मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे| श्रीभैरव उवाच । महादेवि ... गणपती स्तोत्रे श्री गणेश स्तोत्र माला श्री गणपती अथर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् द्विरदानन विघ्नकाननज्वलन ... ॐ अस्य श्रीॠणमोचन महागणपत... काश्यां तु बहवो विघ्नाः क... । यम उवाच । गणेश हेरम्ब ... स्कन्द उवाच । नमस्ते योग... श्रीमत्परमहंसेत्यादि समस्... मुद्गल उवाच । असच्छक्तिश... जैमिनिरुवाच । न वक्तुं श... उमाङ्गोद्भवं दन्तिवक्त्रं... भरद्वाज उवाच कथं स्तुतो ... देवा ऊचुः । गजाननाय पूर्... देवर्षय ऊचुः । नमस्ते गज... शिवशक्तिकृतं गणाधीशस्तोत्... आङ्गिरस उवाच । अनन्ता अव... शुक्लाम्बरधरं विश्णुं शशि... शिव उवाच । गणेशवचनं श्रु... भरद्वाज उवाच कथं स्तुतो ग... उद्दालक उवाच । श्रृणु पु... ललाट-पट्टलुण्ठितामलेन्दु-... सर्वे उचुः । यतोऽनंतशक्त... गौर्युवाच । गजानन ज्ञानव... श्रीमत्परमहंसेत्यादि समस्... ईश्वर उवाच । श्रृणु वक्ष... प्रथमः खण्डः (शशिवदनावृत्... । मुनिरुवाच । कथं नाम्ना... गणञ्जयो गणपतिर्हेरम्बो धर... मुदा करात्त मोदकं सदा विम... स जयति सिन्धुरवदनो देवो य... श्रियं वासय मे कुले । श्... श्रीविघ्नेशपुराणसारमुदितं... ॐ सरागिलोकदुर्लभं विरागिल... श्रीविघ्नेशपुराणसारमुदितं... ॐ अस्य श्रीसङ्कष्टहरणस्तो... लक्ष्मीर्यस्य परिग्रहः कम... राधाकृष्णावूचतुः । पुष्ट... कपिल उवाच । नमस्ते विघ्न... देव्युवाच । कवचं शारदेशस... सनत्कुमार उवाच । श्रृणु ... जयोऽस्तु ते गणपते देहि मे... ॐ विघ्नेशो नः स पायाद्विह... श्रीभगवानुवाच । गणेशस्य ... वन्दे गजेन्द्रवदनं वामाङ्... मौलिं महेशपुत्रोऽव्याद्भा... श्रीभैरव उवाच । महादेवि ... अत्रिरुवाच । श्रृणु पुत्... विघ्नेश विघ्नचयखण्डननामधे... नारद उवाच । प्रणम्य शिरस... ॐ अकल्मषाय नमः । ॐ अग्निग... हेरम्बमम्बामवलम्बमानं लम्... सनकाद्या ऊचुः । धन्योऽसि... कर्दम उवाच । केनोपायेन भ... ॐ नमो वरदाय विध्नहर्त्रे ... ॐ ॥ ओमित्येकाक्षरं ब्रह्... अथातो हेरम्बोपनिषदं व्याख... देवर्षय: ऊचु: । सदात्मरू... विघ्रेश विघ्रचयखण्डननामघे... श्रीशक्तिशिवावूचतु: ॥ नम... नारायण उवाच ॥ अथ विष्णु:... विष्णुरुवाच ॥ गणेशमेकदन्त... श्रीकृष्ण उवाच ॥ वद शिवमह... अधुना शृणु देवस्य साधनं य... राधिकोवाच ॥ परं धम परं ब... देवर्षय ऊचु: ॥ विदेहरूपं... चतु:षष्टिकोटयाख्यविद्याप्... ब्रह्मोवाच । पुराणपुरुषं... सुमुखो मखभुड्मुखार्चित: ... द्बिरदवन विषमरद वरद जयेशा... नमस्तस्मै गणेशाय सर्वविघ्... विष्णुरुवाच । संसारमोहनस... नमस्तस्मै गणेशाय सर्वविघ्... शौनक उवाच ॥ प्रकृतं वद स... विना तपो विना ध्यानं विना... मुदा करात्तमोदकं सदा विमु... सुवर्णवर्णसुन्दरं सितैकदन... ॐ ॐ ॐ काररूपं हिमकर रुचिर... सुमुख प्रथम स्वनामगायकपाल... नमोऽस्तु गणनाथाय सिद्धिबु... वा रणास्यो ॥ द रघ्नोर्थ्य... नमो ॥ ग णपते तुभ्यं ज्येष... देव्युवाच ॥ पूजान्ते ह्य... ईशानो ढुण्ढिराजो गणपतिरखि... श्रीमन्मड्रलमड्रलं गणपतिं... अगजाननपद्मार्कं गजाननमहर्... श्रीविघ्नेशपुराणसारमुदितं... शिव उवाच ॥ वज्रपञ्जरकं ना... मुदाकरात्तमोदकं सदाविमुक्... सरागलोकदुर्लभं विरागिलोकप... सुमुखश्चैकदन्तश्च कपिलो ग... परब्रह्मरूपं चिदानन्दरूपं... अजं निर्विकल्पं निराकारमे... सिंदूरवर्णं द्विभुजं गणेश... श्रीकंठप्रेमपुत्राय गौरीव... गणपतिर्विघ्नराजो लंबतुण्ड... जेतुं यस्त्रिपुरं हरेण हर... जननी मृगयतु मामि- त्याच्छ... बालस्तरुणभक्तौ च वीरश्शक्... सुमुखश्चैकदन्तश्च कपिलो ग... गणेशभुजंगम् चतुर्बाहुं त्रिनेत्रं च ग... अश्वत्थोऽयं प्रपञ्चो न हि... कुक्षिस्फुरन्नागभीत्या मू... आचम्य प्राणायामं कृत्वा द... ॥ गौर्युवाच ॥ एषोऽतिचपलो... विघ्नेशवीर्याणि विचित्रका... ॥ ऐल उवाच ॥ बाह्मपूजां व... अनिर्वाच्यं रूपं स्तवननिक... ॥ यम उवाच॥ गणेश हेरंब गज... ॥ नारद उवाच ॥ प्रणम्य शि... यतोऽनंतशक्तेरनंताश्च जीवा... मदासुरं सुशांतं वै दृष्ट्... योगं योगविदां विधूतविविधव... श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ॐ मूषिकवाहन मोदकहस्त चामर... जयोऽस्तु ते गणपते देहि मे... ॥ ऋषिरुवाच ॥ अजं निर्वि... परब्रह्मरूपं चिदानन्दरूपं... रणत्क्षुद्रघण्टानिनादाभिर... श्री महागणेश पञ्चरत्नं मु... । नारद उवाच । प्रणम्य श... गणेशं गाणेशाः शिवमिति शैव... ॐ विनायकाय नमः । विघ्नर... वरदगणेशकवचम् - श्रीभैरव उवाच । महादेवि ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : ganeshagodkavachaprayerstotraकवचगणपतीगणेशदेवतादेवीस्तोत्र श्रीगणेशाय नमः । Translation - भाषांतर श्रीभैरव उवाच । महादेवि गणेशस्य वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥१॥ अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः , गायत्र्यं छन्दः , श्रीमहागणपतिर्देवता , गं बीजं , ह्रीं शक्तिः , कुरुकुरु कीलकं , वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगः । ध्यानम् । विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥२॥ ॐश्रींह्रीङ्गं शिरः पातु महागणपतिः प्रभुः । विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥३॥ पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः । श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥४॥ द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् । दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥५॥ गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥६॥ ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः । हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥७॥ प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः । कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥८॥ मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् । विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥९॥ जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु । पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥१०॥ पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम । विचारो जठरं पातु भूतानि चोग्ररूपकः ॥११॥ शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु । पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥१२॥ विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु । पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥१३॥दक्षिणे पातु संहारो नैऋते रुरुभैरवः । पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥१४॥ उत्तरे मां सितास्युऽव्यादैशान्यामसितात्मकः । प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥१५॥ दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥१६॥ सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः । ॐॐ राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात् श्रींश्रीं शत्रुगृहे शशौं जलभये क्लीङ्क्लीं वनान्तेऽवतु । ग्लौङ्ग्लूङ्ग्लैङ्ग्लङ्गुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौङ्गगौं नित्यं यक्षपिशाचभूतफणिषु ग्लौङ्गं गणेशोऽवतु ॥१७॥ इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् । वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥१८॥ अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् । विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥१९॥ तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा । तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥२०॥ यंयं कामयते कामं तं तं प्राप्नोति पाठतः । अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥२१॥ इति गुह्यं सुकवचं महागणपतेः प्रियम् । सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥२२॥ ॥इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP