TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकादशः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकादशः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


एकादशः पटलः ।
श्रीशिव उवाच ।
निर्गुणत्वं मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
श्री काल्युवाच ।
आदिनाथ महाकाल सर्वभूतहितां वर ॥१॥
त्वत्तः श्रुता महाविद्या दशसंख्यासमन्विताः ।
लघुपूर्वा महाविद्या दशसंख्यैव कीर्तिताः ॥२॥
त्रयोदश महाविद्या विरूपाक्षेण कीर्तिताः ।
तथा षोडश वै विद्या भैरवेण प्रदर्शिताः ॥३॥
देवीमते महाविद्या सिद्धविद्याsपि देवते ।
त्रिशक्तिः कथिता देव त्रिशक्तिस्त्रिविधा मता ॥४॥
काली तारा छिन्नमस्ता त्रिशक्तिः परिकीर्तिता ।
बाला पञ्चदशी देव षोडशी त्रिरिति स्मृता ॥५॥
त्रिशक्तिलक्ष्मीः छिन्नायां त्रिशक्तित्वं च कीर्तितम् ।
सर्वं त्वया निगदितं पूर्वोक्तं तत्र कीर्तितम् ॥६॥
यत्किमप्यतिगोप्यं हि प्रायशः परमेश्वर ।
गोप्याद्गोप्यतरं देव तदद्य कथयस्व मे ॥७॥
ईश्वर उवाच ।
सहस्रनामस्तोत्रेषु कवचेष्वपि पार्वति ।
तत्कवचादिकं प्रोक्तं सा वै कार्या पुरष्क्रिया ॥८॥
यत्र नोक्ता पुरश्चर्या तत्र किं वा विधीयते ।
अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकीर्तिता ॥९॥
सहस्रनामकवचे पुरश्चर्या त्वियं मता ।
एवं पुरष्क्रियां कृत्वा दशांशहवनादिकम् ॥१०॥
तर्पणं मार्जनं देवि कुत्रचित्परिकीर्तितम् ।
महाकालमतेनोक्तं तत्रस्थं चेत् समाचरेत् ॥११॥
ब्राह्मणभोजनं चान्ते सर्वथा कारयेत् प्रिये ।
विप्रसन्तोषणेनव सर्वं सिध्यति पार्वति ॥१२॥
हवनं तु कथं कार्यं पुरश्चर्या कथं भवेत् ।
सहस्रनामरूपं च कीदृशं परमेश्वरि ॥१३॥
तथा कवचकं देवि किं रूपं परिकीर्तितम् ।
शिवदेव्यास्तु संवादो ब्रह्मरन्ध्रेति कीर्तितम् ॥१४॥
अन्ये श्लोकाः केशतुल्या ऋषिः शिव इतीरितः ।
छन्दो मुखं भवेद्देवि देवता हृदयं भवेत् ॥१५॥
बीजं गुह्यमिति प्रोक्तं शक्तिस्तु परगा मता ।
सर्वांगकल्पनं देवि ह्यर्थवादः प्रकीर्तितः ॥१६॥
स्तोत्रमध्ये स्थितं यद्यत्तत्सर्वं स्तोत्ररूपकम् ।
एवं च देवदेवेशि स्तोत्ररूपं प्रकीर्तितम् ॥१७॥
तदेव कवचं देवि त्वाद्योपान्तं पठेत्प्रिये ।
अङ्गहीने भवेन्नाशं सर्वथा परमेश्वरि ॥१८॥
फलं स्तुत्यादिके देवि गतिरित्यभिधीयते ।
आद्योपान्तं विना देवि फलमर्धं प्रकीर्तितम् ॥१९॥
अत्रार्थे प्रत्ययो देवि पञ्चाङ्गाद्या यथा स्मृताः ।
होमं कार्यं कथं देवि श्लोकान्ते हवनं च वा ॥२०॥
हवनं कवचादीनां शृणु यत्नेन साम्प्रतम् ।
आद्योपान्तं पठित्वा तु पश्चात्तु हवनं मतम् ॥२१॥
अथवा देवदेवेशि नामान्ते हवनं मतम् ।
श्रीदेव्युवाच ।
नामान्ते हवनं चेत्स्यात् उपोद्धाते कथं भवेत् ॥२२॥
कवचादौ कथं कार्यं कवचं मन्त्ररूपकम् ।
तत्र नामान्तकं वापि श्लोकान्तं परमेश्वर ॥२३॥
सम्पूर्णं वापि कर्तव्यं होमकर्मणि शंकर ।
ईश्वर उवाच ।
साङ्ख्यायनमते देवि गौडपाठविधिर्मता ॥२४॥
पठनीयानि नामानि मध्यस्थानि महेश्वरि ।
श्लोकर्धं पादमात्रं वा पादार्धं नाममात्रकम् ॥२५॥
मध्यस्थं नामसाहस्रं पठेद्यत्नेन सुव्रते ।
साङ्ख्यायनमतं प्रोक्तं उप्द्धातं शृणु प्रिये ॥२६॥
उपोद्धातोपसंहारो श्लोकान्ते हवनं मतम् ।
तदन्ते हवनं कुर्यात् इति साङ्ख्यायनोsब्रवीत् ॥२७॥
कवचादावपि प्रिये मन्त्रान्ते हवनं भवेत् ।
उपक्रमोपसंहारे श्लोकान्ते हवनं मतम् ॥२८॥
आदौ पूर्णं तु सम्पठ्य तथैवान्ते महेश्वरि ।
मध्ये नामानि पाठ्यानि पुरश्चर्या प्रकीर्तिता ॥२९॥
काश्मीराख्यक्रमेदेवि शृणु यत्नेन साम्प्रतम् ।
स्तोत्रमावर्त्य संपूर्ण तदन्ते गणनां चरेत् ॥३०॥
सम्पूर्णक्रमयोगस्तु काश्मीराख्यः प्रकीर्तितः ।
सम्पूर्णहोमयोगस्तु कथितस्तु प्रियंवदे ॥३१॥
मार्जनाभिषेचनं कर्म कुर्यादत्र महेश्वरि ।
काश्मीरकेरलारूपे तु क्कचिद्भदोsस्ति पार्वति ॥३२॥
अनेनैव क्रमेणैव कवचे होम ईरितः ।
कवचे तर्पणाद्यं वा कार्यं यत्नेन धीमता ॥३३॥
सारूप्यं कवचाख्यं तु सायुज्यं स्तोत्रमीरितम् ।
सान्निध्यं नामसाहस्रं त्रितयं परिकीर्तितम् ॥३४॥
सालोका वाक् स्तुतिर्देवि तस्मात्पूर्णं पठत्सुधीः ।
अयमेव महादेवि केरलेsपि प्रकीर्तितः ॥३५॥
पाठमात्रे त्विदं प्रोक्तं होमादौ परिकीर्तितम् ।
कामरूपागमे होमाः श्लोकान्ते कवचं पठेत् ॥३६॥
कामरूपागमे नाम्नि मते चाक्षोभ्यनिर्मिते ।
श्लोकान्ते हवनं प्रोक्तं श्लोकान्ते मार्जनादिकम् ॥३७॥
ततस्तंत्रोक्तविधिना पुरश्चर्यादिकं चरेत् ।
कवचं कवचरूपं स्यात् स्तोत्रं सहचरो भवेत् ॥३८॥
सहस्रनामस्तोत्रं तु सेनास्थाने प्रकीर्तितम् ।
पूजा दुर्गस्वरूपः स्यात् बलिदानं तु मारणम् ॥३९॥
मन्त्रो राजपुरश्चर्या राजसम्पत्तिरीरिता ।
सम्पत्त्या तु विना राजा न शोभते महेश्वरि ॥४०॥
सम्पत्तिमूलमेतद्धि सर्वमेव प्रकीर्तितम् ।
होमोsग्न्यस्त्रमिति प्रोक्तं पर्जन्यास्त्रं तु तर्पणम् ॥४१॥
जले दुर्वस्वरूपं च त्वभिषेकः प्रकीर्तितः ।
ब्राह्मणानां भोजनं तु दुष्टसैन्यप्रभक्षणम् ॥४२॥
देवतागुरुविद्यैक्यं त्वात्मैक्यं परिभाव्य च ।
सर्वसिद्धीश्वरो भूत्वा त्रैलोक्याधिपतिर्भवेत् ॥४३॥
यथा च राजराज्यादौ शत्रुसैन्यभयं भवेत् ।
सिद्धिराज्यं महादेवि तथवं परिकीर्तितम् ॥४४॥
दुर्गाद्यस्त्रादिकं देवि देवराज्ये यथा मतम् ।
तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतम् ॥४५॥
मन्त्रो राजा गुरुर्मन्त्री गणेशो द्वारपालकः ।
साधना शवमुण्डस्य सिंहासनमितीरितम् ॥४६॥
साधकेन तथा कार्यं येन सर्वं सुसिध्यति ।
नैमित्तिकं च काम्यं च हयद्विरदिनौ मतौ ॥४७॥
होमधूमः पताका स्यात् तन्त्रस्तु सिद्धिभूमिका ।
सिद्धिराज्याधिपे देवि किं न सिध्यति भूतलें ॥४८॥
षोढान्यासादिक सेना देवताराज्यदायिका ।
यन्त्रं तु वज्रदुर्गं तु बीजयंत्रं त्वभेद्यकम् ।
कवचादिपुरश्चर्या प्रोक्ता किं श्रोतमिच्छसि ॥४९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे कवचादिपुरश्चर्या नामैकादशः पटलः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.2630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चेळणें

  • v t  Force in. 
  • अ.क्रि. १ ओलसर होऊन पाघळणें ; चिघळणें पहा . २ बारगळणें , वेडे चाळे करणें . चेकळणें पहा . 
  • उ.क्रि. जोरानें आंत शिरकावणें ; ठांसणें ; चेंदणें ; चिणणें . [ सं . चल ] 
  • v i  Melt and run. Run riot. 
RANDOM WORD

Did you know?

gharat javalchi vyakti vaarlya nanter, lok ek varsha san saajre ka karat nahit?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.