मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
जैमिनिरुवाच । न वक्तुं श...

ढुण्ढिस्वरूपवर्णनस्तोत्रम् - जैमिनिरुवाच । न वक्तुं श...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


जैमिनिरुवाच ।
न वक्तुं शक्त्ये राजन् केनापि तत्स्वरूपकम् । नोपाधिना युतं ढुण्ढिं वदामि श्रृणु तत्वतः ॥१॥
अहं पुरा सुशान्त्यर्थं व्यासस्य शरणं गतः । मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥२॥
तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥३॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् । संयोगायोगरूपं यद् ब्रह्म णकारवाचकम् ॥४॥
तयोः स्वामी गणेशश्च पश्य वेदे महामते । चित्ते निवासकत्वाद्वे चिन्तामणिः स कथ्यते ॥५॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत् तयोः पतिः ॥६॥
द्विज उवाच ।
श्रृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥७॥
चित्ते चिन्तामणिः साक्षात्पञ्चचित्तप्रचालकः । पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥८॥
असम्प्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥९॥
भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता । भ्रान्तिधारकरूपा सा बुद्धिश्च दक्षिणाङ्गके ॥१०॥
तयोः स्वामि गणेशश्च मायाभ्यां खेलते सदा । सम्भजस्व विधानेन तदा संलभसे नृप ॥११॥
 इति ढुण्ढिस्वरूपवर्णनस्तोत्रं समाप्तम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP