TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५

बृहत्संहिताः - अध्याय ५

बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


राहुचाराध्यायः

अमृतास्वादविशेषाग्छिन्नमपि शिरः किलासुरस्यैदम् । प्राणैः अपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥१॥

इन्दुअर्कमण्डलाकृतिः असितत्वात् किल न दृश्यते गगने । अन्यत्र पर्वकालाद् वरप्रदानात् कमलयोनेः ॥२॥

मुखपुच्छविभक्तांगं भुजंगमाकारमुपदिशन्त्यन्ये । कथयन्त्यमूर्तमपरे तमोमयं सैंहिकेयाख्याख्यम् ॥३॥

यदि मूर्तो भविचारी शिरोऽथवा भवति मण्डली राहुः । भगणार्धेनान्तरितौ ( तो) गृह्णाति कथं नियतचारः ॥४॥

अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य । पुच्छाननाभिधानोऽन्तरेण कस्मान् न गृह्णाति ॥५॥

अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति । मुखपुच्छान्तरसंस्थं स्थगयति कस्मान् न भगणार्धम् ॥६॥

राहुद्वयं यदि स्याद् ग्रस्तेऽस्तमितेऽथवा उदिते चन्द्रे । तत्समगतिनान्येन ग्रस्तः सूर्योऽपि दृश्यते ॥७॥

भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः । प्रग्रहणमतः पश्चान् नेन्दोः भानोश्च पूर्वार्धात् ॥८॥

वृक्षस्य स्वच्छाया यथा एकपार्श्वे ( न) भवति दीर्घचया ( दीर्घा च) । निशि निशि तद्वद् भूमेः आवरणवशाद् दिनेशस्य ॥९॥

सूर्यात् सप्तमराशौ यदि चौदग्दक्षिणेन नातिगतः । चन्द्रः पूर्वाभिमुखश्छायामौर्वीम् तदा विशति ॥१०॥

चन्द्रोऽधःस्थः स्थगयति रविमंबुदवत् समागतः पश्चात् । प्रतिदेशमतश्चित्रं दृष्टिवशाद् भास्करग्रहणम् ॥११॥

आवरणं महदिन्दोः कुण्ठविषाणः ततोऽर्धसंच्छन्नः । स्वल्पम् रवेः यतोऽतः तीक्ष्णविषाणो रविः भवति ॥१२॥

एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिः आचार्यैः । राहुः अकारणमस्मिन्न् इत्युक्तः शास्त्रसद्भावः ॥१३॥

योऽसौअसुरो राहुः तस्य वरो ब्रह्मणाऽयमाज्ञप्तः । आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥१४॥

तस्मिन् काले सान्निध्यमस्य तेनौपचर्यते राहुः । याम्योत्तरा शशिगतिः गणितेऽपि उपचर्यते तेन ॥१५॥

न कथंचिदपि निमित्तैः ग्रहणं विज्ञायते निमित्तानि । अन्यस्मिन्न् अपि काले भवन्त्यथौत्पातरूपाणि ॥१६॥

पंचग्रहसंयोगान् न किल ग्रहणस्य संभवो भवति । तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥१७॥

अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनया अवनत्या च । तिथ्यवसानाद् वेला करणे कथितानि तानि मया ॥१८॥

षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः । ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः ॥१९॥

ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणि ( द्विजपशुवृद्धिक्षेमारोग्याणि) सस्यसंपत्च । तद्वत् सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च ॥२०॥

एन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् । कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च ॥२१॥

वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम् । आग्नेयं मित्राख्यं सस्यारोग्याभयांबुकरम् ॥२२॥

याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम् । यदतः परं तदस्शुभं क्षुत्मारावृष्टिदं पर्व ॥२३॥

वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च । अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥२४॥

हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् । स्फुटगणितविदः कालः कथंचिदपि नान्यथा भवति ॥२५॥

यद्येकस्मिन् मासे ग्रहणं रविसोमयोः तदा क्षितिपाः । स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥२६॥

ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ । सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ॥२७॥

अर्धोदितौपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च । अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगेऽभ्युदितः ( अयुगाभ्युदितः) ॥२८॥

कर्षकपाखण्डि ( पाषण्डि) वणिक्क्षत्रियबलनायकान् द्वितीयांशे ( द्वितीयेऽशे) । कारुकशूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् ॥२९॥

मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः । तृणभुगमात्यान्तःपुरवैश्यघ्नः पंचमे खांशे ।

स्त्रीशूद्रान् षष्ठेऽशे दस्युप्रत्यन्तहा अस्तमयकाले । यस्मिन् खांशे मोक्षः तत्प्रोक्तानां शिवं भवति ॥३०॥

द्विजनृपतीन् उदगयने विट्शूद्रान् दक्षिणायने हन्ति । राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥३१॥

म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद् धुताशसक्तांश्च । सलिलचरदन्तिघाती याम्येनौदग् गवामशुभः ॥३२॥

पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥३३॥

पांचालकलिंगशूरसेनाः कांबोजौड्रकिरातशस्त्रवार्त्ताः । जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे ॥३४॥

गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः । पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथवा वृषे ॥३५॥

मिथुने प्रवरांगना नृपा नृपमात्रा बलिनः कलाविदः । यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥३६॥

आभीरान् शबरान् सपह्लवान् मल्लान् मत्स्यकुरूंछकान् अपि । पांचालान् विकलांश्च पीडयत्यन्नां चापि निहन्ति कर्कटे ॥३७॥

सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान् राजोपमान् नरपतीन् वनगोचरांश्च । षष्ठे तु सस्यकविलेखकगेयसक्तान् हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ॥३८॥

तुलाधरेऽवन्त्यपरान्त्यसाधून् वणिग्दशार्णान् मरुत ( भरुक) कच्छपांश्च । अलिनि अथौदुंबरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥३९॥

धन्विनि अमात्यवरवाजिविदेहमल्लान् पांचालवैद्यवणिजो विषमायुधज्ञान् । हन्यान् मृगे तु झषमन्त्रिकुलानि नीचान् मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥४०॥

कुंभेऽन्तर्गिरिजान् सपश्चिमजनान् भारोद्वहां तस्करान् आभीरान् दरद आर्यसिंहपुरकान् हन्यात् तथा बर्बरान् ।

मीने सागरकूलसागरजलद्रव्याणि वन्यान् ( मान्यान्) जनान् प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद् वदेत् ॥४१॥

सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः । आघ्रातं मध्यतमः तमोऽन्त्य इति ते दश ग्रासाः ॥४२॥

सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च । अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ॥४३॥

जिह्वोपलेढि ( जिह्वेवलेढि) परितः तिमिरनुदो मण्डलं यदि स लेहः । प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही ॥४४॥

ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथवा अपि अर्धम् । स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम् ॥४५॥

पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमः तिष्ठेत् । स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥४६॥

अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् । हन्यात् प्रधानभूपान् प्रधानदेशांश ( प्रधानदेशान् प्रधानभूपांश) च तिमिरमयः ॥४७॥

वृत्ते ग्रहे यदि तमः तत्क्षणमावृत्य दृश्यते भूयः । आरोहणमित्यन्योन्यमर्दनैः भयकरं राज्ञाम् ॥४८॥

दर्पण इवएकदेशे सबाष्प ( सवाष्प) निःश्वासमारुतोपहतः । दृश्येत आघ्रातं तत् सुवृष्टिवृद्ध्यावहं जगतः ॥४९॥

मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥५०॥

पर्यन्तेषुअतिबहुलं स्वल्पं मध्ये तमः ततोऽन्त्याख्ये । सस्यानामीतिभयं भयमस्मिं तस्कराणां च ॥५१॥

श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद् राहौ । अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥५२॥

हरिते रोगौल्बणता ( उल्वणता) सस्यानामीतिभिश्च विध्वंसः । कपिले शीघ्रगसत्त्वम्लेच्छध्वंशोऽथ दुर्भिक्षम् ॥५३॥

अरुणकिरणानुरूपे दुर्भिक्षावृष्तयो विहगपीडा । आधूम्रे क्षेमसुभिक्षमादिशेत्मन्दवृष्टिं च ॥५४॥

कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् । कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥५५॥

विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय । सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ॥५६॥

दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेत्मरकम् । अशनिभयसंप्रदायी पाटल ( पाटलि) कुसुमोपमो राहुः ॥५७॥

पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च । बालरविकमलसुरचापरूपभृत्शस्त्रकोपाय ॥५८॥

पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च । भौमः समरविमर्दं शिखिकोपं तस्करभयं च ॥५९॥

शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् । रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥६०॥

यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा । सुरपतिगुरुणावलोकिते तत्शममुपयाति जलैः इवाग्निः इद्धः ॥६१॥

ग्रस्ते क्रमान् निमित्तैः पुनः ग्रहो मासषट्कपरिवृद्ध्या । पवनौल्कापातरजः क्षितिकंपतमोऽशनिनिपातैः ॥६२॥

आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः । दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥६३॥

अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् । स्त्रीनृपयोधकुमारान् सह विद्वद्भिः बुधो हन्ति ॥६४॥

ग्रहणौपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः । सिन्धुतटवासिनामपि उदग्दिशं संश्रितानां च ॥६५॥

भृगुतनये राहुगते दाशेरक ( दसेरकाः) कैकयाः सयौधेयाः । आर्यावर्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥६६॥

सौरे मरुभवपुष्करसौराष्ट्रिक ( राष्त्रा) धातवोऽर्बुदान्त्यजनाः । गोमन्तपारियात्राश्रिताः ( गोमन्तः पारियात्रा) च नाशं व्रजन्त्याशु ॥६७॥

कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान् । कल्माषान् अथ शूरसेनसहितान् काशीश्च सन्तापयेत् ।

हन्याद् ( हन्याद् च) आशु कलिंगदेशनृपतिं सामात्यभृत्यं तमो । दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥६८॥

काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश्च हन्यादपरान्तकांश्च । ये सोमपाः तांश्च निहन्ति सौम्ये सुवृष्टिकृत् क्षेमसुभिक्षकृत्च ॥६९॥

पौषे द्विजक्षत्रजनोपरोधः ससेन्धवाख्याः कुकुरा विदेहाः । ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम् ॥७०॥

माघे तु मातृपितृभक्तवसिष्ठगोत्रान् स्वाध्यायधर्मनिरतान् करिणः तुरंगान् । वंगांगकाशिमनुजांश्च दुनोति राहुः वृष्टिं च कर्षकजनाभिमतां ( अनुमतां) करोति ॥७१॥

पीडाकरं फाल्गुनमासि पर्व वंगाश्मकावन्तिक ( वन्तक) मेकलानाम् । नृत्य ( नृत्त) ज्ञसस्यप्रवरांगनानां धनुष्करक्षत्रतपस्विनां च ॥७२॥

चैत्र्यां ( चैत्रे) तु चित्रकरलेखगेयसक्तान् । रूपोपजीविनिगमज्ञहिरण्यपण्यान् । पौण्ड्रौड्रकैकयजनान् अथ चाश्मकांश्च तापः स्पृशत्यमरपोऽत्र विचित्रवर्षी ॥७३॥

वैशाखमासे ( मासि) ग्रहणे विनाशमायान्ति कर्पासतिलाः समुद्गाः । इक्ष्वाकुयाउधेयशकाः कलिंगाः सोपप्लवाः ( सोपद्रवाः) किन्तु सुभिक्षमस्मिन् ॥७४॥

ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च । प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसंघाः ॥७५॥

आषाढपर्वणि उदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान् । गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेद् मण्डलवर्षमस्मिन् ॥७६॥

काश्मीरान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रजान् गान्धारान् अपि मध्यदेशसहितान् वृष्टो ग्रहः श्रावणे ।

कांबोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान् इमान् अन्यत्र प्रचुरान्नहृष्टमनुजैः धात्रीं करोत्यावृताम् ॥७७॥

कलिंगवंगान् मगधान् सुराष्ट्रान् म्लेच्छान् सुवीरान् दरदाश्मकांश ( दरदाज्छकांश) च । स्त्रीणां च गर्भान् असुरो निहन्ति सुभिक्षकृद् भाद्रपदेऽभ्युपेतः ॥७८॥

कांबोजचीनयवनान् सह शल्यहृद्भिः बाह्लीक ( वाल्हीक) सिन्धुतटवासिजनांश्च हन्यात् । आनर्त्त ( आनर्त) पौण्ड्रभिषजश्च तथा किरातान् दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृग ॥७९॥

हनुकुक्षिपायुभेदा द्विः द्विः संछर्दनं च जरणं च । मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोः मोक्षाः ॥८०॥

आग्नेय्यामपगमनं दक्षिणहनुभेदसंज्ञितं शशिनः । सस्यविमर्दो मुखरुग् नृपपीडा स्यात् सुवृष्टिश्च ॥८१॥

पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी । मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥८२॥

दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन् मोक्षः । पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥८३॥

वामः तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः । स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥८४॥

नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ । गुह्यरुग् अल्पा वृष्तिः द्वयोः तु राज्ञीक्षयो वामे ॥८५॥

पूर्वेण प्रग्रहणं कृत्वा प्राग् एव चापसर्पेत । संछर्दनमिति तत्क्षेमसस्यहार्दिप्रदं

प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् । क्षुत्शस्त्रभयौद्विग्ना न ( उद्विग्नाः क्व) शरणमुपयान्ति तत्र जनाः ॥८६॥

मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम । अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥८७॥

पर्यन्तेषु विमलता बहुलं मध्ये तमोऽन्ति ( अन्त) अदरणाख्यः । मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ॥८८॥

एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र । पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥८९॥

मुक्ते सप्ताहन्तः पांशुनिपातोऽन्नसंक्षयं कुरुते । नीहारो रोगभयं भूकंपः प्रवरनृपमृत्युम् ॥९०॥

उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् । स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥९१॥

परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयं । रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥९२॥

निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् । ग्रहयुद्धे ( ग्रहयुद्धं) नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥९३॥

अविकृतसलिलनिपातैः ( निपाते) सप्ताहान्तः सुभिक्षमादेश्यम् । यगाशुभं ग्रहणजं तत् सर्वं नाशन् उपयाति ॥९४॥

सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य । तत्रानयः प्रजानां दंपत्योः वैरमन्योन्यम् ॥९५॥

अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः । नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥९६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:50:58.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

transfer credit/debit

  • अंतरण जमाजमे 
RANDOM WORD

Did you know?

shreeyantra siddha kase karave ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site