक्षेपतः प्रोक्तं विशेषं श्रृणु पार्वति ॥३६॥
मासद्वादशकं देवि क्रमेण परिकीर्तितम्
ऋतुयोगे महेशानि महासाम्राज्यमीरितम् ॥३७॥
दिव्यादीनामिदं प्रोक्तं पशूनां श्रृणु पार्वति ।
सूर्यचन्द्रग्रहे देवि अङ्गुलद्वितयोर्धतः ॥३८॥
सार्द्धद्वयाङ्गुलोत्तरं केचिदिच्छन्ति तान्त्रिकाः ।
सूर्यग्रहे चतुर्यामं चन्द्रे यामत्रयं भवेत् ॥३९॥
वेधः प्रोक्तो महेशानि पूर्वयोर्दृष्टिवेधनम् ।
न भोक्तव्यं तत्र देवि स्नानदानादिकं चरेत् ॥४०॥
ग्रस्तोदयं समारभ्य ग्रस्तास्ते च महेश्वरि ।
शास्त्रदृष्ट्या समालोच्य स्नानदानादिकं चरेत् ॥४१॥
कदा लग्नं कदा मुक्तिः सर्वं ज्ञात्वा प्रयत्नतः ।
स्नानदानादिकं कार्यं नान्यथा शाङ्करं वचः ॥४२॥
नोपवासं प्रकुर्वीत जीवत्पुत्रो हि कर्हिचित् ।
ग्रस्तास्ते पूर्वमुक्तस्य नोपवासः प्रकीर्तितः ॥४३॥
ग्रस्तोदये पूर्ववेधे न भोक्तव्यं कदाचन ।
अत्र केचिदपीच्छन्ति पशवः शास्त्रमोहिताः ॥४४॥
उपवासं प्रकृर्वीत ग्रस्तास्ते परमेश्वरि ।
शास्त्रदर्शस्तु सन्दर्शः प्रत्यक्षे पूर्णरूपता ॥४५॥
दिव्यानामपि देवेशि अङ्गुलद्वयतो भवेत् ।
उपावासस्त्रिरात्रं तु शैवानां परिकीर्तितः ॥४६॥
विष्णुगाणपसौराणां द्विरात्रं परिकीर्तितम् ।
शाक्तानां पूर्वरात्रं तु पुरश्चर्यायुतो भवेत् ॥४७॥
पुरश्चरणहीनानां नोक्तमेतन्मया तव ।
चान्द्रे स्वायम्भुवे देवि द्विरात्रं परिकीर्तितम् ॥४८॥
नैमित्तिकं द्वयं यत्र तत्राल्पं काम्यवाचकम् ।
इति संक्षेपतः प्रोक्तं सर्वसिद्धिप्रवर्तकम् ॥४९॥
केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः ।
सम्प्रदायत्रयं प्रोक्तं सर्वसिद्धिप्रवर्तकम् ॥५०॥
सम्यक् प्रदीयते ज्ञानं सम्प्रदायः प्रकीर्तितः ।
कामादिदोषरहितः कादिहादिमतेश्वरः ॥५१॥
वाञ्छिता कल्पिता सिद्धिः मनोरथमयी तथा ।
सर्वैश्वर्यं भवेद्देवि लोके रत्नमिवापरः ॥५२॥
ललाटरेखां संमार्ज्य नवीनां निर्मितां चरेत् ।
विद्यारश्मिमहामन्त्रमन्त्रमण्डलसंयुतः ॥५३॥
महाविद्यामण्डलेशः साम्राज्यमण्डलान्वितः ।
अष्टाष्टकसमायुक्तः पञ्चपञ्चकसंयुतः ॥५४॥
शाम्भवप्रश्नसंयुक्तो जन्मवर्षादिविद्भवेत् ।
चतुःसन्ध्यासमायुक्तः पञ्चपारायणान्वितः ॥५५॥
वाच्छाकल्पलतायुक्तो मन्त्रमण्डलनाम च ।
महाविद्यासमायुक्तः पादुकादशकान्बितः ॥५६॥
पञ्चषोढासमायुक्तः कादिहादिमतेष्वपि ।
यस्य प्राणमनो देवि मुर्तिस्फोटादिचालनम् ॥५७॥
हासनं कल्पनं वाक्यं मुखादुच्चार्यते स्फुटम् ।
षष्ठिसिद्धीश्वरो यस्तु केरलः परिकीर्तितः ॥५८॥
काश्मीरं श्रृणु देवेशि सावधानमना भव ।
कार्पण्यादिविरहितः वामादिगुणसंयुतः ॥५९॥
उभयोर्ध्वाम्नाययुक्तो राज्यदातृत्वशक्तिवित् ।
चतुर्विंशतिसिद्धानामधिपो नरपुङ्गवः ॥६०॥
एवत्रोर्ध्वाम्नाययुक्तः स काश्मीरः प्रकीर्तितः ।
उभयोर्ध्वाम्नाययुक्तो महाकाश्मीर ईरितः ॥६१॥
अथ गौडं महेशानि कथ्यते श्रृणु साम्प्रतम् ।
गीर्वाणगणसंवादी गारुडादिप्रणाशकः ॥६२॥
श्रीमद्ज्ञानसरस्वत्याः पारगामी नरस्तु यः ।
भुवनानन्दकृद्वीरः स्त्रीभक्तो विजितेन्द्रिंयः ॥६३॥
डामर्यादिकलायुक्तः पूर्णदीक्षासमन्वितः ।
उक्ताधिकारसंपन्नः पूर्वमत्रापि पार्वति ॥६४॥
अष्टाष्टकादिसंयुक्तः समयाचारपालकः ।
महाबलो महोत्साहो गौड इत्यभिधीयते ॥६५॥
पूर्वगौडो मध्यगौडो द्विविधः पूर्ववद्भवेत् ।
इति गौडस्तु संप्रोक्तः सर्वसिद्धिप्रदायकः ॥६६॥
अणिमाद्यष्टसंयुक्तः श्रीगौडः परिकीर्तितः ।
सम्प्रदायत्रये देवि विकल्पं पूर्वमीरितम् ॥६७॥
परमेशजपासक्तः सर्वसत्त्वदयान्वितः ।
त्यागी भोक्ता विनीतश्च तिथिनित्याप्रपूजकः ॥६८॥
परनिन्दा परद्रोहो परीवादो महेश्वरि ।
परस्त्रीपरवित्ते च षष्ठश्चैव प्रतिग्रहः ॥६९॥
वर्जयेत्सर्वमेतद्धि सङ्ख्यामन्यां शतं भवेत् ।
परद्रोहं परीवादं परवित्तं प्रतिग्रहम् ॥७०॥
परवार्तां विशेषेण शाक्ते पञ्च विवर्जयेत् ।
बटुकस्य मतं प्रोक्तं शङ्करस्य मतं श्रृणु ॥७१॥
परांन्नं परहस्तं च सर्वथा परिवर्जयेत् ।
परहस्तः सर्वपुण्यजपपूजाहरः स्मृतः ॥७२॥
अन्यमन्त्रं जप्यमानस्त्वन्यदेवेषु तत्परः ।
संप्रदायेन सम्भिन्नः सर्वदोषसमन्वितः ॥७३॥
लोलुपश्चैव पाषण्डः प्रोक्तः कलियुगे नरः ।
तेन यत्क्रियते पापं सदसदा महेश्वरि ॥७४॥
तद्धस्तभोजी देवेशि तदंशं लभते ध्रुवम् ।
मिताहारी जपासक्तो गुरुभक्तो जितेन्द्रियः ॥७५॥
सत्यवक्ता महेशानि नरश्चैव सदा भवेत् ।
दानादिगुणसंय़ुक्तो हस्ताद्भोंजनमाचरेत् ॥७६॥
विशेषेण महेशानि स्त्रीहस्तं परिवर्जयेत् ।
स्त्रीशूद्रालापनं देवि कर्तव्यं न कदाचन ॥७७॥
इदं पशुमते प्रोक्तं दिव्यानां पूर्वमीरितम् ।
पूर्वोक्तां शक्तिमानीय सर्वलक्षणलक्षिताम् ॥७८॥
घृणालज्जादिरहितां समानीय प्रयत्नतः ।
न्यासजालादिकं सर्वं पूर्ववत् परमेश्वरि ॥७९॥
x x विकसितं कृत्वा सर्वसौगन्धसंयुतः ।
पूजयेद्देवताबुद्ध्या विकापरिवर्जितः ॥८०॥
x x x तु विधायादौ ततो ग्रहणमाचरेत् ।
तत्कुण्ड x x x कुर्वन् जपं कुर्यान्निरन्तरम् ॥८१॥
तत्र x    x  ततो दत्त्वा जपं कुर्यादनन्यधीः ।
x    x    x  देवि जपेदकमनाः प्रिये ॥८२॥
पुनरालोच्य संजप्य सम्बुध्य परमेश्वरि ।
सर्वसिद्धीश्वरो भूयाच्छिवतुल्यो नरो भवेत् ॥८३॥
तद्धस्तनिःसृतजलं दिव्यमुक्तासमं भवेत् ।
हीरकः स्फटिक भूयान्मन्त्रः स्वर्णकरं भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८४॥
    
इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिपूजाकथनं नाम चतुर्दशः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिंग-शिंग फुंकणें

  • शिंग वाजवून सूचना देणें 
  • जाहीर करणें 
  • उघड रीतीने प्रसिद्धी देणें. ‘ त्याला शहाजीनें वजीरीच्या कामावरुन काढवलें याचा अर्थ मोंगल सरकारशीं जंग सुरु केल्याचें त्यानें शिंग फुंगलें, असाच घेतला पाहिजे ! ’ -शि सं. १.३. 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site