संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
चतुर्विंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - चतुर्विंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि बगलाक्रमनिर्णयम् ।
श्रीशिव उवाच ।
सौभाग्याचीक्रमेणैव बगला शीघ्रदर्शिनी ॥१॥
पीताम्बरधरो मन्त्री पीतभूषणभूषितः ।
पीतमाल्याम्बरधरो पीतगेहसमास्थितः ॥२॥
पीतपूजापरः प्रोक्तः पीतान्नप्रीतमानसः ।
पीतद्रव्योपभोगी च पीतासनसमन्वितः ॥३॥
पीतहोमी पीतपुष्यी पीतशक्तिसमन्वितः ।
रोचनां भुवि संदद्यात् कुङ्कुमं मुनिपत्रकम् ॥४॥
हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खादिरं शिवे ।
हरिचन्द्रनधूपेन धूपितः परमेश्वरि ॥५॥
सर्वं सर्वं तु सम्पाद्य क्रममार्गरतो भवेत् ।
सृष्टिस्थित्यन्तसंहारैः पूजा च त्रिविधा कलौ ॥६॥
केवला सृष्टिपूजा स्यात् गर्भकौलागमक्रमात् ।
अर्चनं गौडदेशे तु स्थितिमार्गं कुमारिके ॥७॥
गुप्तकौलागमन्नाम गौडदेशार्चने विधिः ।
कामरूपागमन्नाम संहारक्रमपूजने ॥८॥
गौडागमं चावलम्ब्य सांख्यायनमुनिस्तथा ।
उक्तवानागमे चैव स्थित्यर्चां श्रृणु पुत्रके ॥९॥
सर्वाङ्गसुन्दरीं रम्यां सर्वावयवशोभिताम् ।
नवोढां पुष्पिणीं चैव प्रार्थ्येद्विप्रकन्यकाम् ॥१०॥
कृष्णाष्टम्यां चतुर्दश्यां पौर्णमास्यां कुमारकः ।
अथवा भौमsवारे च निशायां भृगुवासरे ॥११॥
सुवासितेन तैलेन कुर्यादभ्यज्जनं तथा ।
तूलिकातल्पमानीय आस्तीर्योदड्मुखे तदा ॥१२॥
तस्योपरि समास्तीर्य शेवन्तैर्जातिचम्पकैः ।
कर्पूरं चैव कस्तूरीमिश्रितं चन्दनं तथा ॥१३॥
सर्वाङ्गलेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् ।
पर्यङ्कोपरि तां कन्यां चन्दनेन विलेपिताम् ॥१४॥
ध्रुवा द्यौरिति मन्त्रेण कन्यां दक्षिणतोमुखीम् ।
उन्मुखीशयनं कुर्यात् श्रीसूक्तेन कुमारकः ॥१५॥
तस्याः x x प्रसार्याथ x x नार्चनमाचरेत् ।
न्यस्त्वा षोढाद्वयं चैव बगलापञ्चकं न्यसेत् ॥१६॥
कन्यां चैव न्यसेदेवं तत्तदङ्गानि संस्मरन् ।
पादं जपपुरं चैव मार्जयेन्मूलविद्यया ॥१७॥
गन्धद्वारेति मन्त्रेण कुर्यात्कस्तूरिलेपनम् ।
मूलमन्त्रेण सम्यक् च पुष्पमाला समर्पयेत् ॥१८॥
निवेदयेत् द्रव्यशुद्धिं तत्रैव जपमाचरेत् ।
शतमष्टसहस्रं च मन्त्रराजमिमं जपेत् ॥१९॥
पुरश्चरणमध्ये च प्रतिमार्गञ्च वासरे ।
अथवा पौर्णमास्याञ्च सौभाग्यार्चनमाचरेत् ॥२०॥
प्रयोगसिद्धिदं पुंसां मन्त्रसिद्धिकरं परम् ।
एतत्क्रमं विना देवि प्रयोगो न भवेत्कचित् ॥२१॥
तस्मात्सर्वप्रयत्नेन सिद्धयर्थं देवि भूतले ।
सौभाग्याख्यक्रमं देवि विना सिद्धिर्न कोटिभिः ॥२२॥
अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् ।
त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् ॥२३॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
शीतोष्णसमतां कृत्वा सौभाग्यक्रममाचरेत् ॥२४॥
षोढाद्वयं च न ज्ञात्वा यः करोत्यर्चनं भुवि ।
पतितः स भवेत्पुंसो रौरवं नरकं व्रजेत् ॥२५॥
बाह्याभ्यन्तरयोर्देवि प्रभेदज्ञानयोर्विना ।
पीतक्रमो न कर्तव्यो देवताशापमाप्नुयात् ॥२६॥
संकल्पं च विकल्पं च त्यक्त्वा विज्ञानमानसः ।
पीतक्रमं ततः कुर्य्यान्नो चेद्भ्रष्टो भवेद्ध्रुवम् ॥२७॥
जितेन्द्रियः सुखं कृत्वा कुर्यात्पीतक्रमं शिवे ।
सुखार्थं कुरुते योsसौ देवताशापमाप्नुयात् ॥२८॥
स्वस्यावेशविधिं चैव न ज्ञात्वा परमेश्वरि ।
यः करोत्यर्चनं देवि स विप्रः पतितो भवेत् ॥२९॥
यस्तु कन्यामनःक्षोभं करोति यजने शिवे ।
भ्रान्तचित्तो भवेत्सद्यो वाचस्पतिरिवापरः ॥३०॥
नोत्पादयेद्वेदनां च मनश्चैव शरीरयोः (?) ।
वेदनां जनयेद्यस्तु न नरः पतितो भवेत् ॥३१॥
स्वपत्नीं भ्रातृपत्नीं वा गुरुभार्यामथापि वा ।
अर्चयेद्यौवनोपेतां साङ्ख्यायनसमर्पिताम् ॥३२॥
दीक्षालयस्थां रजकीं कुलालगृहकन्यकाम् ।
पुलिन्दकन्यकां वापि मृदुचूडकमादरात् ॥३३॥
दीक्षालयस्थां रजकीं कुलालगृहकन्यकाम् ।
अर्चनं विधिमार्गेण पूजा दुर्वाससोमतम् ॥३४॥
सर्वलक्षणसंयुक्तां पुष्पिणीमर्चयेच्छिवे ।
मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥३५॥
सिद्धिक्रमोsयं देवेशि नास्ति सिद्धिर्गुरुं विना ।
तस्मात्सर्वप्रयत्नेन गुर्वाज्ञापरिपालकः ॥३६॥
सिद्धो भवति देवेशि नात्र कार्या विचारणा ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३७॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे बगलाक्रमो नाम चतुर्विंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP