TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनसप्ततिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनसप्ततिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


एकोनसप्ततिः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
गोपितं कोटिशास्त्रेषु रहस्यं कथ्यतां प्रभो ॥१॥
श्रीशिव उवाच ।
रहस्यमपि देवेशि कथ्यते शृणु साम्प्रतम् ।
कालरात्रिर्महारात्रिर्वीरमोहोsपि पार्वति ॥२॥
ग्रहणे संक्रमे वापि शनिभौमदिनेsथवा ।
रणवीरं महावीरं तथा पाशगतं प्रिये ॥३॥
शूलवीरं वेषवीरं आवेशभैरवं तथा ।
एतत्स्थाने नरो धीरः सर्वमन्त्रपरायणः ॥४॥
दीपोत्सवचतुर्दश्यां फाल्गुनोत्सवकेsपि च ।
वीरवेषं समासाद्य मुक्तकेशो दिगम्बरः ॥५॥
सिन्दूरकूर्चतिलकः सुरासम्बित्परदायकः ।
सामग्रीं पूर्ववत्कृत्वा मुण्डग्रहणमाचरेत् ॥६॥
शूलारोपितवीराग्रे तथा पाशगतेsपि वा ।
गत्वा यत्नेन देवेशि शिवपूजापुरःसरम् ॥७॥
शिवामभ्यर्च्य यत्नेन ततो वीरं प्रपूजयेत् ।
फाल्गुनोत्सवके प्राप्ते पताकां कामरूपिणीम् ॥८॥
कृत्वा संपूज्य यत्नेन नववर्णमयीं च ताम् ।
अथवा काममूर्तिं वा कृत्वा यत्नेन पूजयेत् ॥९॥
एकस्मिन्समये शम्भुं जपजापपरायणम् ।
दृष्ट्वा कामोsतिदुर्वृत्तो बालभावपरायणः ॥१०॥
होढानाम्नीं महामायां राक्षसीं पर्यकल्पयत् ।
वसन्तकाले संप्राप्ते तपस्याभङ्गहेतवे ॥११॥
राक्षसीमायया देवाः पीडया चातिविव्हलाः ।
होढायै वरदानं च ब्रह्मणा पूर्वमीरितम् ॥१२॥
महादेवतपस्यान्ते तव मृत्युर्भविष्यति ।
इति दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत् ॥१३॥
ब्रह्मणो वरसंप्राप्ता राक्षसी देववेदना ।
देवयागध्वंसपरा भर्त्सने दूरगामिनी ॥१४॥
ईदृशीं राक्षसीं वीक्ष्य ऋषयो देवकिन्नराः ।
ब्रह्मप्रभृतयो देवाः श्रीविष्णुसन्निधौ ययुः ॥१५॥
श्रीब्रह्मोवाच ।
पुराणपुरुष स्वामिन्देवताप्रतिपालक ।
होढ्या पीडिता देवास्तत्रोपायं वद प्रभो ॥१६॥
श्रीनारायण उवाच ।
शृणुध्वं मुनयः सर्वे काममन्त्रः प्रजप्यताम् ।
श्रीशिव उवाच ।
अवतीर्णोsभवत्कामः शंभुध्यानविनाशनः ॥१७॥
तत्रैव वह्निना कामो भस्मीभूतः क्षणेन तु ।
मलादितस्ततः कामो होढायोनौ प्रवेशितः ॥१८॥
शिववह्निस्तत्र गत्वा द्वयोर्दहनतत्परः ।
अन्तर्भूतस्ततः कामस्त्वनङ्गनामतां गतः ॥१९॥
अपशब्दपरा होढा तेन दूरतरं गता ।
दीपोत्सवे दीपदानं फाल्गुन्यां होढिकार्च्चनम् ॥२०॥
द्वयं न कुरुते यस्तु सर्वापि निष्फला क्रिया ।
कीटादि ब्रह्मपर्यन्तं जन्तुमात्रस्य पार्वति ॥२१॥
वसन्तकाले सम्प्राप्ते बुद्धिरन्या भवेद् ध्रुवम् ।
रक्तमातृप्रदोषेण दुःखिताः संभवन्ति च ॥२२॥
तद्दोषशमनार्थं तु फाल्गुन्यां सर्वपूजनम् ।
रक्तमाता प्रकर्तव्या लगुडान् विविधान्क्षिपेत् ॥२३॥
चत्वारिंशतिवादित्रैः सम्पूज्योत्सवमाचरेत् ।
दीपोत्सवो यथा प्रोक्तस्तथैव फाल्गुनोत्सवः ॥२४॥
नवरात्रद्वयं यद्वत् तद्वदेतद्द्वयं मतम् ।
नानाविधा वर्णरूपा दीपा दीपोत्सवे मताः ॥२५॥
नानागन्धाष्टकैर्देवि होढाग्निं परिवर्त्तयेत् ।
तद्भस्म विकिरेद्देहे गेहे कार्मणनाशनम् ॥२६॥
दिनमन्यतमं ज्ञात्वा शूलवीरसमीपगः ।
पञ्चगव्यं पुरा दत्त्वा ततः पञ्चामृतं चरेत् ॥२७॥
सम्विद्दुग्धं सर्वमद्यं सर्वमांसानि पार्वति ।
नानमत्स्यास्तथाभक्ष्यभोज्यादीन्यपि पार्वति ॥२८॥
सुरया स्नानमासाद्य नाना शृङ्गारमाचरेत् ।
पादद्वये दीपमालां दापयेज्जाग्रताप्तये ॥२९॥
तत्पादयोस्तु फाल्गुन्यां दीपां बहुलिकां च वा ।
कृत्वादौ जागृयाद्वीरं तदंते खङ्गपूजनम् ॥३०॥
खङ्ग सम्पूज्य विधिवद्वाराहीसंहिताक्रमात् ।
स्वयं च कर्त्तयेद् वीरं ब्रह्माण्डबलिमर्पयेत् ॥३१॥
एवं संगृह्य मुण्डं तु मुण्डसाधनमाचरेत् ।
श्मशाने पर्वतप्रान्ते विपिने वा चतुष्पथे ॥३२॥
एकलिंगे रणे वापि मुण्डसाधनमाचरेत् ।
हस्तमात्रं खनित्वा च सदिग्बन्धपुरःसरम् ॥३३॥
सकामं चैव बल्यन्तं ततश्चैव जपं चरेत् ।
लक्षद्वयं ततो जप्त्वा पुरश्चर्यापुरःसरम् ॥३४॥
तदन्ते मुण्डमानीय कालीप्रत्यक्षसाधनम् ।
साधयेत्परमेशानि सकज्ज्वलपुरःसरम् ॥३५॥
तदन्ते यन्त्रपात्रे च मालिकां कारयेदपि ।
एवं साधितमुण्डानां माला सिद्धा भवेद् ध्रुवम् ॥३६॥
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालामुण्डसाधनं नामैकोनसप्ततिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:39.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

फुकट राग, भीक माग

  • ज्या मनुष्याला रागवायला कांहीं लागत नाहीं त्याला कोणी विचारीत नाहीं. विनाकारण रागावणार्‍याची समजूत कोण घालणार ? 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.