संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
ब्रह्मत्वं कथमित्युक्तं वदस्व मयि शंकर ।
श्रीशिव उवाच ।
अथातः संप्रवक्ष्यामि तच्छृणुष्व प्रियंवदे ॥१॥
xxसंयोगे यत्सौख्यं सामरस्यात्मकं परम् ।
परानन्दरसो मुक्तिरिति संख्या प्रकीर्तिता ॥२॥
xxxsधिकतो देवि शिवजन्म प्रजायते ।
xxxsधिकतो देवि कन्यारूपी स्वयं शिवा ॥३॥
साम्याद्देवेशि ब्रह्मत्वं निर्गुणोsयं निराकृतिः ।
निर्गुणत्वं कथं देवि तदेव कथ्यते श्रृणु ॥४॥
क्रियमाणस्ततो देवि बुद्धिस्तु कुण्ठतां गता ।
तदेव निर्गुणत्वं च निराकारत्वमम्बिके ॥५॥
अनेकधा वर्ण्यमानमेकमेवास्ति केवलम् ।
यथा यथा यस्य बुद्धिस्तथा तेन प्रवर्ण्यते ॥६॥
वर्णनाशक्तिरूपं च तद्ब्रह्म परिकीर्तितम् ।
पूर्वं संवर्णितं यत्तु सगुणं तत्प्रकीर्तितम् ॥७॥
अवर्ण्यं यन्महेशानि निर्गुणं तत्प्रकीर्तितम् ।
ब्रह्मानन्दसमुत्पत्तिर्निर्गुणाsपि प्रदृश्यते ॥८॥
निर्गुणा समता खण्डे न खण्डसमता परे ।
एवं समरसानन्दो मुक्तिरित्यभिधीतये ॥९॥
xxxद्भवं सौख्यं ब्रह्मानन्देति तं विदुः ।
तदुद्भवे महासौख्यं परब्रह्मेति कीर्तितम् ॥१०॥
शक्तिदर्शनजं सौख्यं स्वर्ग इत्यभिधीयते ।
सौख्यानन्दो भवेन्मुक्तिरित्युक्तं कालिकागमे ॥११॥
पुनर्गमागमं सौख्यं विरक्तिः परिकीर्तिता ।
विपरीतं ब्रह्मतत्वं महानन्दस्तदुद्भवः ॥१२॥
आलोकनं ब्रह्मपदस्पर्शनं ब्रह्मदर्शनम् ।
संयोगो ग्रहणं देवि वियोगः संक्रमः स्मृतः ॥१३॥
ध्वनिर्वाद्यादि देवेशि संक्षेपतो मतं शिवे ।
परतत्त्वे स्वात्मशक्तौ स्वात्माकारे शिवे सदा ॥१४॥
शरीरस्थे xxxx सामरस्यं विलोक्यते ।
एतदभ्यासकार्यार्थ शक्तिसंभोगभावना ॥१५॥
एदं सुखं यथा देवि यथा कुण्डलिनी शिवे ।
सौख्यानन्दे समायाते सति निर्गुणता मता ॥१६॥
असिधाराव्रताख्येयं कालिका कीर्तिता भुवि ।
शक्तियोगाच्छिवे ब्रह्मरूपत्वं कीर्तितं मया ॥१७॥
सब्रह्मभावनां कृत्वा पूर्वं परशिवः स्थितः ।
सर्वसंहारकं कर्म कृत्वोद्दण्डं विधाय च ॥१८॥
बृहद्दण्डं विहायाथ शिवो ध्यानपरो ह्यभूत् ।
ध्यानस्य संश्रुतिर्जाता सा ब्रह्मभावनां गता ॥१९॥
तदभ्यासनिमित्तार्थं शक्तेराकर्षणं कृतम् ।
देव्या ज्ञातं शिवो भ्रष्टो मार्गच्युतिपरायणः ॥२०॥
शिवस्य बुद्धिस्मरणं दत्तं देव्या कृपा कृता ।
एवं बुद्धिः कृता देव्या शिवो यातु ममोत्तरे ॥२१॥
मानसे धृतमात्रेण शिवेनाकर्षणं कृतम् ।
शिवाकर्षणकं कर्म मम मिथ्यात्वदायकम् ॥२२॥
इत्येवं मानसे धृत्वा मंत्रः काल्या प्रकाशितः ।
कालिका कामसुरता महाकालसमन्विता ॥२३॥
सा एव आदिनाथोक्तं परब्रह्मेति गीयते ।
सच्चिदात्मस्वरूपेयं ब्रह्मरूपाsथ निर्गुणा ॥२४॥
त्वया स्वनिर्मिता शक्तिः शिवाग्रे स्वर्गमागता ।
साधनार्थं मया दत्तेत्येवं श्रीकालिकाsब्रवीत् ॥२५॥
सदाशिवः परशिवः पूर्वाभ्यासेषु तत्परः ।
एवं शक्तेः साधनाच्च काली काम्युमुपागतः ॥२६॥
काल्यग्रे शिवशक्तिस्तु या काल्या निर्मिता पुरा ।
अतिगर्वान्तितः शम्भुर्द्वितीया सुन्दरी मम ॥२७॥
पूर्वा काली महाविद्या सा वै सुन्दरिका न हि ।
एकस्मिन्दिवसे देवि द्वाभ्यां शक्तया समन्वितः ॥२८॥
प्रपञ्चमूलो हि शिवः कालाभ्रसन्निभा वदेत् ।
द्वितीयवाक्येsपि तया घोरदंष्टेति संवदेत् ॥२९॥
तृतीयवाक्ये देवेशि द्वितीयां सुन्दरीं प्रति ।
त्रैलोक्यसुन्दरी प्राणप्रिये मम स्वरूपिणी ॥३०॥
इत्युक्ता दक्षिणा देवी ब्रह्मरूपाद्यचण्डिका ।
आदिशक्तिः पूर्णरूपा क्रोधाविष्टा बभूव च ॥३१॥
तदा तु सुन्दरं रूपं सौभाग्यार्णवकं परम् ।
राजराजेश्वरीरूपं बिभ्रती परमेश्वरी ॥३२॥
तदा परशिवः शम्भुर्विस्मयाविष्टलोचनः ।
प्रकर्षेण तु पञ्चानां संयोगो युगपद्भवेत् ॥३३॥
प्रपञ्चातीतशीलेन गदिता परमेश्वरि ।
महाप्रपञ्चरूपा त्रै कोटिब्रह्माण्डनायिका ॥३४॥
षोडशी वै तदा जाता महाश्रीचक्रनायिका ।
आद्या श्रीदक्षिणाकाली द्वितीया कालभैरवी ॥३५॥
तृतीया राजराजेशी विद्या या परिकीर्तिता ।
तस्याः कृपाकटाक्षेण राजराजेश्वरो ह्यभूत् ॥३६॥
न्यासजालादिकं सर्वं पूजामंत्राण्यनेकधा ।
तदैव च षडाम्नाया ऊर्ध्वाम्नायादिकाः प्रिये ॥३७॥
पूर्वा प्रकृतिरूपा स्यान्मूलविद्या प्रियंवदे ।
तदाम्नायप्रपञ्चोsयं निर्मितः परमेश्वरि ॥३८॥
काद्यं मतं कादिमतं हाद्यं हादिमतं प्रिये ।
ककारो ह्यादिभूतस्तु हकारस्त्यन्तगो मतः ॥३९॥
क्षकारो मेरुसंज्ञस्तु स्वराः षोडश कीर्तिताः ।
कहेत्येवं महामंत्रस्तूत्तराम्नायगोचरः ॥४०॥
उत्तराम्नायराज्ञी च श्रीमहातारिणी तु सा ।
सुन्दरी कालिकारूपा श्रीमहाब्रह्मतारिणी ॥४१॥
तारिणीद्वितयं देवि सर्वदा तिष्ठति प्रिये ।
एवं युग्मात्मको मन्त्रः कादिहादिमतात्मकः ॥४२॥
प्रथमः कादिवर्णो वा हादिकः प्रथमोsय वा ।
कादिः प्रथमवर्णः स्यात् हादिश्चरम ईरितः ॥४३॥
वीरेश्वराणां गणना नास्त्येव प्रियवादिनि ।
मातृकेति तथेत्युक्ता तदक्षरसमन्विता ॥४४॥
सम्पूर्णमातृका देवि विद्यात्वेन न संशयः ।
तस्मात्कादिमतं चाद्यं कीर्तितं प्रियवादिनि ॥४५॥
कादिहादिश्चादिवर्णैर्गृह्यते यदि भाविनि ।
कादिहादिस्तु सर्वत्र मंत्रः प्रोक्तो महेश्वरि ॥४६॥
ककाराद्ब्रह्मरूपत्वं सुन्दरी परशिवात्मिका ।
कलौ कादिमतं पुण्यं पूर्वमेकं स्थितं प्रिये ॥४७॥
एवं संसारसिध्यर्थं प्रपञ्चो निर्मितः पुरा ।
आगमे बहवो भेदाः षड्दर्शनप्रकारजाः ॥४८॥
अन्येsपि कोटिशो भेदाः सन्त्येव प्रियवादिनि ।
धर्मशास्त्रं चतुर्वेदाः पुराण व्याकृतिस्तथा ॥४९॥
न्यायमीमांसावेदान्तसांख्यपातञ्चलं तथा ।
काव्यदिबहवो भेदाः प्रपञ्चा एव कीर्तिताः ॥५०॥
यदारभ्य धृतं रूपं सुन्दरं परमेश्वरि ।
तदारभ्य प्रपञ्चोsयं सर्वत्र परिवर्तते ॥५१॥
यदि कादिमतं चैकं वर्तते सत्यवादिनि ।
तदा पुमांसो देवेशि महाकालस्वरूपिणः ॥५२॥
स्त्रियः श्रीकालिकारूपा भवन्त्येव न संशयः ।
इत्येवं हि प्रपञ्चार्यं शाक्तं वैष्णवशाम्भवम् ॥५३॥
गाणपं सौरबौद्धं च षड्दर्शनमितीरितम् ।
मतानि बहुसंख्यानि संजातानि सुरेश्वरि ॥५४॥
वैदिके शास्त्रनिन्दा स्याच्छाक्ते वैष्णवनिन्दितम् ।
वैष्णवे शैवनिन्दा स्यात्सौरे गणपतेस्तथा ॥५५॥
गाणपत्ये सौरनिन्दा सौरे वीरस्य निन्दनम् ।
चीने जैनस्य निन्दा स्यात् जैने कापालिकस्य च ॥५६॥
कापालिके बौद्धनिन्दा बौद्धा नानाविधा मताः ।
एवं भिन्नमतान्याहुः पुराणाद्येषु शाम्भवि ॥५७॥
वेदानां चैव शाखा वै बहवः परिकीर्तिताः ।
एवं निन्दा समापन्ने भेदे जाते महेश्वरि ॥५८॥
नैकत्र तु मनो लग्नं क कस्य प्रियवादिनि ।
सर्वत्रान्योन्यनिन्दा तु प्रपञ्चेंन प्रकाशिता ॥५९॥
भिन्नं भिन्नं प्रशंसन्ति निन्दन्ति च परस्परम् ।
न विद्या सिद्धिमान्पोति संभ्रमन्ति पिशाचवत् ॥६०॥
अन्योन्यं यदि निन्दा न तदैवैक्यं प्रजायते ।
तस्मादैक्यसुसिध्यर्थं कालिका भवतारिणी ॥६१॥
पुनर्वै दैत्यनाशार्थं रूपं सुन्दरमेवतु ।
संबिभ्रती महादेवी शुम्भाद्याखिलनाशिनी ॥६२॥
सप्तप्रेतैकपर्यङ्कराजिते शवहृच्छिवा ।
श्वेतरूपमहाकालहृदयाम्भोजवासिनी ॥६३॥
कोटिकालानलज्वाला सेवनीया विधानतः ।
सर्वं सर्वादिभूतेयं कोटिसिद्धिप्रदायिनी ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे ब्रह्मवीरायोगो नाम पञ्चमः पटलः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP