मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| योगं योगविदां विधूतविविधव... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... महागणपतिस्तोत्रम् - योगं योगविदां विधूतविविधव... महागणपतिस्तोत्रम्Another type of Ganesh stotra Tags : ganapatiganeshgodgoddessprayerstotraगजाननगणेशदेवतादेवीस्तोत्र श्रीगणेशायनम: ॥ Translation - भाषांतर योगं योगविदां विधूतविविधव्यासंगशुद्धाशयप्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दंतावलास्यात्मना ॥ १ ॥तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुस्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते । आमंत्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभि: पूजित: ॥ २ ॥कल्लोलांचलचुंबितांबुदतताविक्षुद्रवांभोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षरांभोरुहे षट्कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥चक्रप्रासरसालकामुकगदासद्वीजपूरं द्विज व्रीह्यग्रोत्पलपाशपंकजकरं शुण्डाग्रजाग्रद्घटम् । अश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥दानांभ:परिमेदुरप्रसृमख्यालंबिरोलंबभृत्सिंदूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् । त्रैलोक्येष्टविधानवर्णसुभगां य: पद्मरागोपमां धत्ते स श्रियमातनोतु सततं देवो गणानां पति: ॥ ५ ॥भ्राम्यन्मंदरघूर्णनापरवशक्षीराब्धिवीचिच्छटासच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषा: । दिक्कांताघनसारचंदनरसासारा: श्रयंतां मन:स्वच्छंदप्रसरप्रलिप्तवियतो हेरंबदंतत्विष: ॥ ६ ॥मुक्ताजालकरंबितप्रविकसन्माणिक्यपुंजच्छटाकांता: कंबुकदंबचुंबितवनाभोगप्रवालोपमा: । ज्योत्स्नापूरतरंगमंथरतरत्संध्यावयस्याश्चिरं हेरंबस्य जयंति दंताकिरणाकीर्णा: शरीरत्विष: ॥ ७ ॥शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्नानारत्नचयेन साधकजनान्संभावयन् कोटिश: ।दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्कर्णादोलनखेलनो विजयते देवो गणग्रामणी: ॥ ८ ॥हेरंबं प्रणमामि यस्य पुरत: शांडिल्यमूले श्रिया विभ्रत्यांबुरुहे समं मधुरिपुस्ते शंखचक्रे वहन् । न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तथा दक्षिणे बिभ्राण: परशुं त्रिशूलमितया देव्या धरण्या सह ॥ ९ ॥पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योपले बिभ्रत्यासममैक्षवं धनुरिषून्पौष्पान्वहन्पंच च । वामे चक्रगदाधर: स भगवान्क्रोडप्रियंगोस्तलं हस्तोद्यच्छुकशालिमंजरिकया देव्या धयण्या सह ॥ १० ॥षट्कोणाश्रिषु षट्सु षड्गजमुखा: पाशांकुशाभीवरान्बिभ्राणा: प्रमदासखा: पृथुमहाशोणाश्मपुंजत्विष: । आमोद: पुरत: प्रमोदसुमुखौ तं चाभितो दुर्मुख: पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिता: कांताश्लेषरसज्ञमंथरदृश: सिद्धि: समृद्धिस्तत: । कांतिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमू: पूजिता: ॥ १२ ॥अश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षतौ वसु पार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी । अंगान्यन्वथ मातरश्च परित: शक्रादयोऽब्जाश्रयास्तद्वाह्ये कुलिशादय: परिपतत्कालानलज्योतिष: ॥ १३ ॥इत्थं विष्णुशिवादिसत्त्वतनवे श्रीवक्रतुंडाय हुंकाराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे । आनंदैकरसावबोधलहरीविध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नम: ॥ १४ ॥सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटिकाटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।राजन्नीराजनश्रीसखचरणनखद्योतिविद्योतमान: श्रेय: स्थेय: स देवान्मम विमलदृशो बन्धुरं सिंधुरास्य: ॥ १५ ॥एतेन प्रगटरहस्यमंत्रमालागर्भेण स्फुटतरसंविदा स्तवेन । य: स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वंशवदा त्रिलोकी ॥ १६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP