संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि पूर्वोक्तानां विनिर्णयम् ।
श्रीशिव उवाच ।
रहस्यातिरहस्यं च कथ्यते श्रृणु पार्वति ॥१॥
नारिकेलं समारभ्य जंबुपर्यन्तमेव च ।
कदलीमण्डलं कृत्वा कदलीवनमेव च ॥२॥
प्रजपेद्यत्नतो यस्तु तारासिद्धिमवाप्नुयात् ।
कुलवृक्षास्ततो देवि सर्वेषां फलमुच्यते ॥३॥
नारिकेलैर्लभेद्राज्यं पूगैश्चैव मनोरथान् ।
मधुके कामिनीप्राप्तिश्चाम्रे सर्वज्ञता मता ॥४॥
वटे त्रैकाल्यविज्ञानमश्चत्थे सर्वकामनाः ।
तालवृक्षे जयावाप्तिः खर्जूरे राजमानता ॥५॥
पिप्पले सर्ववश्यत्वं प्लक्षे चावर्षणं परम् ।
राजलक्ष्मीः शमीवृक्षे जम्बुवृक्षे धनागमः ॥६॥
दिक्सहस्रं जपेद्देवि सर्ववृक्षे निरन्तरम् ।
समारुह्य जपेद्देवि नात्र कार्या विचारणा ॥७॥
श्लेष्मान्तककरंजाख्यबिल्वाश्वत्थकदम्बकम् ।
निम्बो वटौदुम्बरश्च चम्पकः केसरो दश ॥८॥
दशवृक्षं समासाद्य प्रत्येकं दिक्सहस्रकम् ।
प्रजपेद्यन्ततो देवि अणिमाद्यष्टकं तथा ॥९॥
मोक्षकामः क्रमेणैव लभते नात्र संशयः ।
कालीवृक्षाः समुद्दिष्टाच्छिन्नावृक्षान् श्रृणु प्रिये ॥१०॥
श्लेष्मान्तकं विभीतं च शाखोटं खर्जुरं तथा ।
पिप्पलं च वटाञ्चैव सुपुष्पां च सुवासिनीम् ॥११॥
निम्बाश्वत्थं करञ्जं च श्लेष्मान्तककदम्बकौ ।
बिल्वं वटं शालतालौ शाखोटं खर्जुरं तया ॥१२॥
ताराविद्याविधौ प्रोक्ताः श्रीविद्यायां श्रृणु प्रिये ।
पूर्वं द्वादशसंख्यातास्तथैव श्रीविधौ स्मृताः ॥१३॥
एतेषामपि देवेशि फलं तु पूर्ववद्भवेत् ।
इति संक्षेपतः प्रोक्तं देवतासननिर्णयम् ॥१४॥
कथ्यते देवदेवेशि यथावदवधारय ।
श्रीविद्या देवदेवेशि पञ्चप्रेतासनस्थिता ॥१५॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताश्चतुष्कं पादगोचरम् ॥१६॥
सदाशिवस्तु कशिपुः कामेशशूच्छादनं भवेत् ।
तत्रस्था सुन्दरी देवि कालिकायां श्रृणु प्रिये ॥१७॥
अतिकालः करालश्च विकरालः कपालधृक् ।
चतुष्टयं पादरूपं संहारं कशिपुः स्मृतः ॥१८॥
महाकालश्छादनं स्यात्तधृदिस्था तु कालिका ।
x x x x प्रोक्ता श्रीमहाकालिकाम्बिका ॥१९॥
महाश्मशाननिलया प्रत्यालीढपदा वरा ।
शवसिंहासनगता महोग्रतारिणी मता ॥२०॥
श्मशाननिलया छिन्ना शवविष्टरसम्मता ।
शवरूपकरालस्य हृदयोपरि संस्थिता ॥२१॥
x x x x स्वयम्भूपुष्पसंयुता ।
छिन्ना विद्या महेशानि महाकालकलां श्रृणु ॥२२॥
श्मशानप्रज्वलद्घोरमहाप्रलयसंयुतम् ।
शवोपरि स्थितं देवं महासंहारभैरवम् ॥२३॥
तेन सार्धं x x x x श्रीमहाकामकालिका ।
एवमन्येsपि काल्यां स्युर्बगलां श्रृनु पार्वति ॥२४॥
स्वर्णसिंहासनस्था वा पञ्चप्रेतस्थिता पि च ।
द्विविधा गदिता देवि सिद्धविद्यां श्रृणु प्रिये ॥२५॥
प्रेतासनगतां देवि उच्छिष्टभोजनोद्यताम् ।
राजमातंगिनीं देवीं कदम्बवनमध्यगाम् ॥२६॥
सिंहासनगतां रम्यां भैरवीं श्रृणु पार्वति ।
प्रेतपञ्चकसंयुक्तां श्रीमहाकालभैरवीम् ॥२७॥
धूमावतीं मलिनाङ्गीं काकासनसमन्विताम् ।
पद्मासनस्थां श्रीलक्ष्मीं भुवनेशीं पराम्बिकाम् ॥२८॥
रत्नसिंहासनगतां भुवनेशीं पराम्बिकाम् ।
योगकालीं महाविद्यां महाप्रलयकारिणीम् ॥२९॥
शुष्कमांसां चोपविष्टां तडागजठरां शिवाम् ।
कुक्कुटासनमारूढां शवोपरि समास्थिताम् ॥३०॥
दक्षपाणौ खर्परञ्च दक्षजङ्घोपरि स्थितम् ।
वामपाणौ खर्परञ्च अधोमुखसमन्वितम् ॥३१॥
ब्रह्माण्डसंहतिं कृत्वा शून्यखर्पवारिणी ।
नाहं तृप्ता वदन्तीति शवास्फालनतत्परा ॥३२॥
कोटराक्षी नागभूषा नागकङ्कणधारिणी ।
कुण्डले मुकुटे चैव नागो चैव गले हृदि ॥३३॥।
विभ्रती परमा देवी हृदि वृश्चिकसंयुता ।
संहारवृश्चिकं देवि हृदये विभ्रती शिव ॥३४॥
प्रलयानलसंकाशा मुखाम्भोजविकाशिनी ।
श्मशानशवसङ्घैश्च मुण्डशवैर्निनादिता ॥३५॥
मृगयोद्युक्तहृद्ब्रह्मरुद्रविषवादिभक्षिणी ।
प्रातर्बाला तु मध्यान्हे तरुणी रूपधारिणी ॥३६॥
सायाहे वृद्धरूपा वा महाप्रलयकारिणी ।
लम्बशुष्कस्तनी भक्ता वरदानमुखोद्यता ॥३७॥
भक्तान्वेषणसंव्यग्रा वीरास्फालनिनादिनी ।
तेजःपुञसमाकारा शून्यब्रह्माण्डवासिनी ॥३८॥
भक्तः क्कास्ति वरं ब्रूहि प्रसन्नास्मीति भाषिणी ।
अनाद्यन्ता परातीता चिदग्निरूपधारिणी ॥३९॥
परब्रह्मेश्वरी विद्या श्रीमहायोगकालिका ।
घटीत्रितयसंतुष्टा स्मरणाद्वरदायिनी ॥४०॥
वृषभस्थं महारुद्रं मूषकस्थं विनायकम् ।
मयूरस्थं कार्तिकेयं विष्णुं गरुडवाहनम् ॥४१॥
सर्पस्थं गरुडं देवं सिंहस्थं च विनायकम् ।
सिंहस्थां श्रीपरां दुर्गां महामहिषमर्दिनीम् ॥४२॥
एकचक्रस्थितं सूर्यं मृगस्थं चण्डदैवतम् ।
योगपीठस्थितं रामं पद्मासनसमन्वितम् ॥४३॥
वटवृक्षादधो भागे वीरासनगतं विभुम् ।
श्रीमहादक्षिणामूर्तिं शवस्थं हनुमद्विभुष ॥४४॥
वेतालं मुण्डपद्मस्थं भैरवाः शवसंस्थिताः ।
द्वादशारे महापद्मे कर्णिकाशवसंयुते ॥४५॥

अध्याय अपूर्ण आहे.


N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP