मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| ॥ ऐल उवाच ॥ बाह्मपूजां व... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... गणेशबाह्यपुजा - ॥ ऐल उवाच ॥ बाह्मपूजां व... गणेशबाह्यपुजाIt is another type of Ganesha Stotra Tags : ganapatiganeshpoojaprayerpujastotraगणपतीस्तोत्र श्रीगणेशाय नम: Translation - भाषांतर ॥ ऐल उवाच ॥ बाह्मपूजां वद विभो गृत्समदप्रकिर्तिताम् । तेन मार्गेण विघ्नेशं भजिष्यामि निरंतरम् ॥ १ ॥गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गत्समदो मुनि: । बाह्यां चकार विधिवत्तां श्रृणुष्व सुखप्रदाम् ॥ २ ॥ह्रदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण तं बाह्यांगं चकार ह ॥ ३ ॥आदौ वैदिकमंत्रं स गणानांत्वेति संपठन् । पश्चाच्छलोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ ॥गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतयेत् ॥ ५ ॥आगच्छ ब्रह्मणां नाथ सुरासुरवरर्चित । सिद्धिबुद्धयादिसंयुक्तभक्तिग्रहणलालस: ॥ ६ ॥कृतार्थोऽहं कृतार्थोऽहं तवागमनत: प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७ ॥रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषत: ॥ ८ ॥सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाम्भ: करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९ ॥सर्वतीर्थह्रतं तोयं सुवासितसुवस्तुभि: । आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥रत्नप्रवालमुक्ताद्यैरनर्ध्यै: संस्कृतं प्रभो । अर्घ्य गृहाण हेरंब द्विरदानन तोषकम् ॥ ११ ॥दधिमध्वाज्यसंयुक्तं मधुपर्क गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तुते ॥ १२ ॥पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनांते पुनराचमनं कुरु ॥ १३ ॥चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४ ॥यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ ॥नानातीर्थजलैर्ढुंढे सुखोष्णभावरूपकै: । कमंडलूद्भवै: स्नानं मया कुरु समर्पितै: ॥ १६ ॥कामधेनुसमुद्भूतं पय: परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ १७ ॥पत्र्चामृतानां मध्ये तु जलै: स्त्रानं पुन: पुन: । कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्य: समाह्रतै: ॥ १८ ॥दधि धेनुपयोद्भूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थ विनायक दयानिधे ॥ १९ ॥धेनो: समुद्भवं ढुंढे घृतं सन्तोषकारकम् । महामलापघातार्थ तेन स्नानं कुरु प्रभो ॥ २० ॥सारघं संस्कृतं पूर्ण मधु मधुरसोद्भवम् । गृहाण स्नानकार्यार्थ विनायक नमोऽस्तु ते ॥ २१ ॥इक्षुदण्डसमद्भूतां शर्करांमलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचार ॥ २२ ॥यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आंत्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३ ॥ततो गन्धाक्षतादींश्च दूर्वाकुरान् गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकै: । अभिषेकं ते करोमि गृहाण द्विरदानन ॥ २५ ॥ तत आचमनं देव सुवासितजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६ ॥वस्त्रयुग्मं गृहाण त्वमनर्घ्य रक्तवर्णकम् । लोकलज्जाहरं चैव विघ्नानाथ नमोऽस्तु ते ॥ २७ ॥उत्तरीयं सुचित्रं वै नमस्तारांकितं तथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तित: ॥ २८ ॥उपवीतं गणाध्यक्ष गृहाण च तत: परम् । त्रैगुण्यमयरूपं तु प्रणवग्रंथिबन्धनम् ॥ २९ ॥तत: सिंदूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानंदविवर्धनम् ॥ ३० ॥ नानाभूषकानि त्वमंगेषु विविधेषु च । भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो: ॥ ३१ ॥अष्टगंधसमायुक्तं गंधं रक्तं गजाननद्वादशांगेषु ते ढुंढे लेपयामि सुचित्रवत् ॥ ३२ ॥रक्तचंदनसंयुक्तानथवा कुंकुमैर्युतान् । अक्षतान् विघ्नराज त्वं गृहाण भालमंडले ॥ ३३ ॥चंपकादिसुवृक्षेभ्य: संभूतानि गजानन । पुष्पाणि शमिमंदारदूर्वादीनि गृहाण च ॥ ३४ ॥दशांगं गुग्गुलं धूपं सर्वसौरभकारम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥नानाजातिभवं दीपं गृहाण गणनायक । अज्ञानमलजं दोषं हरंतं ज्योतिरूपकम् ॥ ३६ ॥चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥सुवासितं गृहाणेदं जलं तीर्थसमाह्रतम् । भुक्तिमध्ये च पानार्थ देवदेवेश ते नम: ॥ ३८ ॥भोजनांते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ ॥दाडिमं खर्जुरं द्राक्षा रंगादीनिफ लानि वै । गृहाण देवदेवेश नाना मधुरकाणि तु ॥ ४० ॥अष्टाङ्गदेव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषत: ॥ ४१ ॥दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यै: संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२ ॥राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ ॥तत आभरणं तेऽद्य पूजयामि विधानत: । उपचारैविविधैश्च तेन तुष्टो भव प्रभो ॥ ४४ ॥ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् । गृहाण न्यूनसिद्धयर्थ भक्तवात्सल्यकारणात् ॥ ४५ ॥नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशक ॥ ४६ ॥गणानांत्वेति मंत्रस्य जपं साहस्त्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७ ॥आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो । गृहाण ज्योतोषां नाथ तथा नीराजयाम्यहम् ॥ ४८ ॥पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वांगेषु निरंजनम् ॥ ४९ ॥चतुर्वेदभवैर्मत्रैर्गाणपत्यैर्गजानन । मंत्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० ॥पंचप्रकारकै: स्तोत्रैर्गाणपत्यैर्गणाधिप । स्तौमि त्वां तेन संतुष्टो भव भक्तिप्रदायक ॥ ५१ ॥एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन । प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ ॥साष्टाङ्गं प्रणतिं नाथ एकविशतिसंमिताम् । हेरंब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३ ॥न्यूनातिरिक्तभावार्थ कित्र्चिद्दूर्वांकुरान्प्रभो । समर्पयामि तेन त्वं सांगा पूजां कुरुष्व ताम् ॥ ५४ ॥त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५ ॥अपराधानसंख्यातान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ ५६ ॥त्वं माता त्वं पिता मे वै सुह्रत्संबंधिकादय: । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशय: ॥ ५७ ॥जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङमानसै: कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८ ॥बाह्यंनानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके धारणात्किल ॥ ५९॥पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥ ६० ॥गणेशोच्छिष्टगंधं वै द्वादशांगेषु चार्चयेत् । गणेशतुल्यरूप: स दर्शनात्सर्वपापहा ॥ ६१ ॥यदि गणेशपूजादौ गंधभस्मादिकं चरेत् । अथवोच्छिष्टगंधं तु नो चेत्तत्र विधिं चरेत् ॥ ६२ ॥द्वादशांगेषु विघ्नेशं नाममंत्रेण चार्चयेत् । तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३ ॥मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुंडं समर्चयेत् ॥ ६४ ॥कंठे लंबोदरं देवं ह्रदि चिंतामणिं तथा ॥ ६५ ॥बाहौ दक्षिणके चैव हेरंब बामबाहुके । विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६ ॥कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानंदवासिनम् ॥ ६७ ॥सर्वाङ्गलेपनं शस्तं चित्रितं त्वष्टगंधकै: । गाणेशानां विशेषण सर्वभद्रस्य कारणात् ॥ ६८ ॥तदोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९ ॥गणेशस्मरणेनैव करोमि कालखंडनम् । गाणपत्यैश्च संवासो मे सदाऽस्तु गजानन ॥ ७० ॥गार्ग्य उवाच । एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदाभक्तिसमन्वित: ॥ ७१ ॥तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समद: साक्षात्तथा त्वमपि निश्चितम् ॥ ७२ ॥ । इति श्रीमदांत्ये मौद्गल्ये बाह्यपूजा समाप्ता । N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP