संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तपंचाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तपंचाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
पूर्वोक्तसर्वमालानां फलं भवति किं वद ।
कियत्काले च देवेश तदद्य कथ्यतां त्वया ॥१॥
श्रीशिव उवाच ।
रहस्यातिरहस्यञ्च कथ्यते शृणु सादरम् ।
रुद्राक्षमालाजापे तु दशवर्षेण वै फलम् ॥२॥
स्फाटिके रुद्रवर्षेण पद्माक्षे नंदवर्षतः ।
प्रवाले सूर्यवर्षेण पद्माक्षे परमेश्वरि ॥३॥
कामवर्षेण देवेशि पुत्रजीव्यां श्रृणु प्रिये ।
भूतवर्षेण फलदा गुंजाख्ये वसुवर्षतः ॥४॥
रक्तचन्दनजायां तु सप्तवर्षात् फलं भवेत् ।
रौप्ये तु युग्मवर्षेण स्वर्णे वर्षैस्त्रिवेदिकैः ॥५॥
पञ्चविंशतिवर्षेण ताम्राख्ये फलमीरितम् ।
अकस्मादीप्सिता सिद्धिर्महाशंखाख्यमालया ॥६॥
महाशंखेsप्यशक्तश्चेत् स्फटिक्या मालया जपेत् ।
दन्ताक्षमालया देवि दशाहेन फलं स्मृतम् ॥७॥
अङ्गुलिपर्वमालायां सप्ताहेन फलं लभेत् ।
महाशंखाख्यमालायां सूर्याहेन फलं ध्रुवम् ॥८॥
भद्राक्षैः षोडशाहेन माहेन्द्राक्षेsपि पूर्ववत् ।
माणिक्ये पञ्चवर्षेण रत्ने वर्षाष्टकेन च ॥९॥
अस्थिभिः पक्षमात्रेण फलं भवति पार्वति ।
चण्डघण्टाविधौ देवि नरास्थिमालिका स्मृता ॥१०॥
एकाक्षरी छिन्नमस्ता चण्डघण्टा प्रकीर्तिता ।
न रुद्राक्षैर्न पद्माक्षैश्चण्डघण्टाविधौ शिवे ॥११॥
इतोsप्युग्रा नान्यविद्या न कदाचिद् भविष्यति ।
सिद्धिर्वा मृत्युरपि वा द्वयोरकेतरं भवेत् ॥१२॥
ताराबीजं तथा काल्याः शक्तिछिन्नामनुर्भवेत् ।
बीजदैवेतयोगेन अधिप्रत्यधियोगतः ॥१३॥
अधिष्ठात्री महेशानि तथा प्रत्यधियोगतः ।
नरास्थिमालिका शक्तिः सर्वकार्यकारी स्मृता ॥१४॥
त्रिशक्तिमन्त्रं रुद्राक्षैर्न दिवा प्रजपेच्छिवे ।
स दुर्गतिमवाप्नोति जापस्तस्य निरर्थकः ॥१५॥
शक्तौ स्त्रीषु च मन्त्रेषु रुद्राक्षैर्न जपेद् बुधः ।
पीताक्षै रसवर्षेण फलं भवति पार्वति ॥१६॥
कुण्डलीमालिका देवि भैरव्यां परिकीर्तिता ।
स्वयम्भूमालिका देवि स्वजातक्रमयोगतः ॥१७॥
या प्राप्ता विधिना देवि पञ्चाहेन फलप्रदा ।
खरदन्तैर्वेदवर्षैर्गजदन्तैर्द्विवेदतः ॥१८॥
राजदन्तेsप्यशक्तश्चेद् गजदन्तेन वै जपेत् ।
कुलवृक्षस्य बीजैश्च मासाद्भवति वै फलम् ॥१९॥
कुशग्रन्थ्या वर्षयुग्मैः फलमत्र प्रकीर्तितम् ।
नारिकेलमयी माला प्रोक्ता कापालिनीविधौ ॥२०॥
प्रत्यक्षमुण्डमालेयं षण्मासेन फलप्रदा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालाफलप्रकथनं नाम सप्तपंचाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP