TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षट्त्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षट्त्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


षट्त्रिंशतिः पटलः ।
श्रीदेव्युवाच
शङ्कर श्रीमहादेव निशापूजां वद प्रभो ।
श्रीशिव उवाच
निशापूजा प्रकर्तव्या हेतुयुक्तः सदैव हि ॥१॥
निजं कुलं समादाय स्वयं भैरवरूपधृक् ।
कुलं च भरवीरूपं तद्गात्रे न्यासविस्तरम् ॥२॥
विन्यस्य सकलन्यासं नवयोन्यात्मकं तथा ।
प्रसूनतुलिकामध्ये पुष्पप्रकरसङ्कुले ॥३॥
नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् ।
लिखित्वा पूजयेच्छङ्खे घटस्थापनपूर्वकम् ॥४॥
स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ।
लिखित्वा तत्र कुम्भं च सौवर्णं राजतं तथा ॥५॥
ताम्रभूमिमयं वापि यद्वा लोहविवर्जितम् ।
स्थापयेत्कलया देवि कुम्भं गन्धसुवासितम् ॥६॥
हेतुद्रव्यं ब्राह्मणादिभेदतः परिपूजयेत् ।
तत्र मन्त्रं विलिख्यादौ यद्यत्कुलसमुद्भवम् ॥७॥
ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् ।
धेनुमुद्रां प्रदर्श्याथ अमृतं तद्विचिन्तयेत् ॥८॥
दृष्ट्वार्घ्यपात्रं नृत्यन्ति भैरवा मातरो गणाः ।
इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः ॥९॥
ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः ।
अर्व्यभाण्डं द्विधा कृत्वा गुरवे चैकभागकम् ॥१०॥
एकं गुरुं समादाय एकेन देवतर्पणम्‍।
पीत्वा कुलरसं देवि नानालङ्कारभूषितः ॥११॥
साक्षाद्यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् ।
आनन्दरूपवान् भूत्वा पूजयेत्परमेश्वरीम् ॥१२॥
स्वस्वकल्पोक्तविधिना तत्तद्यन्त्रे प्रपूजयेत् ।
विसर्जनं विधायाथ मन्त्रं वै प्रजपेत्ततः ॥१३॥
तद्धि स्वरसमानेन अमृतं भुज्यते मया ।
तच्चकोररसास्वादैः सम्यक् रसः प्रजायते ॥१४॥
तत्फलग्रहणादेव सुमेरोः श्रृङ्गरोहणम् ।
लतालिङ्गनमात्रेण सुधाधौतकलेवरः ॥१५॥
मूलयोगे कृते तत्र जपेद्दशसहस्रकम् ।
जपपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत्ततः ॥१६॥
विधाय तर्पणं देवि प्रदक्षिणमनुवचन् ।
प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोषयेत्ततः ॥१७॥
तस्मात्कुलं तथा योग्यं कृत्वा यत्नेन सञ्जपेत् ।
कुलं शक्तिः समाख्याता तस्याः पूजादि कथ्यते ॥१८॥
कुलाचारः स विज्ञेयो देवानामपि दुर्लभः ।
कुलीनो जायते यस्मात्तत्कथं कथयामि ते ॥१९॥
कुले साक्षाद्यतस्तत्त्वं स्वयं तिष्ठति तत्त्वतः ।
मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ॥२०॥
एभिरेव कृता पूजा कुलाचारः प्रकीर्त्तितः ।
तेन तत्कुलशास्त्रज्ञैः पूजनीयः प्रयत्नतः ॥२१॥
कुलं चात्मकुलं वापि निश्चलं यस्य वर्तते ।
स धन्यः स च विज्ञानी कुलरूपः स एव च ॥२२॥
कुलदीक्षा यत्कुले स्यात्स शिवः परिकीर्तितः ।
यथा काली तथा तारा यथा श्रीर्भैरवी तथा ॥२३॥
समपूजादिकं सर्वं प्रयोगं भावलक्षणम् ।
वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव ॥२४॥
इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ।
सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः ॥२५॥
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशने ।
अनाचारान्मधुपान् चक्रस्थान् शक्तिकौलिकान् ॥२६॥
शिवगौरीधिया देवि भावयेन्नावमानयेत् ।
कुलाचारगृहं गत्वा भक्त्या पापविशुद्धये ॥२७॥
याचयेदमृतं चान्नं तदभावे जलं पिबेत् ।
कुलाचारेण यद्द्रव्यं सर्वं दत्तं तु भक्तितः ॥२८॥
नमस्कृत्य तु गृह्नीयादन्यथा नरकं व्रजेत् ।
पूर्वोक्तं देवदेवेशि न सिद्धं स्यात्स्त्रियं विना ॥२९॥
स्त्रीसमीपप्रदेशो हि कामरूपाधिकस्तव ।
श्रीदेव्युवाच ।
पुरश्चरणलक्षैर्वा होमानामपि कोटिभिः ॥३०॥
कोटिहोमदक्षिणाभिस्तस्मात्पूजनविस्तरैः ।
न च सिद्धिं समायाति वनितासन्निधिं विना ॥३१॥
वनितासु सदा नाथ निवसामि निरन्तरम् ।
वाराणसी कामरूपं जालन्धरमथापि वा ॥३२॥
अथवान्यानि पीठानि शाम्भवाख्यानि शङ्कर ।
षट्चक्रं षोडशाधारं त्रितयं व्योमपञ्चकम् ॥३३॥
कुलचक्रे महादेव सर्वं नित्यं प्रतिष्ठति ।
इतोsपि किं महत्पुण्यं वक्तुं शक्नोमि शङ्कर ॥३४॥
कदाचिद्वनिता वापि वनिता वत सन्निधिम् ।
विग्रहे नैव शक्नोमि देही देहं यथा प्रमो ॥३५॥
यादृशी तादृशी वापि व्याधिदारिद्र्यपीडिता ।
विरूपा वा सुरूपा वा वनिता मम विग्रहा ॥३६॥
मयि स्याद्यादृशी भक्तिः साधकानां निरन्तरम् ।
नूनमेतादृशी कुर्याद्योषिन्मात्रेsपि साधकः ॥३७॥
या नारी रूपसम्पन्ना सुदृशा गन्धशालिनी ।
मम तस्याः परिज्ञेया शेषा तु शक्तिरीश्वरी ॥३८॥
बालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा ।
कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् ॥३९॥
सर्वावस्थासु देवेशि योषिद्वन्द्या तु साधकैः ।
समस्तमन्त्रसिद्धीनां सर्वस्वरूपमङ्गला ॥४०॥
साक्षाद्वा मनसा वापि नारी पूज्यैव दर्शनात् ।
कदा च न कटूक्त्या तु सम्भाव्या वनिता जनैः ॥४१॥
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम्
तद्धस्तरचितः भोज्यं तद्धस्तरचितं जलम् ॥४२॥
तद्धस्तरचितं पुष्पं देवताभ्यो निवेदयेत् ।
तत्सङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि ॥४३॥
x x र्देया न कुत्रापि साधकेन वधूः क्कचित् ।
प्रत्यक्षदृष्टदोषेपि स्वस्त्रियो वा परस्त्रियः ॥४४॥
सकृदपि न वक्तव्यो निन्दयेन्मनसापि न ।
पूर्ववद्वयवहर्तव्या सर्वदा साधकेन सा ॥४५॥
मम निन्दा मम द्वेषो मम हिंसा ममार्दनः ।
गुरुनिन्दा गुरुद्वेषो गुरुहिंसा तथैव च ॥४६॥
साधकेन वरं कार्यं वनितां नैव निन्दयेत् ।
वरं पूजां न कुर्वीत वरं बलिं परित्यजेत् ॥४७॥
कुलाचारं कुलद्रव्यं कुलपंक्तिं वरं त्यजेत् ।
तथापि नैव योषाणां निन्दायां मानसं चरेत् ॥४८॥
किमिहोक्तेन बहुना वरं त्याज्यो भवेन्मनुः ।
तथापि नैव कर्तव्यं वनितानिन्दनादिकम् ॥४९॥
मातृवत्पूजयेन्नित्यं मातृवद्भावयेत्सदा ।
साधकप्राणदानेन प्रीतिः साद्यदि कामिनी ॥५०॥
प्राणान् दत्त्वापि कर्तव्या सुप्रीतिरनपायिनी ।
स्वयं देहं समुत्सृज्य मोक्षमान्पोति शाश्वतम् ॥५१॥
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः ।
स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात्कुलजां शुभाम् ।
नारीं सम्पूजयेन्नित्यमुपभोगं न कारयेत् ॥५२॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे निशापूजाकथनं नाम षट्त्रिंशतिः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:36.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुग्राई

  • सुगरण इ० पहा . 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site