TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५७

बृहत्संहिताः - अध्याय ५७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


प्रतिमालक्षणाध्यायः

जालान्तरगे भानौ यदणुतर दर्शन रजो याति । तद् विन्द्यात् परमाणु प्रथम तद्धि प्रमाणानाम् ॥१॥

परमाणुरजो बालाग्र ( वालाग्र) लिक्षयूक ( यूका) यवो अगुल चैति । अष्टगुणानि यथोत्तरमगुलमेक भवति सख्या ( मात्रा) ॥२॥

देवागारद्वारस्याष्टाशोनस्य यः तृतीयोऽशः । तत्पिण्डिकाप्रमाण प्रतिमा तद्द्विगुणपरिमाणा ॥३॥

स्वैः अगुलप्रमाणैः द्वादश वीस्तीर्ण ( विस्तीर्ण) आयत च मुखम् । नग्नजिता तु चतुर्दश दैर्घ्येण द्राविड कथितम् ॥४॥

नासाललाटचिबुकग्रीवाश्चतुरागुलाः तथा कर्णौ । द्वे अगुले च हनुनी ( हनुके) चिबुक च द्व्यगुल वितत ( विस्तृत) ॥५॥

अष्टागुल ललाट विस्ताराद् द्व्यगुलात् परे शखौ । चतुरगुलौ तु शखौ कर्णौ तु द्व्यगुलौ ( द्व्यग्गुल) पृथुलौ ॥६॥

कर्णोपान्तः कार्योऽर्धपचमे भ्रूसमेन सूत्रेण । कर्णस्रोतः सुकुमारकम् च नेत्र ( नयन) प्रबन्धसमम् ॥७॥

चतुरगुल वसिष्ठः कथयति नेत्रान्तकर्णयोः विवरम् । अधरो अगुलप्रमाणः तस्यार्धेनोत्त्रोष्ठश्च ॥८॥

अर्धागुला तु गोच्छा वक्त्र चतुरगुलायत कार्यम् । विपुल तु सार्धमगुलम् अव्यात्त त्र्यगुल ( अध्यात्तत्त्र्यग्गुल) व्यात्तम् ॥९॥

द्व्यगुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया । स्याद् द्व्यगुलमुच्छ्रायश्चतुरगुलमन्तर चाक्ष्णोः ॥१०॥

द्व्यगुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा । दृक्तारा पचाशो नेत्रविकाशो अगुल भवति ॥११॥

पर्यन्तात् पर्यन्त दश भ्रुवोऽर्धागुल भ्रुवोः लेखा । भ्रूमध्य द्व्यगुलक भूः धैर्घ्येणागुलचतुष्कम् ॥१२॥

कार्या तु केशरेखा भ्रूबन्धसमागुलार्धविस्तीर्णा । नेत्रान्ते करवीरकमुपन्यसेदनुगुलप्रमितम् ॥१३॥

द्वात्रिशत् परिणाहागतुर्दशायामतो अगुलानि शिरः । द्वादश तु चित्रकर्मणि दृश्यन्ते विशतिः अदृश्याः ॥१४॥

आस्य सकेशनिचय षोडश दैर्घ्येण नग्निजित् ( नग्नजित्) प्रोक्तम् । ग्रीवा दश विस्तीर्णा परिणाहाद् विशतिः सैका ॥१५॥

कण्ठाद् द्वादश हृदय हृदयान् नाभी ( नाभिः) च तत्प्रमाणेन । नाभीमध्याद् मेढ्रान्तर च तत्तुल्यमेवोक्तम् ॥१६॥

ऊरू चागुलमानैश्चतुर्युता विशतिः तथा जघे । जानुकपिच्छे चतुरगुले च पादौ च तत्तुल्यौ ॥१७॥

द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायतागुष्ठौ । पचागुलपरिणाहौ प्रदेशिनी त्र्यगुल दीर्घा ॥१८॥

अष्टान्शाशोनाः शेषागुल्यः ( शेषाग्गुलयः) क्रमेण कर्तव्याः । सचतुर्थभागमगुलमुत्सेधो अगुष्ठकस्यौक्तः ॥१९॥

अगुष्ठनखः कथितः चतुर्थभागोनमगुल तज्ञैः । शेषनखानामर्धागुल क्रमात् किचिदून वा ॥२०॥

जघाग्रे परिणाहश्चतुर्दशोक्तः तु विस्तरात् ( विस्तरः) पच । मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ॥२१॥

अष्टौ तु जानुमध्ये वैपुल्य त्र्यष्टक तु परिणाहः । विपुलौ चतुर्दश ऊरू मध्ये द्विगुणश्च तत्परिधिः ॥२२॥

कटिः अष्टादश विपुला चत्वारिशगतुर्युता परिधौ । अगुलमेक नाभी ( नाभिः) वेधेन तथा प्रमाणेन ॥२३॥

चत्वारिशद्द्वियुता नाभीमध्येन मध्यपरिणाहः । स्तनयोः षोडश चान्तरमूर्ध्व कक्ष्ये ( कक्षे) षडगुलिके ॥२४॥

अष्टावसौ द्वादश बाहू कार्यौ ( कार्यावष्टावसौ द्वादश बाहू) तथा प्रबाहू च । बाहू षड्विस्तीर्णौ ( षड्विस्तिर्णौ) प्रतिबाहू त्वगुलचतुष्कम् ॥२५॥

षोडश बाहू मूले परिणाहाद् द्वादशाग्रहस्ते च । विस्तारेण करतल षडगुल सप्त दैर्घ्येण ॥२६॥

पचागुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना । अनया तुल्या चानामिका कनिष्ठा तु पर्वोना ॥२७॥

पर्वद्वयमगुष्ठः शेषागुल्यः ( शेषाग्गुलयः) त्रिभिः त्रिभिः कार्याः । नखपरिमाण कार्य सर्वासाम् पर्वणोऽर्धेन ॥२८॥

देशानुरूपभूषणवेषालकारमूर्तिभिः कार्या । प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥२९॥

दशरथतनयो रामो बलिश्च वैरोचनिः शत विशम् । द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥३०॥

( विष्णु) कार्योऽष्टभुजो भगवाश्चतुर्भुजो द्विभुज एव वा विष्णुः । श्रीवत्साकितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥३१॥

अतसीकुसुमश्यामः पीताबरनिवसनः प्रसन्नमुखः । कुण्डलकिरीटधारी पीनगलौरःस्थलासभुजः ॥३२॥

खड्गगदाशरपाणिः दक्षिणतः शान्तिदश्चतुर्थकरः । वामकरेषु च कार्मुकखेटकचक्राणि शखश्च ॥३३॥

अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः । दक्षिणपार्श्वे त्व ( हि) एव वामे शखश्च चक्र च ॥३४॥

द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शखधरः । एव विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥३५॥

( हलधर) बलदेवो हलपाणिः मदविभ्रमलोचनश्च कर्तव्यः । विभ्रत् ( बिभ्रत्) कुण्डकमेक शखेन्दुमृणालगौरतनुः ( वपुः) ॥३६॥

एकानशा कार्या देवी बलदेवकृष्णयोः मध्ये । कटिसस्थितवामकरा सरोजमितरेण चौद्वहती ॥३७॥

कार्या चतुर्भुजा या वामकराभ्या सपुस्तक कमलम् । द्वाभ्या दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्र च ॥३८॥

वामो ऽथवाष्टभुजायाः ( वामेष्वष्टभुजायाः) कमण्डलुश्चापमबुज शास्त्रम् । वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥३९॥

शाबश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च । अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिशधारिण्यौ ॥४०॥

( ब्रह्मा अन्द् कुमार) ब्रह्मा कमण्डलुकरश्चतुर्मुखः पण्कजासनस्थश्च । स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ॥४१॥

( इन्द्र) शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । तिर्यग् ललाटसस्थ तृतीयमपि लोचन चिह्नम् ॥४२॥

( महेश्वर) शभोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि च ऊर्ध्वम् । शूल धनुः पिनाक वामार्धे वा गिरिसुतार्धम् ॥४३॥

( बुध) पद्माकितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च । पद्मासनौपविष्टः पिता इव जगतो भवति ( भवेत्) बुद्धः ॥४४॥

( अर्हत्) आजानुलबबाहुः श्रीवत्साकः प्रशान्तमूर्तिश्च । दिग्वासाः तरुणो रूपवाश्च कार्योऽर्हता देवः ॥४५॥

( भास्कर) नासाललाटजघ ऊरुगण्डवक्षासि चौन्नतानि रवेः । कुर्यादुदीच्यवेष गूढ पादादुरो यावत् ॥४६॥

बिभ्राणः स्वकररुहे बाहुभ्या ( पाणिभ्या) पकजे मुकुटधारी । कुण्डलभूषितवदनः प्रलबहारो वियद्ग ( वियग्ग) वृतः ॥४७॥

कमलौदरद्युतिमुखः कचुकगुप्तः स्मितप्रसन्नमुखः । रत्नौज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ॥४८॥

सौम्या तु हस्तमात्रा वदुदा हस्तद्वयोच्छ्रिता प्रतिमा । क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ॥४९॥

नृपभयमत्यगाया हीनागायामकल्यता कर्तुः । शातौदार्या क्षुद्भयमर्थविनाशः कृशागुलाया ( कृशाया च) ॥५०॥

मरण तु सक्षताया शस्त्रनिपातेन निर्दिशेत् कर्तुः । वामावनता पत्नी दक्षिणविनता हिनस्त्यायुः ॥५१॥

अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः । सर्वप्रतिमास्वेव शुभाशुभ भास्करोक्तसमम् ॥५२॥

लिगस्य वृत्तपरधि दैर्घ्येणासूत्र्य तत् त्रिधा विभजेत् । मूले तगतुरस्र ( चतुरश्र) मध्ये त्वष्टाश्रि वृत्तमतः ॥५३॥

चतुरस्र ( चतुरश्र) अवनिखाते मध्य कार्य तु पिण्डिकाश्वभ्रे । दृश्यौच्छ्रायेण समा समन्ततः पिण्डिका ( पिण्डका) श्वभ्रात् ॥५४॥

कृशदीर्घ देशघ्न पार्श्वविहीन पुरस्य नाशय । यस्य क्षत भवेद् मस्तके विनाशाय तल्लिगम् ॥५५॥

मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः । रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥५६॥

( यम, वरुण, कुबेर) दण्डी यमो महिषगो हसारूढश्च पाशभृद् वरुनः । नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ॥५७॥

प्रमथाधिपो गजमुखः प्रलबजठरः कुठारधारी स्यात् । एकविषाणो बिभ्रन्मूलककन्द सुनीलदलकन्दम ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:24.4070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

state mourning

  • पु. राज्य दुखवटा 
RANDOM WORD

Did you know?

हिंदू धर्मियांत विधवा स्त्रिया कुंकू का लावत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site