TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुश्चत्वारिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुश्चत्वारिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


चतुश्चत्वारिंशतिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि सुन्दरीसाधनक्रमम् ।
श्रीशिव उवाच ।
रहस्यातिरहस्यं च तव स्नेहात्प्रकाश्यते ॥१॥
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।
सिद्धमन्त्रपरो भूत्वा वीरसाधनमाचरेत् ॥२॥
सर्वेषां जीवहीनानां जन्तूनां फलकृद् भवेत् ।
नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितम् ॥३॥
श्रीविद्या शिथिला देवि क्लेशसाध्या कलौ ध्रुवम् ।
अल्पाचारादधर्मत्वाद् भ्रष्टत्वादपि पार्वति ॥४॥
कलौ पापसमाकीर्णे कस्य वै निश्चलं मनः ।
सर्वदोषैः समायुक्तो वीरसाधनसंयुतः ॥५॥
स एव सिद्धिदो देवि नात्र कार्या विचारणा ।
न वै सिद्धिर्न वै सिद्धिर्वीरसाधनमन्तरा ॥६॥
महापातकसंयुक्तो वीरसाधनसंयुतः ।
स एव सिद्धिदो लोके सर्वदेवनमस्कृतः ॥७॥
याममात्रेण संसिद्धिर्वीरसाधनयोगतः ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥८॥
सार्धयामोत्तरं देवि वीरसाधनमाचरेत् ।
तरुणं सुन्दरं शूरं संमुखे रसवर्तिनम् ॥९॥
पलायनविशून्यं च महावीरशवं हरेत् ।
यष्टिविद्धं विद्धं चाण्डालाद्यभिभूतकम् ॥१०॥
खङ्गविषहतं विद्धं चाण्डालाद्यभिभूतकम् ।
शीघ्रसिद्धिप्रदं देवि पूर्वोक्ताष्टशवं त्यजेत् ॥११॥
वीरवेषं समासाम्यं वीरचर्य्यां समाचरेत् ।
पूर्ववत् तिलकं कृत्वा बलिद्रव्याणि चाहरेत् ॥१२॥
मंत्र वा साधयिष्यामि देहं वा पातयाम्यहम् ।
प्रतिज्ञामीदृशीं कृत्वा बलिद्रव्यानि संग्रहेत् ॥१३॥
मेषमाहिषमार्जारछागकुक्कुटकुञ्जरान् ।
गुडपायससंपातो मोदकान् पूपलड्डुकान् ॥१४॥
जम्बीरपनसादीनि नाना स्वादूनि पार्वति ।
फलानि चाहरेद्देवि ताम्बूलाद्यैः समन्वितः ॥१५॥
जातीपत्रं तत्फलं च कङ्कोलं विजया तथा ।
कस्तूरीकुङ्कुमादीनि भक्ष्यद्रव्याणि यानि च ॥१६॥
तानि सर्वाणि संगृह्य यथोक्तं स्थानमाचरेत् ।
बिल्वमूले प्रान्तरे वा शून्यागारे नदीतटे ॥१७॥
समुद्रे विपिने घोरे श्मशाने चत्वरे तथा ।
गङ्गागर्भे तडागे च कामिनीमण्डलेsपि च ॥१८॥
एकलिङ्गे विशेषेण वनमध्ये विशेषतः ।
वीरवेषं समासाद्यं वीरसाधनमाचरेत् ॥१९॥
सिद्धमन्त्रं पुरस्कृत्वा देवतादर्शओत्सुकः ।
सार्धयामोत्तरं देवि वीरसाधनमाचरेत् ॥२०॥
खदिरानष्टकीलादैर्वितस्तैर्वा हरेच्छिवे ।
दशदिक्षु क्षिपेद्देवि दिक्पालेभ्यो बलिं हरेत् ॥२१॥
दिग्बन्धनं समाचर्य साम्राज्यमण्डलक्रमात् ।
विद्यामण्डलमार्गेण महाविद्यादिमार्गतः ॥२२॥
श्मशानदेवताभ्यो हि बलिं यत्नेन दापयेत् ।
राजराजेश्वरायाsथ बलिं यत्नेन दापयेत् ॥२३॥
ततः श्रीकुरुकुल्लायै चाण्डाल्यै तदनन्तरम् ।
बटुकयोगिनीक्षेत्रपालगाणपभूतये ॥२४॥
देवता ललिताधीशः सर्वोभ्यो बलिमाहरेत् ।
बलिदानं समभ्यर्च्य वीरसाधनमाचरेत् ॥२५॥
वीरं संक्षाल्य यत्नेन सिन्दूराङ्कितभालकः ।
कज्जलमञ्जनं तैलं कस्तूरीकुङ्कुमान्वितम् ॥२६॥
ताम्बूलं मुखमध्यं च दुग्धेनोत्सर्गमाचरेत् ।
वीरं संक्षाल्य यत्नेन कारणेन सुरेश्वरि ॥२७॥
मासप्रधानं नैवेद्यं मत्स्यान्मुद्रां तथैव च ।
दत्त्वा यत्नेन देवेशि लवङ्गैलादिसंयुतः ॥२८॥
कर्पूरवासितं धूपं गन्धाद्यष्टौ च पञ्च च ।
षोडशाङ्गं दशाङ्गं वा अष्टादशसमन्वितम् ॥२९॥
श्रीखण्डधूपो देवेशि तथा चागुरुसम्भवः ।
गुग्गुलं लोहबाणश्च रालश्च देवदारुकः ॥३०॥
लाक्षा गूडश्च वा देवि गोघृतं शकराञ्च वा ।
मांसीनखं च वा देवि कर्पूरमेकमेव वा ॥३१॥
श्रीखण्डमगुरुं चापि गन्धसारं शिलारसम् ।
मलयोद्भवसारञ्च विद्याया युग्मभेदतः ॥३२॥
दशविद्याक्रमेणैव कीर्तितन्तु मया तव ।
देवदारुमयो धूपः सर्वभूतविनाशकः ॥३३॥
एवं सन्धूप्य यत्नेन खङ्गहस्तो भवेद् ध्रुवम् ।
मुक्तकेशो दिशावासो दूरे चोत्तरसाधकान् ॥३४॥
दीपं प्रज्वाल्य यत्नेन न च विघ्नैः समाकुलः ।
मध्ये वीरं तु संस्थाप्य झुटिकाबन्धनं चरेत् ॥३५॥
पृष्ठदेशे लिखेद्यन्त्रं पादबन्धनमाचरेत् ।
मुखबन्धं मुखे दत्त्वा हयारोहक्रमेण च ॥३६॥
अचूडकं पूर्वभागे मृदु दक्षिणगोचरे।
कोमलं पश्चिमायां च त्रिमुण्डमुत्तरे भवेत् ॥३७॥
ततो मृतकमन्त्रेण मृतकं पूजयेत्क्रमात् ।
वीरार्गलाघोरमन्त्रैश्चक्रपाशुपतास्त्रकैः ॥३८॥
जयदुर्गाख्यमन्त्रोsपि वीरप्रार्थनकृन्मनुः ।
तिलोsसीति यवाख्यो हि मनवः परिकीर्तिताः ॥३९॥
स्वस्वस्थाने नियुञ्जीत यथोक्तेन तु वर्त्मना ।
ऋषिच्छन्दादिकं ज्ञात्वा यथोक्तं ध्यानमाचरेत् ॥४०॥
स्वेष्टदेवं तु सम्पूज्य साङ्गं सावरणं प्रिये ।
प~चोपचारैर्वा पूज्य जपं कुर्यादनन्यधीः ॥४१॥
भयं न कुर्याद्देवेशि स्वप्नवद्भावयेज्जगत् ।
देवताः खेचराः सिद्धा भैरवा यातुधानकाः ॥४२॥
आयान्ति छलनार्थं च भयं तत्र न कारयेत् ।
व्याघ्राः शस्त्राणि सर्पाद्या वृश्चिकाः क्रूरजन्तवः ॥४३॥
वक्रक्रूराणि रूपाणि समुद्रस्वर्गपातनम् ।
मृताश्च पूर्वजाः सर्वे राजकीयातनास्तथा ॥४४॥
नीलं वा प्राप्यते देवि कुक्कुटं चामृतं च वा ।
तृणीकृत्य च तत्सर्वं दृढभावसमन्वितः ॥४५॥
प्रजपेद्यत्नतो देवि देवता वरदा भवेत् ।
संस्कृतं वक्ति या चाग्रे सा देवी परिकीर्तिता ॥४६॥
तस्या वरस्तु संग्राह्यस्त्रिवारं वक्ति सा शिवा ।
ब्राह्मणः संस्कृतं वक्ति भैरवः सम्प्रकीर्तितः ॥४७॥
तया यदुच्यते देवि या बलिर्याच्यते तया ।
तान् दद्याद्यत्नतो देवि नरकुञ्जरमाहिषान् ॥४८॥
शालीपिष्टमयान् कृत्वा यवक्षोदमयानपि ।
दिनान्तरे तु तद्दद्याद् वरं गृह्य सुखी भवेत् ॥४९॥
वीरादि सर्वसामग्रीं गर्तमध्ये विनिक्षिपेत् ।
वीरयुद्धं तत्र भूयात् दृढस्तत्र नरो भवेत् ॥५०॥
एकविंशद्दिनं यावत्तावत्संगोपयेत्स्वयम् ।
गीतं श्रुत्वा तु वधिरः स्त्रीसङ्गाद् रोगभाग् भवेत् ॥५१॥
होमहीने न सिद्धिः स्याद् द्विजभोजविहीनके ।
दरिद्रस्तु भवे वि सर्वं संसाधयेद् ध्रुवम् ॥५२॥
बिल्वपत्रोदकं पीत्वा सर्वं संसाधयेद् ध्रवम् ।
अष्टादशविधो देवि शक्तिपातः प्रजायते ॥५३॥
षष्टिसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
अणिमाद्यष्टसिद्धीनामधीशो धार्मिकः कृती ॥५४॥
ब्रह्माण्डगोलके या च या काचिज्जगतीतले ।
समस्ताः सिद्धयो देवि तस्य पादे व्यवस्थिताः ॥५५॥
भैरवाः खेचरा यक्षाः किन्नराश्चाप्सरोगणाः ।
यातुधानास्तथा नागा दानवा दैत्यराक्षसाः ॥५६॥
कुष्माण्डाश्च तथा भूताः पिशाचाः प्रेतजातयः ।
निवातकवचाश्चान्ये तथैव ब्रह्मराक्षसाः ॥५७॥
वेतालाश्च तथा साध्याः सिद्धाश्च यक्षिणीगणाः ।
राकिनीकिन्नरीसंघा भूतिनीचेटकादयः ॥।५८॥
महेन्द्रजालमिन्द्रादिजालं पादगतं भवेत् ।
सुरयोत्सर्गमासाद्य तेन सिद्धीश्वरो भवेत् ॥५९॥
गुडार्दकरसेनैव सुरा तु ब्राह्मणस्य च ।
गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ॥६०॥
रहस्यातिरहस्यञ्च रहस्यातिरहस्यकम् ।
प्राणा देयाः शिरो देयं न देया साधना वरा ॥६१॥
इति विद्याविधौ प्रोक्ता श्रीविद्यायां विशेषतः ।
बटुके क्षेत्रपालेsपि गाणपे शाङ्करेsपि च ॥६२॥
साधनेयं मया प्रोक्ता गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छोतुमिच्छसि ॥६३॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सुन्दरीसाधनं नाम चतुश्चत्वारिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:37.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

agricultural botany

  • न. कृषि वनस्पतीशास्त्र 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site