TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८५

बृहत्संहिताः - अध्याय ८५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


शाकुनाध्यायः

यत्शक्रशुक्र ( शुक्रशक्र) वागीशकपिष्ठलगरुत्मताम् । मतेभ्यः प्राह ऋषभो भागुरेः देवलस्य च ॥१॥

भारद्वाजमतं दृष्ट्वा यग श्रीद्रव्यवर्धनः । आवन्तिकः प्राह नृपो महाराजाधिराजकः ॥२॥

सप्तर्षीणां मतं यग संस्कृतं प्राकृतं च यत् । यानि चौक्तानि गर्गाद्यैः यात्राकारैश्च भूरिभिः ॥३॥

तानि दृष्ट्वा चकारैमं सर्वशाकुनसंग्रहम् । वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम् ॥४॥

अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥५॥

ग्रामारण्यांबुभूव्योमद्युनिशोभयचारिणः । रुतयातेक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः ( स्त्रीपुन्नपुंसकाः) ॥६॥

पृथग् जात्यनवस्थानादेषां व्यक्तिः न लक्ष्यते । सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ॥७॥

ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् । संचिक्षिप्सुः अहं वच्मि यात्रामात्रप्रयोजनम् ॥८॥

पथ्यात्मानं नृपं सैन्ये पुरे चौद्दिश्य देवताम् । सार्थे प्रधानं साम्ये ( साम्यं) स्याज्जातिविद्यावयोऽधिकम् ॥९॥

मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम् । अंगार ( अग्गारि) दीप्तधूमिन्यः ताश्च शान्ताः ततोऽपराः ( ऽपरा, अपराः) ॥१०॥

तत्पंचमदिशां तुल्यं शुभं त्रिकाल्यमादिशेत् । परिशेष ( परिशेषयोः) दिशोः वाच्यं यथासन्नं शुभाशुभम् ॥११॥

शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः । स्थानवृद्ध्युपघाताग तद्वद् ब्रूयात् फलं पुनः ॥१२॥

क्षणतिथ्युडुवातार्कैः देवदीप्तो यथोत्तरम् । क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥१३॥

दशधैवं प्रशान्तोऽपि सौम्यः तृणफलाशनः । मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥१४॥

हर्म्यप्रासादमंगल्यमनोज्ञस्थानसंस्थिताः । श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ॥१५॥

स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः । क्लीबस्त्रीपुरुषा ज्ञेया ( पुरुशाश्च एषां) बलिनः स्युः यथोत्तरम् ॥१६॥

जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः । स्वभूमावनुलोमाश्च तदूनाः स्युः विवर्जिताः ॥१७॥

कुक्कुटैभपिरिल्यश्च शिखिवञ्जुलछिक्कराः । बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ॥१८॥

क्रोष्टुकौलूकहारीतकाककोकऋक्षपिंगलाः । कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥१९॥

गोशशक्रौंचलोमाशहंसौत्क्रोशकपिञ्जलाः । विडालौत्सववादित्रगीतहासाश्च वारुणाः ॥२०॥

शतपत्रकुरंगाखुमृगएकशफकोकिलाः । चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥२१॥

न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः ( ग्रामसंस्थितः) । दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा ॥२२॥

द्वन्द्वरोगार्दितत्रस्ताः कलहामिषकांक्षिणः आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥२३॥

रोहिताश्वाजवालेयाः कुरंग ( वालेयकुरंग) उष्ट्रमृगाः शशः । निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ॥२४॥

न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः । शारद्य ( शरद्य) अब्जादगोक्रौंचाः श्रावणे हस्तिचातकौ ॥२५॥

व्याघ्रऋक्षवानरद्वीपिमहिषाः सबिलेशयाः । हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥२६॥

एन्द्रानलदिशोः मध्ये त्रिभागेषु व्यवस्थिताः । कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥२७॥

शिल्पी भिक्षुः विवस्त्रा स्त्री याम्यानलदिगन्तरे । परतश्चापि मातंगगोपधर्मसमाश्रयाः ॥२८॥

नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः । शौण्डिकः शाकुनी हिंस्रो वायव्या ( वायव्य) पश्चिमान्तरे ॥२९॥

विषघातकगोस्वामिकुहकज्ञाः ततः परम् । धनवानीक्षणीकश्च मालाकारः परं ततः ॥३०॥

वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः । द्वात्रिंशदेवं ( एवं द्वात्रिंशतो) भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥३१॥

राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । राजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥३२॥

गच्छतः तिष्ठतो वापि दिशि यस्यां व्यवस्थितः । विरौति शकुनो वाच्यः तद्दिग्जेन समागमः ॥३३॥

भिन्नभैरवदीनार्तपरुषक्षामजर्जराः । स्वना ( स्वरा) नैष्टाः शुभाः शान्त ( शान्ता) हृष्टप्रकृतिपूरिताः ॥३४॥

शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिका । सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥३५॥

स्त्रीसंज्ञा भासभषककपिश्रीकर्णधिक्कराः ( छिक्कराः) । शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥३६॥

क्ष्वेडास्फोटितपुण्याहगीतशंखांबुनिःस्वनाः । सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥३७॥

ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः । षड्ज ( षड्जा) मध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥३८॥

रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः । धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥३९॥

जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् । रुतं सन्दर्शनं ( रतसन्दर्शनं) नैष्टं प्रतीपं वानरऋक्षयोः ॥४०॥

ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः । चाषः सनकुलो वामो भृगुः आहापराह्णतः ॥४१॥

छिक्करः कुटपूरी च पिरिली चाह्नि दक्षिणाः । अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥४२॥

श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे । कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥४३॥

जालश्वचरणौ नैष्टौ प्राग्याम्यौ शस्त्रघातकौ । पश्चादासवषण्ढौ च खलासनहलानि उदक् ॥४४॥

कर्मसंगमयुद्धेषु प्रवेशे नष्टमार्गणे । यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥४५॥

दिवा प्रस्थानवद् ग्राह्याः कुरंगरुरुवानराः । अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥४६॥

पश्चिमे शर्वरीभागे नप्तृकोलूकपिंगलाः । सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥४७॥

नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत् । गिर्यरण्यप्रवेशेषु ( प्रवेशे च) नदीनां चावगाहने ॥४८॥

वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ । क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ ॥४९॥

तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ । शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये ॥५०॥

केचित् तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः । शकुनैः एकजातीयैः शान्तचेष्टाविराविभिः ॥५१॥

विसर्जयति यद्येक एकश्च प्रतिषेधति । स विरोधोऽशुभो यातुः ग्राह्यो यो ( वा) बलवत्तरः ॥५२॥

पूर्वं प्राविशिको ( प्रावेशेको) भूत्वा पुनः प्रास्थानिको भवेत् । सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् ( तद्विपर्ययः) ॥५३३॥

विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । प्राह यातुः अरेः मृत्युं डमरं रोगमेव वा ॥५४॥

अपसव्याः तु शकुना दीप्ता भयनिवेदिनः । आरंभे शकुनो दीप्तो वर्षान्तः तद्भयंकरः ॥५५॥

तिथिवाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम् । धनसैन्यबलांगेष्टकर्मणां स्युः भयंकराः ॥५६॥

जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । उभयोः सन्ध्ययोः दीप्ताः शस्त्रोद्भवभयंकराः ॥५७॥

चितिकेशकपालेषु मृत्युबन्धवधप्रदाः । कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ॥५८॥

अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः । कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलाः तु ते ॥५९॥

असिद्धिसिद्धिदौ ज्ञेयौ निर्हाराहार ( निर्हादाहार) कारिणौ । स्थानाद् रुवन् व्रजेद् यात्रां शंसते त्वन्यथागमम् ॥६०॥

कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः । उच्चमादौ स्वरं कृत्वा नीचं पश्चाग दोषकृत् ( मोषकृत्) ॥६१॥

एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामघातकः ( ग्रामघातकृत्) । पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात् ॥६२॥

सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः ( अशनाः) । सर्पमूषकमार्जारपृथुलोम ( रोम) विवर्जिताः ॥६३॥

परयोनिषु गच्छन्तो मैथुनं देशनाशनाः । अन्यत्र वेसरोत्पत्तेः नृणां चाजातिमैथुनात् ॥६४॥

बन्धघातभयानि स्युः पाद ऊरूमस्तकान्तिगैः । शष्पापः ( अपशष्प) पिशितान्नादैः दोषवर्षक्षय ( वर्षमोषक्षत) ग्रहाः ॥६५॥

क्रूरौग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः । चिरकालेन ( चिरकालैश्च) दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥६६॥

सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् । द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥६७॥

विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः । स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥६८॥

शान्तः पंचमदीप्तेन विरुतो विजयावहः । दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥६९॥

वामसव्यगतो ( रुतो) मध्यः प्राह स्वपरयोः भयम् । मरणं कथयन्ति एते सर्वे समविराविणः ॥७०॥

वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः । दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः ॥७१॥

शकटेनौन्नतस्थे वा ( च) छायास्थे छत्रसंयुते ( छत्रसम्युतः) । एकत्रिपंचसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥७२॥

सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुसंकराः क्रमशः । प्राच्याद्यानां पतयो दिशः पुमांसो अंगना विदिशः ॥७३॥

तरुतालीवदलांबरसलिलजशरचर्मपट्टलेखाः स्युः । द्वात्रिंशत्परविभक्ते दिक्चक्रे तेषु कार्याणि ॥७४॥

व्यायामशिखिनिकूजितकलहांभोनिगडमन्त्रगोशब्दाः । वर्णाः तु ( च) रक्तपीतककृष्णसिताः कोणगा मिश्राः ॥७५॥

चिह्नं ध्वजो दग्धमथ श्मशानं दरी जलं पर्वतयज्ञघोषाः । एतेषु संयोगभयानि विन्द्याद् अन्यानि वा स्थानविकल्पितानि ॥७६॥

स्त्रीणां विकल्पा बृहती कुमारी व्यंगा विगन्धा त्वथ नीलवस्त्रा । कुस्त्री प्रदीर्घा विधवा च ताश्च संयोगचिन्ता परिवेदिकाः स्युः ॥७७॥

8पृच्छासु रूप्यकनकातुरभामिनीनां 8मेषाव्ययानमखगोकुलसंश्रयासु । 8न्यग्रोधरक्ततरुरोध्रककीचकाख्याश् चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च ॥७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:39.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fiscal operation

  • राजकोषीय व्यवहार 
  • राजकोषीय व्यवहार 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.