TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षट्चत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षट्चत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


षट्चत्वारिंशतिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
तन्मे कथय देवेश पूर्वं यत्सूचितं त्वया ॥१॥
पूर्वं त्वयोक्तं देवेश मन्त्रत्यागे दरिद्रता ।
दीक्षोत्तरं महेशान प्रत्यहं प्रजपेन्मनुम् ॥२॥
प्राणान्तेsपि न वै त्याज्यस्त्यागाच्छापमवान्पुयात् ।
जपपूजां ततो जापं कुर्याद्यत्नेन नित्यशः ॥३॥
पूजान्ते प्रजपेन्मन्त्रं न मन्त्रं केवलं जपेत् ।
इत्याद्युक्तं त्वया नाथ कथं त्याज्यः स वै मनुः ॥४॥
श्रीशिव उवाच ।
पूर्वकल्पः पशूनाञ्ज वैष्णवानां विशेषतः ।
सन्ध्या तु वैदिकी प्रोक्ता मानसी तु तथा तव ॥५॥
त्रिसन्ध्यां तान्त्रिकीं कुर्याच्छक्तिमन्त्रे महेश्वरि ।
पूर्णाभिषेकहीने तु पूजा पञ्चोपचारिका ॥६॥
पूजोपचारैः सम्पूज्य दीपे कुड्ये जले प्रिये ।
दर्पणे श्रीगुरौ देवि पशुपक्षे मनस्त्विदम् ॥७॥
पूर्णाभिषेकसंयुक्तः पूर्णरूपः स वै भवेत् ।
को वा देही कस्य देहः सुखं दुःखं च कस्य वै ॥८॥
को जातः को मृतो देवि सर्वं ब्रह्मस्वरूपकम् ।
नामपारायणं देवि मन्त्रपारायणं तथा ॥९॥
नाडीपारायणं देवि चक्रपारायणं तथा ।
यन्त्रपारायणं देवि सन्ध्यानां च चतुष्टयम् ॥१०॥
प्रस्ताराख्यसहस्राणि तथोपस्थानरूपिणी ।
आवर्णाख्यसहस्राणि विद्याकल्पलता तथा ॥११॥
द्वाविंशति क्रमेणैव दीक्षासोपानमालिका ।
षडाम्नायस्य विज्ञानी श्रीमहापञ्चिकाक्रमी ॥१२॥
कादिहादिमताधीशस्तस्य वै सूतकं कुतः ।
ऊध्वाम्नायी तथा देवि तथा चरणदीक्षितः ॥१३॥
चतुश्चरणसम्पन्नः षडन्वयक्रमी तथा ।
मेधादीक्षादिसंयुक्तः साम्राज्यमेधया पुनः ॥१४॥
श्रीगुरोः पादुकाज्ञानी श्रीमहापादुका तथा ।
निर्वाणपादुकज्ञानी श्रीमूर्तिपादुका तथा ॥१५॥
वाराहीपादुका देवि मातङ्गीपादुका तथा ।
शाम्मव्याख्यपादुकायाः श्रीमेधापादुकान्वितः ॥१६॥
सूतकं तस्यं कुत्रास्ति पूर्णरूपः स एव तु ।
यस्मिन्काले भवेदेवि मन्त्रदेवस्य विस्मृतिः ॥१७॥
तदैव मरणं प्रोक्तं मरणं मरणं नहि ।
जीवनं तु तदैव स्याद्यस्मिन् काले तु सम्भ्रमः ॥१८॥
चतुर्वेदास्तूपवेदाः श्रीचक्रद्वारि सन्ति च ।
पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते ॥१९॥
स देशो धन्यतां याति समन्तात्कोटियोजनम् ।
न व्याधिर्न च वै मृत्युर्न शत्रुर्न भयं क्कचित् ॥२०॥
पूर्णरूपः शिवः प्रोक्तं शिव एव न संशयः ।
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ॥२१॥
पूर्णाभिषेकी देवेशि दशविद्याविधौ स्मृतः ।
तूर्यभेदा हादिमते कादौ भेदचतुष्टयम् ॥२२॥
पञ्चरत्नेश्वरी द्वेधा हादिकादिक्रमेण च ।
उग्रा कादिक्रमेणैव सौम्या हादिक्रमेण च ॥२३॥
कादिहादिक्रमेणैव उग्रसौम्यद्वये शिवे ।
अभिषेकः शुभः प्रोक्तः सर्वसाम्राज्यदायकः ॥२४॥
श्रीदेव्युवाच ।
अभिषेकविहीनस्य ग्रहणक्रमगस्य च ।
पुराश्चर्याप्रयुक्तस्य कथं भवति तद्वद ॥२५॥
श्रीशिव उवाच ।
सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते ।
सूर्यचन्द्रग्रहे यद्यत् कृतं वा कारितं च वा ॥२६॥
तत्तदक्षय्यमायाति विद्या सिद्धिप्रदा मता ।
जातशौचं मृताशौचं ग्रहणे नास्ति पार्वति ॥२७॥
सूर्यशौचं महेशानि नान्यत्सञ्चरति क्कचित् ।
स्नानं दानं जपो होमो मार्जनं तर्पणं तथा ॥२८॥
द्विजभोज्यं शक्तियोगात्कर्तव्यं परमेश्वरि ।
संकल्पमत्रात्सिद्धिः स्याञ्चन्द्रसूर्यग्रहे शिवे ॥२९॥
दीक्षायोगः पीठजपो मन्त्रपारायणं तथा ।
नामनाडीचक्रमन्त्रपारायणविधिर्भवेत् ॥३०॥
पूर्णाभिषेकदीक्षा तु चन्द्रसूर्यग्रहे शिवे ।
सूतकेsपि भवत्येव पूर्णस्य सूतकं कुतः ॥३१॥
होमादिकं सूतकान्ते मोणः प्रतिनिधिः स्मृतः ।
काली तारा छिन्नमस्ता सुन्दर्याः परमेश्वरि ॥३२॥
विशेषात् सूतकं नास्ति सर्वकालं जपेच्छिवाम् ।
अभिषेकाद्भवेच्छुद्धः सर्वरूपः सनातनः ॥३३॥
अभिषेकः पूर्णरूपः सर्वसिद्धिफलप्रदः ।
अनेकक्रमयोगेन त्वभिषेकः प्रकीर्तितः ॥३४॥
पूर्णाभिषेकसंयुक्तश्चाण्डालोsपि भवेद्यदि ॥
स ब्रह्मर्षिर्महेशानि नात्र कार्या विचारणा ॥३५॥
पूर्णाभिषेकहीनोsयमृषिवर्योsपि पार्वति ।
स ब्राह्मणाधम प्रोक्तस्त्वभिषेके द्विजोत्तमः ॥३६॥
अभिषेकाद्भवेच्छ्रेष्ठो वयोधिक्यान्न वै प्रभो ।
श्रीवृद्धो दीक्षया हीनो बालो दीक्षासमन्वितः ॥३७॥
पूर्णरूपो भवेच्छ्रोष्ठो न वयो हेतुरत्र तु ।
अपि चाण्डालजातिस्थः पूर्णदीक्षासमन्वितः ॥३८॥
स एव शिवरूपः स्यान्नात्र कार्या विचारणा ।
जपपूजां तपो होमं तथा ब्राह्मणभोजनम् ॥३९॥
कारयेद्यत्नतो देवि नान्तरायं समाचरेत् ।
आदौ मानसिकीं पूजां महापूजोआं ततः शिवे ॥४०॥
कारयेद्यत्नतो देवि नात्र कार्या विचारण ।
पूर्णाभिषेकहीनानां पशूनां जप एव च ॥४१॥
क्कचित्प्रोक्तो महेशानि स जपो हि निरर्थकः ।
यद्यप्यस्ति त्रिकालज्ञस्त्रैलोक्याकर्षणक्षमः ॥४२॥
तथापि लौकिकाचारं मनसाsपि न लङ्घयेत् ।
इति चिन्तापरो यस्तु तस्य पूजा महेश्वरि ॥४३॥
गुरुहस्तात् गुरुभ्रातुस्तथाचार्यस्य हस्ततः ।
कारणीया प्रयत्नेन न मन्त्रं केवलं जपेत् ॥४४॥
केवलं मन्त्रजापस्तु नाम इत्यभिधीयते ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मन्त्रजापविधानं नाम षट्चत्वारिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:37.3100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

returns to scale

  • अनुमाप प्रत्याय 
  • constant returns to scale स्थिर अनुमाप प्रत्याय 
  • diminishing returns to scale घटते अनुमाप प्रत्याय 
  • increasing returns to scale वाढते अनुमाप प्रत्याय 
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.