मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
सर्वे उचुः । यतोऽनंतशक्त...

गणेशाष्टकम् - सर्वे उचुः । यतोऽनंतशक्त...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सर्वे उचुः ।
यतोऽनंतशक्तेरनंताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता । तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चंद्रमा व्योम वायुः । यतः स्थावरा जंगमा वृक्षसंघा सदा तं गणेशं नमामो भजामः ॥३॥
यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च । यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः ॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसंतोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥
यतः पुत्रसम्पद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥६॥
यतोऽनंतशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥७॥
यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥८॥
श्रीगणेश उवाच ।
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसंध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥९॥ यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवानप्नुयात् ॥१०॥ यः पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्वन्धगतं राजवध्यं न संशयः ॥११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वांछितांल्लभते सर्वानेकविंशतिवारतः ॥१२॥
यो जपेत्परया भक्तया गजाननपरो नरः । एवमुक्तवा ततो देवश्चांतर्धानं गतः प्रभुः ॥१३॥

इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP