TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
सप्तदशः पटल ।

श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तदशः पटल ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


सप्तदशः पटल ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीशिव उवाच ।
रहस्यमपि देवेशि यन्न कस्यापि कीर्तितम् ॥१॥
तदेव कथ्यते देवि यथावदवधारय ।
ग्रहणं द्विविधं देवि बाह्याभ्यन्तरभेदतः ॥२॥
चन्द्रकोटिनिकायाङ्गं भवेदाभ्यन्तराभिधम् ।
भावयोगात् क्रियायोगाद् द्विधा तत्रापि पार्वति ॥३॥
भावयोगो भवेच्छाक्ते क्रिया योगविधौ स्मृता ।
बाह्यं श्रृणु महेशानि सूर्यचन्द्रक्रमात् द्विधा ॥४॥
सूर्ये भेदत्रयं देवि चन्द्रे भेदत्रयं तथा ।
सूर्योपरागो ग्रस्तास्तस्त्था ग्रस्तोदयः स्मृतः ॥५॥
चन्द्रेsपि भेदत्रितयं शाक्तावपि त्रिधा त्रिधा ।
सार्धद्वयाङ्गुलोत्तरं ग्रस्तास्तत्वं प्रकीर्तितम् ॥६॥
स्पर्शयुक्ते स्फुटत्वं च यस्मिन्काले प्रजायते ।
स कालोsक्षयरूपेण पुरश्चरणकर्मणि ॥७॥
चन्द्रसूर्यग्रहे देवि ग्रस्तावधि विमुक्तितः
यावत्सङ्खयं मनुं जप्त्वा तावद्धोमादिकं चरेत् ॥८॥
पञ्चाङ्गं तावदेवस्याज्जपहोमौ समौ स्मृतौ ।
सिद्धेश्वरीमतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥९॥
अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।
सूर्यचन्द्रोपरागे तु नाभिमात्रोदके स्थितः ॥१०॥
ग्रासाद्विमुक्तिपर्यन्तं जपं कुर्यान्महेश्वरि ।
तदृशांशं होमयेद्धि तद्दशांशैस्त्रयं क्रमात् ॥११॥
दृष्टस्पर्शपुरश्चर्य्यां दृष्टमुक्तौ समापनम् ।
अनेन क्रमयोगेन सर्वसिद्धीश्वरो भवेत् ॥१२॥
चन्द्रसूर्योपरागे तु नाभिमात्रोदके स्थितः ।
नद्यां समुद्रगामिन्यां तडागे सङ्गमेsपि वा ॥१३॥
एकाङ्गुष्ठोपरि स्थित्वा ग्रासावधि विमुक्तितः ।
पञ्चाङ्गां चाथ वाष्टाङ्गां दशाङ्गाख्यां पुरस्क्रियाम् ॥१४॥
कुर्याद्यत्नेन देवेशि सर्वसिद्धीश्वरो भवेत् ।
शास्त्रदृष्ट्या समालोक्य स्नानदानादिकाः क्रियाः ॥१५॥
कर्तव्याध प्रयत्नेन नात्र कार्या विचारणा ।
शास्त्रदर्शनस्तु सन्दर्शः प्रत्यक्षे पूर्णरूपता ॥१६॥
सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते ।
मलापकर्षणं स्नानं कृत्वा पूर्वं विशालधीः ॥१७॥
मुच्यमाने भवेद्दानं ग्रस्ते स्नानं प्रकीर्तितम् ।
स्नानं मन्त्रोदितं कृत्वा तर्पणं त्वधिकारतः ॥१८॥
सन्ध्यां तात्कालिकीं कृत्वा विमोक्षान्तं जपं चरेत् ।
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥१९॥
ऋतुस्नातां स्त्रियं ज्ञात्वा सूर्यचन्द्रग्रहान्तरे ।
प्रतिपार्वणमासाद्य पिण्डं तस्यै प्रदापयेत् ॥२०॥
वन्ध्यापुत्रप्रदो योगः सर्वसिद्धिप्रदायकः ।
सूर्योपरागे देवेशि स्नात्वा पूजां समाचरेत् ॥२१॥
साङ्गां सावरणां पूज्य सबल्यन्तं महेश्वरि ।
कुमारीपूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् ॥२२॥
सूर्योपरागे संप्राप्ते स्नात्वा पूज्य महेश्वरि ।
तुला ब्रह्माण्डदानादि यथाशक्तया समाचरेत् ॥२३॥
सूर्योपरागे संप्राप्ते स्नात्वा पूज्य महेश्वरि ।
चन्द्रसूर्यग्रहे देवि शतसख्यां कुमारिकाम् ॥२४॥
पूज्य सिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।
सूर्यग्रहे महेशानि काम्यहोमं चरन् शिवे ॥२५॥
तर्पणं कुरुते यस्तु तस्य श्रीः सर्वतोमुखी ।
मार्जनं तु प्रकर्तव्यं सर्वदुःखप्रशान्तये ॥२६॥
सूर्यग्रहे समायाते परिधिर्यदि वै भवेत् ।
पारिभद्राभिधो योगः सर्वसाम्राज्यदायकः ॥२७॥
अल्पदृष्टे दिशा देवि मध्यग्रासे महेश्वरि ।
मेघाच्छन्ने मुक्तिकाले स्नानदानादिकं चरेत् ॥२८॥
जपमात्रं विधातव्यं मध्यग्रासे तु सूर्यवत् ।
तारापिण्डग्रहे प्राप्ते तथा सूर्यग्रहेsपि च ॥२९॥
जपादिकं विधातव्यं शक्तिपूजां ततश्चरेत् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥३०॥
तारापिण्डोपरागे तु गुरुं सम्पूज्य देववत् ।
सन्तोष्य तद्वरो ग्राह्यः सर्वसिद्धीश्वरो भवेत् ॥३१॥
तारापिण्डग्रहे प्राप्ते शवमानीय साधकः ।
शवासने जपेद्देवि ग्रासानुग्रासतः शिवे ॥३२॥
सर्वसिद्धीश्वरो भूयात्तदन्ते शिवतां व्रजेत् ।
सूर्योपरागे सम्प्राप्ते शुचिः पूर्वमुपोषितः ॥३३॥
ग्रासाद्विमुक्तिपर्यन्तं देहमांसानि होमयेत् ।
सर्वसिद्धीश्वरो भूयाद्देवतां पश्यति प्रिये ॥३४॥
सूर्यग्रः शिवः प्रोक्तश्चन्द्राख्यः शक्तिरेव च ।
सूर्यग्रहे शक्तिदीक्षां पशुदीक्षां न कारयेत् ॥३५॥
चन्द्रग्रहे विष्णुदीक्षां पाञ्चरात्रं न कारयेत् ।
चन्द्रसूर्यग्रहे दीक्षा सर्वदीक्षा शुभा मता ॥३६॥
चन्द्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमोत्तमा ।
न वारतिथिऋक्षादि न मासनियमस्तथा ॥३७॥
न योगकारणं वापि न विचारं समाचरेत् ।
दमनोत्सवे च श्रावण्यां ग्रहणं यदि जायते ॥३८॥
समन्त्रश्च पुरश्चर्याविहीनोsपि प्रसिद्धति ।
चन्द्रसूर्यग्रहकालात् नान्यः कालः प्रशस्यते ॥३९॥
चन्द्रग्रहे पुरश्चर्या सर्वसिद्धिकरी मता ।
घटिकार्धपूर्वमेव ग्रहणं परिवर्तते ॥४०॥
तदा स्नानं विधातव्यं ग्रस्ते सङ्कल्पमाचरेत् ।
विमोक्षान्तं जपं कुर्यात्सम्यक्ज्ञाते समापनम् ॥४१॥
सूर्याच्छादनमायाते घटिकार्द्धं विचारयेत् ।
ततः समापनं कुर्यात्सिद्धो मन्त्रो भवेद्ध्रुवम् ॥४२॥
प्रमादात् गमिते योगे वसुविप्रान् प्रभोजयेत् ।
यद्यदङ्गं विहीयेत तत्साङ्गे द्विजभोजनम् ॥४३॥
दशांशं हवनं कुर्य्यात्तर्पणं तद्दशांशतः ।
मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् ॥४४॥
तद्दशांशं विप्रभोज्यं देवरूपो नरो भवेत् ।
यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ॥४५॥
द्वित्रिवेदवाणभेदैर्विप्रादीनां क्रमेण च ।
अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ॥४६॥
चन्द्रसूर्योपरागे तु मेरुसाधनमाचरेत् ।
दुष्ठमन्त्रोsपि देवेशि क्रमेण सिध्यति ध्रुवम् ॥४७॥
अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।
सूर्योपरागे देवेशि शुद्धान्तःकरणो यती ॥४८॥
स्नात्वा यथोक्तविधिना सम्पूज्य जगदम्बिकाम् ।
शिरःपुष्पं कर्त्तयित्वा देवतायै निवेदयेत् ॥४९॥
देवतां पश्यति शिवे वरदानपरां ध्रुवम् ।
सूर्योपरागे सम्प्राप्ते स्नात्वा प्रोक्तेन वर्त्मना ॥५०॥
शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ।
मद्यैर्मांसैस्तथा मत्स्यै x x x x x मृतैरपि ॥५१॥
देवतां तत्र सम्पूज्य साङ्गां सावरणां शिवे ।
तत्र जिह्वां प्रदत्त्वा तु जपा त्त्रैकाल्यविद्भवेत् ॥५२॥
अतीतानागतज्ञानं वर्तमानं च पश्यति ।
सूर्यग्रहे महेशानि x x मानीय सादरम् ॥५३॥
x x x x परिस्थाप्य जपेद्यत्नेन पार्वति ।
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥५४॥
ग्रस्तोदयविधिर्देवि ग्रस्तास्तनिर्णयस्तथा ।
पूर्वमेव मया प्रोक्तः शक्तियोगक्रमे शिवे ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ग्रहणलक्षणं नाम सप्तदशः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जोगण्या लागणें

  • (व.) दहशत बसणें 
  • धाक वाटणें 
  • धास्‍ती बसणें. 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site