TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८

बृहत्संहिताः - अध्याय ८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


बृहस्पतिचाराध्यायः

नक्षत्रेण सहौदयमुपगच्छति येन देवपतिमन्त्री । तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥१॥

वर्षाणि कार्त्तिकादीनि आग्नेयाद् भद्वयानुयोगीनि । क्रमशः त्रिभं तु पंचममुपान्त्यमन्त्यं च यद् वर्षम् ॥२॥

शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च । वृद्धिः तु रक्तपीतककुसुमानां कार्त्तिके वर्षे ॥३॥

सौम्येऽब्देऽनावृष्टिः मृगाखुशलभाण्डजैश्च सस्यवधः । व्ह्याधिभयं मित्रैः अपि भूपानां जायते वैरम् ॥४॥

शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः । द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥५॥

पितृपूजापरिवृद्धिः माघे हार्दिश्च सर्वभूतानाम् । आरोग्यवृष्टिधान्यार्घसंपदो मित्रलाभश्च ॥६॥

फाल्गुनवर्षे विन्द्यात् क्वचित् क्वचित् क्षेमवृष्टिसस्यानि । दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चौग्राः ॥७॥

चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः । वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥८॥

वैशाखे धर्मरता ( धर्मपरा) विगतभयाः प्रमुदिताः प्रजाः सनृपाः । यज्ञक्रियाप्रावृत्तिः निष्पत्तिः सर्वसस्यानाम् ॥९॥

ज्यैष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः । पीड्यन्ते धान्यानि च हित्वा कंगुं शमीजातिम् ॥१०॥

आषाढे जायन्ते सस्यानि क्वचिदवृष्टिः अन्यत्र । योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥११॥

श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति । क्षुद्रा ये पाखण्डाः ( पाषण्डाः) पीड्यन्ते ये च तद्भक्ताः ॥१२॥

भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च । न भवत्यपरं सस्यं क्वचित् सुभिक्षं क्वचिग भयम् ॥१३॥

आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणचयः प्राणभृताम् सर्वेषामन्नबाहुल्यम् ॥१४॥

उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥१५॥

विचरन् भद्वयमिष्टः तत्सार्धं वत्सरेण मध्यफलः । सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥१६॥

अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे । हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥॥

धूमाभेऽनावृष्टिः त्रिदशगुरौ नृपवधो दिवा दृष्टे । विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥१७॥

रोहिण्योऽनलभं च वत्सरतनुः नाभिः त्वषाढद्वयं सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् ।

देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं पुष्ये मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥१८॥

गतानि वर्षाणि शकेन्द्रकालाद् धतानि रुद्रैः गुणयेगतुर्भिः । नवाष्टपंचाष्ट युतानि कृत्वा विभाजयेत् शून्यशरागरामैः ॥१९॥

लब्धेन ( फलेन) युक्तं शकभूपालं ( भूपकालं) संशोध्य षष्ट्या विषयैः विभज्य । युगानि नारायणपूर्वकाणि लब्धानि शेषाः क्रमशः समाः स्युः ॥२०॥

एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण । हृत्वा चतुर्भिः वसुदेवताद्यानि उडूनि शेषांशकपूर्वमब्दम् ॥२१॥

विष्णुः सुरेज्यो बलभिद् धुताशः त्वष्टौत्तरप्रोष्ठपदाधिपश्च । क्रमाद् युगेशाः पितृविश्वसोम ( सोमाः) शक्रानलाख्याश्विभागाः प्रदिष्टाः ॥२२॥

संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली । प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥२३॥

वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये । पश्चाज्जलं मुंचति यगतुर्थं स्वल्पोदकं पंचममब्दमुक्तम् ॥२४॥

चत्वारि मुख्यानि युगानि अथैषां विष्णु इन्द्रजीवानलदैवतानि । चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यानि अधमानि विन्द्यात् ॥२५॥

आध्यं धनिष्टांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः । षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते ( प्रवर्तते) भूतहितः तदाब्दः ॥२६॥

क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः । संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनः तथापि ॥२७॥

तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लः तृतीयः परतः प्रमोदः । प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलानि अथैषां ( चैषां) ॥२८॥

निष्पन्नशालीक्षुयवादिसस्यां भयैः विमुक्तामुपशान्तवैराम् । संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥२९॥

आद्यो अंगिराः श्रीमुखभावसाह्वौ युवा सुधातेति ( युवाथ धातेति) युगे द्वितीये । वर्षाणि पंचैव यथाक्रमेण त्रीणि अत्र शस्तानि समे परे द्वे ॥३०॥

त्रिष्वाद्यवर्षेषु ( अंगिराद्येषु, आद्यवर्षेषु) निकामवर्षी देवी निरातंकभयः ( भयाः) च लोकः । अब्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश् च ॥३१॥

शाक्रे युगे पूर्वमथईश्वराख्यं वर्षं द्वितीयं बहुधान्यम् आहुः । प्रमाथिनं विक्रममपि अथान्यद् ( अतोऽन्यद्) वर्षं च विन्द्याद् गुरुचारयोगात् ॥३२॥

आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् । पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥३३॥

श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यगित्रभानुं कथयन्ति वर्षम् । मध्यं द्वितीयं तु सुभानुसन्ज्ञं रोगप्रदं मृत्युकरं नतं च ( न तग) ॥३४॥

तारणं तदनु भूरिवारिदं सस्यवृद्धिमुदिताति ( मुदितं च) पार्थिवम् । पंचमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥३५॥

त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी । तस्माद् विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥३६॥

नन्दनोऽथ विजयो जयः तथा मन्मथोऽस्य परतश्च दुर्मुखः । कान्तमत्र युग आदितः त्रयं मन्मथः समफलोऽधमोऽपरः ॥३७॥

हेमलंब इति सप्तमे युगे स्याद् विलंबि परतो विकारि च । शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पंचमः ॥३८॥

ईतिप्राया ( इतिप्रायः) प्रचुरपवना वृष्टिः अब्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये ।

अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥३९॥

वैश्वे युगे शोकहृद् ( शोभकृद्) इत्यथाद्यः संवत्सरोऽतः शुभकृद् द्वितीयः । क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥४०॥

पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः । अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिः द्विजगोभयं च ॥४१॥

आद्यः प्लवंगो नवमे युगेऽब्दः स्यात् कीलकोऽन्यः परतश्च सौम्यः । साधारणो रोधकृर्दित्यथैवं शुभपदौ ( अथाब्दः शुभप्रदौ) कीलकसौम्यसंज्ञौ ॥४२॥

कष्टः प्लवंगो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च । यः पंचमो रोधकृदित्यथाबश्चित्रम् जलम् तत्र च सस्यसंपत् ॥४३॥

इन्द्राग्निदैवं दशमं युगं यत्तत्राद्यवर्षं ( यत् तराद्यमब्दं) परिधाविसंज्ञम् ।

प्रमादिनं विक्रममपि अतोऽन्यत् ( प्रमाद्यथानन्दमतः परं यत्) । स्याद् राक्षसं चानलसंज्ञितम् च ॥४४॥

परिधाविनि मध्यदेशनाशो नृपहानिः जलमल्पमग्निकोपः । अलसः तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ॥४५॥

विक्रमः ( तत्परः) सकललोकनन्दनो राक्षसः क्षयकरोऽनलः तथा । ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदो ऽनलः ॥४६॥

एकादशे पिंगलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च । आद्ये तु व्षृटिः महती सचौरा श्वासो हनूकंपयुतश्च कासः ॥४७॥

यत् कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च । रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिः मध्यमवृष्टिकृत् सः ॥४८॥

भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति । अंगारसंज्ञं ( उद्गारिसंज्ञं) तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥४९॥

रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च । क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥५०॥

क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम् ।

उपचयकरं विट्शूद्राणां परस्वहृतां तथा कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥५१॥

अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः । ग्रहहतो न यदि सत्पथवर्ती हितकरो ( हतकिरो) ऽमरगुरुः मनुजानाम् ॥५२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:00.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

roll diameter

  • रुळ व्यास 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.