संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनत्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनत्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि ब्रह्ममार्गक्रमं शिवे ।
श्रीशिव उवाच ।
नेत्रयोः कज्जलं देयं सिन्दूरेण त्रिपुण्द्रकम् ॥१॥
हरिद्रा भ्रूयुगे देया श्वेतपत्रं समाचरेत् ।
रक्तबिन्दुञ्च तन्मध्ये सर्वदां तद्गतो भवेत् ॥२॥
भोजने शयने रात्रौ x x x सर्वदा जपेत् ।
उच्छिष्टहस्ते देवेशि उच्छिष्टेन बलि हरेत् ॥३॥
शक्त्युच्छिष्टं परोच्छिष्टं भुजानः सार्वकालिकम् ।
जपं कुर्यान्महेशानि रात्रावेव जपं चरेत् ॥४॥
ताम्बूलभक्षणं कृत्वा ताम्बूलानि च होमयेत् ।
ताम्बूलभक्षी मांसाशी भुक्त्वा शौचं न कारयेत् ॥५॥
गृहं प्रलिप्य यत्नेन मार्जन्या मार्जनं चरेत् ।
प्रजपेद्यत्नतो देवि नान्यथा सिध्यति ध्रुवम् ॥६॥
उच्छिष्टहस्ते देवेशि स्वदेहं प्रोक्षयेत्सदा ।
उच्छिष्टहस्तः प्रजपेत् ब्रह्ममार्गः प्रकीर्तितः ॥७॥
ब्रह्ममार्गक्रमो देवि गदितस्तु मया तव ।
अन्येन क्रमयोगेन सिद्धमार्गक्रमी भवेत् ॥८॥
सिद्धविद्या प्रसन्ना स्यात्प्रत्यक्षा वरदायिनी ।
सुरेन्द्रोsपि च दासः स्यान्मनुष्याणां च का कथा ॥९॥
रहस्यं कथितं भद्रे गोपनीयं स्वयोनिवत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥१०॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ब्रह्ममार्गक्रमो नाम एकोनत्रिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP