TransLiteral Foundation
संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षोडशः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षोडशः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


षोडशः पटलः ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि नवरात्रस्य निर्णयम् ।
नवरात्रे समायाते किं कर्तव्यं च तद्वद ॥१॥
नवरात्रीति किन्नाम कथं जातं किमात्मकम् ।
श्रीशिव उवाच ।
नवशक्तिभिः सयुक्तं नवरात्रं तदुच्यते ॥२॥
एकैव देवदेवेशि नवधा परिनिष्ठिता ।
शयनं बोधनाख्यं च नवरात्रं द्विधा भवेत् ॥३॥
शयनं चैत्रमासीयमाश्विनस्थं तु बोधनम् ।
द्वाभ्यां तु समुपोष्यैव सर्वसिद्धिं लभेन्नरः ॥४॥
निराहारी फलाहारी त्वेकभक्तो दृढव्रतः ।
नक्तभोजी हविष्याशी यथाशक्तया समाचरेत् ॥५॥
नवरात्रव्रतासक्तो नवनाथो भवेद्ध्रुवम् ।
गौडकाश्मीरद्रविडमार्गेण त्रिविध भवेत् ॥६॥
अमायुक्ता न कर्तव्या प्रतिपक्तालिकार्चने ।
अष्टम्यन्तं समाचर्य ततोsष्टम्यान्तु होमयेत् ॥७॥
अर्धरात्रे समायाता मूलविद्याsपि पार्वति ।
साsष्टमी सर्वकार्याणां कर्ती भवति निश्चितम् ॥८॥
होमपूजादिकं तत्र कुर्याद्यत्नेन पार्वति ॥
द्वितीये दिवसे चेत्स्यात्तदेवोपोषणं चरेत् ॥९॥
प्रतिपद्युक्तमल्पं वा यदि न स्यात्परेsहनि ।
अमायुक्तं तदा कुर्यात्त्यक्त्वा षोडशनाडिकाः ॥१०॥
घटिकाः षोडश त्याच्या आद्याः प्रतिपदस्तु याः ।
कलशस्थापनं कुर्यात्कल्याणं जायते ध्रुवम् ॥११॥
नवम्यां पारणं कुर्याद्दशम्यां तु विसर्जनम् ।
काश्मीराख्यक्रमं देवि श्रृणु यत्नेन पार्वति ॥१२॥
नवरात्रं निराहारो होमोsष्टम्यां समाचरेत् ।
नवम्यां विप्रभोज्यं स्याद्दिग्वेधे पारणां चरेत् ॥१३॥
नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः ।
अष्टमीनवमीसन्धौ होमsष्टम्यां समाचरेत् ॥१४॥
नवम्यां विप्रभोज्यं साद्दशम्यां पारणं चरेत् ।
केरलाख्यः क्रमः प्रोक्तो निर्णयं श्रृणु पार्वति ॥१५॥
तिथिक्षये तथा वृद्धौ यथोक्तेन तु वर्त्मना ।
अष्टमीनवमीप्राप्तौ पूर्ववेधे न दुष्यति ॥१६॥
अष्टम्यामर्धरात्रौ तु यत्किञ्चित्कुरुते नरः ।
तत्तदक्षय्यमायाति नवदुर्गाप्रयोगतः ॥१७॥
एकोत्तरप्रवृद्ध्या वा स्तोत्रजापदिकं चरेत् ।
प्रथमेsन्हि कृतं यावत्तावत्कुर्याच्च वा सुधीः ॥१८॥
उदयास्तमयं जप्त्वा त्रैलोक्यविजयी भवेत् ।
नवरात्रव्रते स्त्रीणा x x योगो यदा भवेत् ॥१९॥
सैव देवी न सन्देहस्ताम्पूज्य विजयी कलौ ।
ताम्बूलागुरुकस्तूरीदिव्याम्बरविभूषणैः ॥२०॥
शक्तीनां नवरात्रादौ ताम्बूलभक्षणं सदा ।
सूर्योदयं समारभ्य पुनः सूर्योदयान्तरम् ॥२१॥
ताबज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ।
एकासनगतो भूत्वा नवरात्रं तु शाम्भवीम् ॥२२॥
मुद्रामालम्बयेद्देवि नवनाथाधिपो भवेत् ।
गृहारामे च कर्तव्या निर्जने पर्वतेsपि वा ॥२३॥
अधोमुखं वा देवेशि नवरात्रं निरम्बुभुक् ।
स्वमाच्छाद्य मृदा देवि तत्र संस्थापयेद् घटम् ॥२४॥
यवाङ्कुरान्समारोप्य शाम्भवीं मुद्रिकां चरेत् ।
दृढासनी वास हयनी यथादिष्टं समाचरेत् ॥२५॥
कापालिकावधूतानां व्रतमेतन्मयोदितम् ।
आज्ञा भवति देवेशि तदैवोपोषणं चरेत् ॥२६॥
आज्ञा यदि न जायेत तदा ग्रामाधिपस्य च ।
देशाधिपस्य विप्रस्य पूजकस्य स्त्रियस्तथा ॥२७॥
आज्ञां गृहीत्वा देवेशि वरं प्रार्थ्य सुखी भवेत् ।
भक्तप्रीता महादुर्गा स्वयमाज्ञां प्रयच्छति ॥२८॥
वीरशाक्तविधानेन चण्डदर्पव्रतं चरेत् ।
जिह्वां संप्रोथ्य यत्नेन द्विवेदरसनाङ्गुलम् ॥२९॥
पुनरायाति सा जिह्वा तेन सिद्धीश्वरो भवेत् ।
नवरात्रं समासाद्य महाष्टम्यां निशामुखे ॥३०॥
देवीं सम्पूज्य यत्नेन सङ्कल्पं कामनान्वितम् ।
शिरःपुष्पं कर्तयित्वा पूर्णमध्यकनिष्ठतः ॥३१॥
यन्त्रमध्ये निवेद्याsथ शिवतुल्यो भवेद्ध्रुवम् ।
पुनः शिरः समायाति महाचीनवरः स तु ॥३२॥
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।
नवरात्रं निराहारः श्रद्धाभक्तिसमन्वितः ॥३३॥
महाष्टम्यामर्धरात्रे अङ्गुष्ठात् मस्तकावधिः ।
मांसान् संकर्त्त्य यत्नेन यथोक्तं कुण्डमारमेत् ॥३४॥
होमयेत्तत्र देवेशि देवी प्रत्यक्षतामियात् ।
देवीदेहो भक्तेत्तद्धि नात्र कार्या विचारणा ॥३५॥
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।
नवरात्रं निराहारो गुरुभक्तो महाव्रती ॥३६॥
कुण्डं पुरुषमात्रं तु कृत्वा तत्र विशेषतः ।
पञ्चपल्लवकाष्ठानां वन्हिं तत्र समाचरेत् ॥३७॥
अङ्गष्ठान्मस्तकान्तं हि स्वदेहं होमयेद्ब्रती ।
अग्निशय्यां च वा कृत्वा देवीं पश्यति निश्चितम् ॥३८॥
न चापरक्रमेणैव लतागेहप्रवेशनात् ।
भवेत्कल्पलतातुल्यः साधको नात्र संशयः ॥३९॥
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।
नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः ॥४०॥
यं कंचिद्वै जपेन्मन्त्रं पत्रं पुष्पं फलं तथा ।
मज्जनं दन्तकाष्ठं वा तद्गेहे भोजनं च वा ॥४१॥
जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा ।
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥४२॥
नवरात्रं निराहारो निर्विकल्पो दृढव्रतः ।
यमुद्दिश्य क्रियां कुर्यात्तमेव वशमानयेत् ॥४३॥
भोजनं वाsनयेद्देवि यस्य वश्यं समुद्दिशेत् ।
कामबीजं साध्यनाम वशीकुर्वित चोच्चरेत् ॥४४॥
स्वाहामुच्चार्य देवेशि प्रदीप्ते जठरानले ।
होमयेद्यत्नतो देवि तद्गृहं वशमानयेत् ॥४५॥
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।
नवरात्रं निराहारः सत्यवादी जितेन्द्रियः ॥४६॥
सहदेवी वनं गृह्य (?) नवम्यां परमेश्वरि ।
पूर्वोक्तमनुना देवि पत्रान् वा पिण्डमाहरेत् ॥४७॥
आजन्मान्तं वशीकुर्यात्तमेव सकुठुम्बकम् ।
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥४८॥
नवरात्रं मौनयुक्तो वृक्षासनसमन्वितः ।
पारणादिवसे प्राप्ते गोमुखं कारयेत्प्रिये ॥४९॥
पूर्वोक्तमनुना देवि होमयेज्जठरानले ।
स्वगेहे तत्त्वरात्रेण तद्गेहे दिवसत्रयात् ॥५०॥
आजन्मान्त वशीकुर्यान्महादेवाधिकं नरम् ।
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥५१॥
नवरात्रं निराहारो गुरुभक्तो महाव्रती ।
वामाङ्गुष्ठोपरि स्थित्वा वेदरात्रं महेश्वरि ॥५२॥
दक्षाङ्गुष्ठोपरि तथा वेदरात्रं महेश्वरि ।
नवम्यां पारणं कुर्याद्बिल्वपिण्डं प्रदापयेत् ॥५३॥
जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा ।
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।
नवरात्रं पर्यटन् वै लोचनासनसंयुतः ॥५४॥
होमं कुर्यान्महाष्टम्यां नवम्यां पारणं चरेत् ।
सर्वस्वदानं कृत्वा तु त्रलोक्यविजयी भवेत् ॥५५॥
अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।
गोमुत्राशी महेशानि नवरात्रं महेश्वरि ॥५६॥
यं कञ्चिद्वै जपेन्मन्त्रं नवम्यां होममाचरेत् ।
नवम्यां पारणं कुर्याद्गोमुखेन महेश्वरि ॥५७॥
देवतादर्शनं भूयाद्रात्रौ स्वप्ने महेश्वरि ।
अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥५८॥
नवरात्रं जितग्रासो मौनव्रतधरः शुचिः ।
निर्द्वन्द्वो निरहङ्कारः सत्यवादी महामतिः ॥५९॥
राजाकर्षणकामश्चेद्राजा सप्तदिगुन्मुखः ।
पारणं चेच्छया कुर्याद्रात्रजापी सदा भवेत् ॥६०॥
त्रैलोक्यं वशमायाति नात्र कार्या विचारणा ।
संन्यासी शङ्करः प्रोक्तः कापाली कालभैरवः ॥६१॥
दिगम्बरो महाकालो ब्रह्मचारी बटुर्भवेत् ।
कृष्णवर्णः स्मृतः कृष्णो गौरो ऋषिवरः स्मृतः ॥६२॥
रूपगन्धप्रभेदेन नाम प्रोक्तं महेश्वरि ।
रूपजातिप्रभेदेन कुमारीनाम कीर्तयेत् ॥६३॥
गन्धभेदेन देवेशि दशविद्यादिकं भवेत् ।
एवं ज्ञात्वा पारणं तु कुर्याद्यत्नेन शाम्भवि ॥६४॥
इति संक्षेपतः प्रोक्तं वाग्भेदं श्रृणु पार्वति ।
वाक्सिद्धिर्द्विविधा प्रोक्ता शापानुग्रहकारिका ॥६५॥
महाकवित्वरूपैका द्वितीया परिकीर्तिता ।
शापानुग्रहरूपाया भेदान्संश्रृणु पार्वति ॥६६॥
मन्त्रद्वारा महेशानि स्वप्नद्वार द्वितीयका ।
प्रत्यक्षता तृतीया स्याच्चतुर्थी कर्णगोचरी ॥६७॥
आकाशगोचरा बाणसंख्याख्या परिकीर्तिता ।
घटस्था दर्पणस्था च जलमण्डलमध्यगा ॥६८॥
एवमष्टविधा प्रोक्ता शापानुग्रहणी कला ।
कवित्वाख्या महेशानि तद्भेदान् श्रृणु यत्नतः ॥६९॥
अष्टदिक्शतसाहस्रं महाश्रुतिधरी तथा ।
दूतकाव्यं च घटिकाशतकाख्यं महेश्वरि ॥७०॥
वाक्सिद्धिर्गदिता देवि लतारूपं श्रृणु प्रिये ।
महाचीनद्रुमलतावेष्टितः साधकोत्तमः ॥७१॥
रात्रौ यदि जपेन्मन्त्रं सैव कल्पलता भवेत् ।
मुखे चन्द्रस्तु सीमन्ते रविः संकीर्तितो बुधैः ॥७२॥
नेत्रे कामः कर्णयुगे सनत्कुमार एव च ।
अधरेsमृतवाणीशो जिह्वायां तु सरस्वती ॥७३॥
कल्पद्रुमः कलियुगे कामधेनुर्ललाटयोः ।
वाञ्छामणिः स्पर्शमणिः x x x परिकीर्तितौ ॥७४॥
दक्षिणावर्तकम्बुस्तु कण्ठदेशं प्रकीर्तितः ।
चिन्तामणिर्हृदम्भोजे शेषो वेण्यां प्रतिष्ठति ॥७५॥
सप्तस्वर्गा मस्तकान्ते सप्तपातालकं नसि ।
पादयोरवताराश्च जङ्घयोर्देवतागणाः ॥७६॥
नाभौ ब्रह्मा त्रिसूत्रे तु त्रिगुणात्मा सदाशिवः ।
रोमावल्यां महाविष्णु x x ब्रह्माण्डगोलकम् ॥७७॥
पृष्ठवंशे राक्षसाश्च भाग्यलक्ष्मीर्मुखाम्बुजे ।
दानलक्ष्मीः करयुगे हृदये करुणाभिधा ॥७८॥
x x युग्मे वीरलक्ष्मीर्देहः सौम्याभिधो भवेत् ।
कुलशास्त्रे कीर्तिलक्ष्मीर्माने खङ्गाभिधा भवेत् ॥७९॥
अनेककोटिब्रह्माण्डं x x मध्ये प्रतिष्ठति ।
तत्त्वाग्निवेदभुवने द्वीपादौ लोकशक्तयः ॥८०॥
वार्तालापे चतुर्वेदाः सर्वशास्त्राणि वै कठौ ।
ब्रह्माण्डगोलके यच्च यत्किंञ्चिज्जगतीतले ॥८१॥
तत्सर्वं शक्तिदेहे तु सर्वदा व्याप्य तिष्ठति ।
शक्ति x x x मारभ्य मोक्षान्तपूर्वगं शिवे ॥८२॥
सर्वं तिष्ठति देवेशि क्रोधे संहारशक्तयः ।
महामन्त्रास्तथा हासे महाविद्याः कटाक्षयोः ॥८३॥
वृक्षो जीवो लता जीवप्रदात्री परिकीर्तिता ।
चीनद्रुमलतायास्तु माहात्म्यं परमेश्वरि ॥८४॥
विचित्रमेतद्देवेशि श्रृणु यत्नेन साम्प्रतम् ।
अन्यवृक्षस्य मूलञ्च प्रोक्तं भूमितलं भवेत् ॥८५॥
एतद्वृक्षस्य मूलं तु मध्यभागे विराजते ।
मध्ये भूमिर्महेशानि शाखाश्च परितः स्मृताः ॥८६॥
अधःशाखस्तूर्द्ध्वशाखो मूलं मध्ये च भूमिका ।
जलं तत्रव देवेशि प्रयागं तत्र कीर्तिता ॥८७॥
ब्रह्माण्डगोलं पुष्पं वै फलं बीजं च पार्वति ।
तत्रैव तिष्ठति प्राज्ञे वृक्षश्चलति सर्वदा ॥८८॥
वाणी वसति सानन्दा स्वेच्छाकारी निरङ्कुशः ।
परमानन्दरूपा तु लता तस्याः प्रकीर्तिता ॥८९॥
महानन्दस्वरूपाख्या चिदानन्दस्वरूपिणी ।
पूर्णानन्दस्वरूपा सा महासमरसात्मिका ॥९०॥
ब्रह्मानन्दस्वरूपा सा चिद्धनानन्दरूपिणी ।
लता प्रोक्ता महेशानि संयोगनन्दरूपिणी ॥९१॥
जगत्त्रयं सैव सूते पञ्चभूतानि सैव च ।
संहारकर्ती सैव स्यान्मोक्षरूपा तु सा मता ॥९२॥
ब्रह्मरूपा तु सैव स्यान्मुक्तयस्तु चतुर्विधाः ।
यन्मूलज्ञानमात्रेण सदा तिष्ठन्ति पार्वति ॥९३॥
सालोक्यश्चैव सारूप्यं सायुज्यं च तृतीयकम् ।
सान्निध्यं च चतुर्थं स्यात्सर्वं शक्तौ प्रतिष्ठति ॥९४॥
नवशक्तिसमायुक्तो नवरात्राभिधो भवेत् ।
कलावर्षं तु चैत्राख्यमाश्विनाख्यं तदुत्तरम् ॥९५॥
द्वाविंशद्वर्षपर्यन्तं कीर्तितं परमेश्वरि ।
द्वात्रिंशद्वर्षपर्यन्तं प्रोक्ता दीपावली कला ॥९६॥
तदुत्तरं दारुणा स्यात्सर्वं श्रृणु महेश्वरि ।
वर्षद्वादशपर्यन्तं मोहरात्रिः प्रकीर्तिता ॥९७॥
संयोगे योगनिद्रा स्यान्महानिद्रा विसर्जने ।
आनन्ददीप्ता देवेशि विपरीता प्रकीर्तिता ॥९८॥
x x लापी सदा भूयात्सिन्दुराङ्कितभालकः ।
x x साहस्रसन्दर्शान्मुक्तो भवति मानवः ॥९९॥
x x दर्शे दिव्यरूपः सिद्धो भवति मानवः ।
भक्तियुक्तः प्रसन्नात्मा देवतातिथिपूजकः ॥१००॥
अधोभागे वृक्षमूलमन्यवृक्षश्च तिष्ठति ।
ऊर्द्ध्वे शाखास्तत्र पुष्पं फलं तत्र तदुत्तरम् ॥१०१॥
शुष्कं बीजं भवेद्ब्रह्मा आलवालञ्च मूलके ।
जलं तत्र प्रदेयं स्याद्वृक्षकः पुरुषाधमः ॥१०२॥
स्वमूलञ्चन जानाति पररक्षार्थमुद्यतः ।
चीनद्रुमलतायास्तु मूलं चैवालवालकम् ॥१०३॥
पुष्पं फलं तथा बीजमेकत्रैव प्रतिष्ठति ।
स्वरक्षकः स्वयं देवि जलबिन्दुर्वटस्थितः ॥१०४॥
ध्वजस्तस्य च नालं स्यादिति संक्षेपतो मतम् ।
सर्वमेकत्र सिद्धञ्च वृक्षे भिन्न महेश्वरि ॥१०५॥
पूर्ववृक्षस्तु निर्जीवः सजीवोsयं महेश्वरि ।
सर्वसिद्धः परः प्रोक्तो वृक्षोsप्येवं महेश्वरि ॥१०६॥
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥१०७॥
यज्ज्ञनयोगतो देव त्रैलोक्यविजयी भवेत् ।
श्रीशिव उवाच ।
महाकल्पलतामूले विचिन्त्य स्वेष्टदेवताम् ॥१०८॥
मनोगतः समायोज्य चित्तं कोणगतं चरेत् ।
तद्रूपः सन्महादेवि ध्यानयोगं समभ्यसेत् ॥१०९॥
घटिकापञ्चकध्यानाद् वायुतुल्यो नरो भवेत् ।
घटिकादशकध्यानात्पृथिव्यां जयमाप्न्नुयात् ॥११०॥
घटीपञ्चदशघ्यानाद्वह्निनाsसौ न दह्यते ।
घटिकाविंशतिध्यानात्सर्वाकर्षणकारकः ॥१११॥
घटिकात्रिंशतिध्यानात्पूर्णसिद्धिमवाप्नुयात् ।
अहोरात्रेण देवेशि मूलादीन्जपति प्रिये ॥११२॥
दिवसत्रितयध्यानादणिमाद्यष्टकं लभेत् ।
ध्यानयोगं समभ्यस्य कुण्डलीध्यानभाग् भवेत् ॥११३॥
मार्गं विना महेशानि गतिश्चैव कथं भवेत् ।
मार्गदर्शनकार्यार्थं लता प्रोक्ता किमिच्छसि ॥११४॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे नवरात्रनिर्णयो नाम षोडशः पटलः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:35.5470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तणसरणे

  • अ.क्रि. ( कों . ) ( माणूस , जनावर इ० ) शरीराने भरणे ; पुष्ट होणे ; लठ्ठ बनणे . [ सं . तन ; प्रा . तण + सर प्रत्यय ] 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.