TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्वात्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्वात्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


द्वात्रिंशतिः पटलः ।
श्रीदेव्युवाच ।
पूर्वं संसूचितं नाथ मूद्रासङ्केतकं तथा ।
किं त्वया गोपितं स्वामिन् कथयस्व ममाधुना ॥१॥
श्रीशिव उवाच ।
रहस्यातिरहस्यं च सारात् सारतरं शिवे ।
कथायामि तव प्रीत्या रहस्यं गोपयेत् प्रिये ॥२॥
केरलश्चैव काश्मीरो गौडाश्चैव तृतीयकः ।
सम्प्रदायत्रयं प्रोक्तं प्रत्येकं विविधं भवेत् ॥३॥
शुद्धगुप्तोग्रभेदेन नवधा परिकीर्तितम् ।
दिव्यसिद्धमानवौघो दक्षिनामूर्तिशङ्करः ॥४॥
आनन्दभैरवः कालश्चातिकालक्रमेण च ।
आनन्दभैरवमते पञ्चाशीतिगुरुक्रमः ॥५॥
दक्षिणामूर्तिसंमत्या भेदत्रितयमेव च ।
दशविद्याक्रमेणैव दश भेदाः पुरोदिताः ॥६॥
परतो शिवनिर्वाणं षट्शाभ्भवक्रमेण च ।
कादिहादिक्रमेणैव रश्मिपुंशक्तिभेदतः ॥७॥
षट्सहस्रं वेदशतं चतुःषष्टिः प्रकीर्तितः ।
प्रकृतौ विद्यमानायां विकृतिर्न बलीयसी ॥८॥
सम्प्रदायत्रयं देवि प्रकृतिस्थानगोचरम् ।
तत्त्वमुद्रा मकाराख्या भेदेन त्रितयं भवेत् ॥९॥
दुग्धं वृन्ताककं देवि सूरणं दुग्धमांसकम् ।
कुमारी पञ्चपञ्चत्वमक्षरान्ते प्रकीर्तितम् ॥१०॥
x x x x सम्पूज्य न विकारं समाचरेत् ।
बालायां तरुणायां च बालां सम्पूज्य पञ्चमम् ॥११॥
मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ।
मकारपञ्चकं प्रोक्तं देवताप्रीतिकारकम् ॥१२॥
गुडार्द्रकरसो देवि मुद्रा तु प्रथमा मता ।
पिण्याकं लवणं देवि द्वितीया परिकीर्तिता ॥१३॥
लशुनं तित्तिडी चैव तृतीया परिकीर्तिता ।
सूर्यमण्डलसंकाशा चन्द्रमण्डलसन्निभा ॥१४॥
गोमूधमाषसभ्भूता सुन्दरी च चतुर्थिका ।
शक्त्यालापः पञ्चमी स्यात्पञ्चमुद्राः प्रकीर्तिताः ॥१५॥
श्रीदेव्युवाच ।
मुद्रा नाम तु किं जातं तत्त्वं किन्नामकं भवेत् ।
मकाराः किंस्वरूपाश्च सर्वं कथय शङ्कर ॥१६॥
श्रीशिव उवाच ।
रहस्यं कथ्यते देवि श्रृणु यत्नेन साम्प्रतम् ।
महादेव्या यथा प्रोक्त तद्रूपं ब्रूयते यथा ॥१७॥
तद्रूपधारणान्मुद्रा तद्रूपाद्विकृतिर्भवेत् ।
विना मार्गं महेशानि गतिश्चैव कथं भवेत् ॥१८॥
मार्गप्रदर्शनाद्देवि गतिः सर्वत्र दृश्यते ।
तन्मार्गदर्शनार्थं हि मकाराः पञ्च कीर्तिताः ॥१९॥
ज्ञात्वा फलमवाप्नोति नात्र कार्या विचारणा ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥२०॥
एते पञ्च मकाराश्च पञ्च नामप्रकारकाः ।
आत्मविद्या शिवा सर्वा पूर्णेति पञ्चमं विदुः ॥२१॥
पञ्च तत्त्वानि देवेशि केरले कीर्तितानि च ।
पञ्चमुद्रानामधरास्त्यानन्दो वच्मि संश्रृणु ॥२२॥
ब्रहमी च वैष्णवी रौद्री ईश्वरी श्रीः सदाशिवा ।
पञ्च मुद्राः समाख्यातास्तत्त्वनामधराः शिवे ॥२३॥
सन्तर्प्य कुण्डलीं शक्तिंः पञ्च मुद्राविधानतः ।
अलिना पिशिनं मीनं मुद्रा मैथुनमुत्तमम् ॥२४॥
मकारपञ्चकं यत्र तत्र देवी न संशयः ।
न मद्यं माधवीमद्यं मद्यं शक्तिरसोद्भवम् ॥२५॥
सुसुम्ना शङ्खिनी मुद्रा उन्मन्यनुत्तमं रसः ।
सामरस्यामृतोल्लासं मैथुनं च सदाशिवम् ॥२६॥
महाकुण्डलिनी शक्तिस्तद्योगार्थं महेश्वरि ।
शक्तिः प्रोक्ता महेशानि न भोगार्थं मयेरिता ॥२७॥
कुण्डलीसामरस्यार्थं स्वयभ्भूलिङ्गमीरितम् ।
एतदभ्यासयोगेन कुण्डलीरसवान् भवेत् ॥२८॥
श्रीदेव्युवाच ।
कुण्डली कीदृशी देव तद्रसः कीदृशो भवेत् ।
श्रीशिव उवाच ।
अवाच्यं यद्भवेद्वच्मि तद्रसस्तु यथा भवेत् ॥२९॥
तथा समरसानन्दरसः सङ्कीर्तितो मया ।
अज्ञानादपि देवेशि भोगवसनयाsपि च ॥३०॥
फलं संसारजं देवि गर्भरूपेण जाग्रति ।
ज्ञात्वा फलमवाप्नोति त्रैलोक्यविजयी भवेत् ॥३१॥
तस्मात्तु पञ्चमी मुद्रा कीर्तिता तु मया तब ।
संयोगामृतयोगेन कुण्डल्युत्थानकारणात् ॥३२॥
चान्द्रपात्रे यदा याति तन्मद्यं परिकीर्तितम् ।
मणिपूरे दशदलेम सुषुम्नायां यदा गतिः ॥३३॥
तत्करामृतयोगाद्धिं द्वितीया परिकीर्तिता ।
हृत्पद्मद्वादशारे तु शंखिनी कूर्मसंस्थिता ॥३४॥
सुधासागरक्रीडायां मत्स्यस्तत्र प्रकीर्तितः ।
मुद्रा तृतीया गदिता चतुर्थी षोडशच्छदे ॥३५॥
चन्द्रसूर्याग्निसंभिन्ना वर्तुला बिन्दुगर्भिता ।
भगध्वजाख्यचणकैर्घटिका तु चतुर्थिका ॥३६॥
पञ्चमुद्रा मया प्रोक्ता मोक्षभावफलाप्तये ।
मकारपञ्चकेनैव ज्ञानमेतस्य जायते ॥३७॥
मकाररूपमार्गो हि कीर्तितस्ते मया तव ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३८॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुद्रासङ्केतकं  नाम द्वात्रिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:36.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धैर्यावांचून प्राप्तीची इच्छा खोटी

  • आपल्या अंगांत जर धैर्य नसेल तर कोणतीहि गोष्ट प्राप्त करुन घेण्याची आशा करुं नये. 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site