संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
अष्टमः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टमः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
विद्यासिद्धिं विना देव सिध्यति न हि वा वद ।
यक्षिण्यादिमहासिद्धिस्तस्य हस्ते कथं भवेत् ॥१॥
श्रीशिव उवाच ।
एतज्ज्ञानवशाद्देवि सर्वं सिध्यति नान्यथा ।
अपसरोमण्डलं देवि किन्नरीमण्डलं तथा ॥२॥
गन्धर्वमण्डलं देवि सिद्धगुह्यकमण्डलम् ।
पिशाचमण्डलं चैव भूतिनीमण्डलं तथा ॥३॥
नागिनीमण्डलं देवि डाकिनीमण्डलं तथा ।
कुष्माण्डमण्डलं देवि तथा शाबरमण्डलम् ॥४॥
दशविद्याक्रमेणैव श्रीक्रोधमण्डलेन वा ।
पार्षन्मण्डलयोगेन सर्वाः सिध्यन्ति सिद्धयः ॥५॥
मण्डलत्रितये देवि अप्सराद्याः सुसुद्धिदाः ।
मन्त्रसिद्धिविधानेन सर्वाः सिध्यन्ति केवलम् ॥६॥
काली तारा सुन्दरी च त्रियोगात्सिध्यति ध्रुवम् ।
अन्यथा नैव सिध्यन्ति नात्र कार्या विचारणा ॥७॥
इति संक्षेपतः प्रोक्तं दीक्षां तत्र श्रृणु प्रिये ।
कादितन्त्रोक्तमार्गेण पूर्णदीक्षा प्रकीर्तिता ॥८॥
बृहत् - श्रीक्रमतंत्रोक्ता ऊर्ध्वाम्नायस्वरूपिणी ।
सुधाशांतवतंत्रोक्ता शान्तिनिर्वाणरूपिणी ॥९॥
पराताण्डवतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता ।
शक्तिसङ्गमतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता ॥१०॥
ऊर्ध्वाम्नायपरिज्ञानं पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥११॥
पर्यायनित्याविज्ञानं नित्यानित्यप्रपूजनम् ।
षष्टिजपप्रकारश्च नाल्पस्य तपसः फलम् ॥१२॥
पञ्चषोढापरिज्ञानं शक्तिन्यासस्य चिन्तनम् ।
नामपारायणं नाम मंत्रपारायणं तथा ॥१३॥
युगनित्यापरिज्ञानं नाल्पस्य तपसः फलम् ।
पूर्णाभिषेकषट्कं च कालिकामंत्रचिन्तने ॥१४॥
नीलसाधनकं कर्म नाल्पस्य तपसः फलम् ।
चरणत्रयचिन्ता च शाम्भवादौ परिक्रिया ॥१५॥
काली तारा नामधर्मो नाल्पस्य तपसः फलम् ।
अनिरुद्धसरस्वत्याः समा विद्या न चास्ति वै ॥१६॥
एतस्या ज्ञानमात्रेण किन्न सिध्यति भूतले ।
श्रीविद्यायां महेशानि वीरसाधनमाचरेत् ॥१७॥
अहोरात्रे कलौ तारा सुन्दरी सुप्रसीदति ।
सुन्दर्यां नीलगान्धर्वौ कर्तव्यौ सिद्धिमिच्छता ॥१८॥
महादिव्यक्रमेणैव महावीरक्रमेण च ।
महानीलक्रमेणैव कादिहादिकहात्मिका ॥१९॥
सिध्यन्त्येत्र महेशानि ए ह्रीं श्रीं च पशुक्रमात् ।
अन्या दिव्यक्रमेणव एता अपि महेश्वरि ॥२०॥
स्वयम्भूपुष्पक्रमतः कालिका सिद्धिदा भवेत् ।
स्वजातपुष्पक्रमतः साधना भैरवीमनौ ॥२१॥
स्वयम्भूक्रमयोगेन किन्न सिध्यति भूतले ।
वाचा सर्वं तु भवति वाग्भवं तेन कीर्तितम् ॥२२॥
वाग्भवं ब्रह्मरूपं च ह्यर्धनारीश्वरः स्वयम् ।
शिवशक्तयात्मकं बीज यो जानाति स साधकः ॥२३॥
वाग्भवं सर्वमूलं तु शक्तिचक्रात्मकं प्रिये ।
शक्तेः समरसानन्दसंयोगे यत्सुखं प्रिये ॥२४॥
तत्सौख्यरूपं देवेशि वाग्भवं बीजमीरितम् ।
निर्गुणं तु निराकारं सच्चिदानन्दविग्रहम् ॥२५॥
निर्द्वन्द्वं निरहङ्कारं तद्ब्रह्म परिकीर्तितम् ।
ईदृशं तु परं ब्रह्म मुखादुच्चार्यते कथम् ॥२६॥
मुखादुच्चार्यते सर्वं वाग्भवं मुखमुच्यते ।
वाचा सर्वं संभवति जगत्स्थावरजङ्गमम् ॥२७॥
शिवशक्तयात्मकं देवि वाग्भवं बीजमुत्तमम् ।
शक्तिः सचेतना प्रोक्ता जडः परशिवो मतः ॥२८॥
विना शक्तया निर्गुणस्य मुखादुच्चारणं कुतः ।
तस्माच्छक्तिं विहायाथ सर्व जडाता मता ॥२९॥
मुखे शक्तिसमायोगाद्ब्रह्मसंज्ञाsभिधीयते ।
मुखे शक्तिः स्थिता नित्या वाक्शक्तिरिति कीर्तिता ॥३०॥
अर्धनारीश्वरं रूपं वाग्भवं कीर्तितं प्रिये ।
सर्वादिभूतं तु मुखं परब्रह्म प्रकीर्तितम् ॥३१॥
मुखादुच्चारणं देवि सर्वेषां जायते प्रिये ।
वाग्भवं तेन सम्प्रोक्तं ब्रह्मरूपं सनातनम् ।
वाग्भवं मुखामित्युक्तं मुखं ब्रह्म प्रकीर्तितम् ॥३२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे यक्षिण्यादिमहासिद्धिविनिर्णयो नामाष्टमः पटलः ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP