मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| सनत्कुमार उवाच । श्रृणु ... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... शत्रुसंहारकमेकदन्तस्तोत्रम् - सनत्कुमार उवाच । श्रृणु ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : ganeshagodprayerstotraगणपतीगणेशदेवतादेवीस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर सनत्कुमार उवाच । श्रृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥१॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥२॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥३॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण तं ब्रवीहि यथातथम् ॥४॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥५॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥६॥ ध्यानं तस्य प्रवक्ष्यामि श्रृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं विधानतः ॥७॥ एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥८॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं सन्दधन्तं च प्रसन्नवदनाम्बुजम् ॥९॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वमेकदन्तकम् ॥१०॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः । स्वयं बुद्धिपतिः साक्षादात्मा च सर्वदेहिनाम् ॥११॥ एकशब्दात्मिका माया देहरूपा विलासिनी । दन्तः सत्तात्मकः प्रोक्तः शब्दस्तत्र न संशयः ॥१२॥ मायाया धारकोऽयं वै सत्तमात्रेण संस्थितः । एकदन्तो गणेशो वै कथ्यते वेदवादिभिः ॥१३॥ सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥१४॥ एवमुक्त्वा ययौ योगी स सनत्कुमार आदरात् । जय हेरम्बमन्त्रं वै समुच्चरन् मुखेन सः ॥१५॥ ततो देवगणाः सर्वे मनुयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥१६॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कन्दमूलफलाहाराः केचित्केचिद्बभूविरे ॥१७॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेण तोषयन् गणनायकम् ॥१८॥ गतवर्षशतेषु वै सन्तुष्ट एकदन्तकः । आययौ तान्वरान्दातुं ध्यातस्तैर्यादृशस्तथा ॥१९॥ जगाद स तपोयुक्तान् मुनीन्देवन्गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणामराः ॥२०॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन्समीपस्थितम् ॥२१॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेन्द्रा पुपूजुर्भक्तिसंयुताः ॥२२॥ पूजयित्वा यथान्यायं प्रणम्य करसम्पुटाः । तुष्टुवुरेकदन्तं तं भक्तिनम्रात्मकन्धराः ॥२३॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥२४॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥२५॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥२६॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥२७॥ परशुधारिणे तुभ्यं कमलहस्तशोभिने । पाशाभयधरायैव महोदराय ते नमः ॥२८॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥२९॥ सगुणात्मककायाय निर्गुणमस्तकाय ते । तयोदभेदरूपेण चैकदन्तय ते नमः ॥३०॥ देवान्ताऽगोचरायैव वेदान्तलभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥३१॥ अपारगुणधामायानन्तमायाप्रचरिणे । नानावतारभेदाय शान्तिदाय नमो नमः ॥३२॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूतमयः साक्षात्प्रत्यक्षं पुरतः स्थितः ॥३३॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान्सरोमाञ्चान्दृष्ट्वा तान्ढुण्ढिरब्रवीत् ॥३४॥ एकदन्त उवाच । वरं वृणुत देवेशा मनुयश्च यथेप्सितम् । दास्यामि तं न सन्देहो यद्यपि दुर्लभं भवेत् ॥३५॥ भवत्कृतं मदीयं तत् स्तोत्रं सर्वार्थदं भवेत् । पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥३६॥ शत्रुनाशकरं चैव सुखानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥३७॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । ऊचुस्तमेकदन्तं ते प्रणम्य भक्तिभावतः ॥३८॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो । यदि देयो वरो नश्चेज्जहि दुष्टं मदासुरम् ॥३९॥ इति श्रीमुद्गलपुराणान्तर्गतं सनकादिकृतमेकदन्तस्तोत्रं समाप्तम् । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP