TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४५

बृहत्संहिताः - अध्याय ४५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


उत्पाताध्यायः

यान् अत्रेः ( अत्रि) उत्पातान् गर्गः प्रोवाच तान् अहं वक्ष्ये । तेषां संक्षेपोऽयं प्रकृतेः अन्यत्वमुत्पातः ॥१॥

अपचारेण नराणामुपसर्गः पापसंचयाद् भवति । संसूचयन्ति दिव्यान्तरिक्षभौमाः त उत्पाताः ( तदुत्पाताः) ॥२॥

मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शांस्तिं राष्ट्रे प्रयुञ्जीत ॥३॥

दिव्यं ग्रहऋक्षवैकृतमुल्कानिर्घातपवनपरिवेषाः । गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥४॥

भौमं चरस्थिरभवं तत्शान्तिभिः आहतं शममुपैति । नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥५॥

दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः । रुद्रायतने भूमौ गोदोहात् कोटिहोमाग ॥६॥

आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च ( लोकेषु) । पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥७॥

अनिमित्तभंगचलनस्वेदाश्रुनिपातजल्पनाद्यानि । लिंगार्चायतनानां नाशाय नरेशदेशानाम् ॥८॥

दैवतयात्राशकटाक्षचक्रयुगकेतुभंगपतनानि । संपर्यासनसादनसंगः ( संगाः) च न देशनृपशुभदाः ॥९॥

ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् । यद् रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥१०॥

गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् । स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ॥११॥

वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥१२॥

देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् । तन् नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥१३॥

रक्षः पिशाचगृह्यकनागानामेवं ( एतद्) एव निर्दिष्टं ( निर्देश्यं) । मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥१४॥

बुद्ध्वा देवविकारं शुचिः पुरोधाः त्र्यहौषितः स्नातः । स्नानकुसुमानुलेपनवस्त्रैः अभ्यर्चयेत् प्रतिमाम् ॥१५॥

मधुपर्केण पुरोधा भक्ष्यैः ( बक्षैः) बलिभिश्च विधिवदुपतिष्ठेत् । स्थालीपाकं जुहुयाद् विधिवन् मन्त्रैश्च तल्लिंगैः ॥१६॥

इति विबुधविकारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्यौत्सवाश्च । विधिवदवनिपालैः यैः प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥१७॥

राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । मनुजेश्वरस्य पीडा तस्य च राष्ट्रस्य विज्ञेया ॥१८॥

जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरेषु च नाशो वह्नेः भयं कुरुते ॥॥१९

प्रासादभवनतोरणकेत्वादिष्वननलेन दिग्धेषु । तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥२०॥

धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम् । व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥२१॥

नगरचतुष्पादन्ड ( दान्ड) जमनुजानां भयकरं ज्वलनमाहुः । धूमाग्निविस्फुलिंगैः शय्यांबरकेशगैः मृत्युः ॥२२॥

आयुधज्वलनसर्पणस्वनाः क्षनिर्गमनवेपनानि वा । वैकृतानि यदि वायुधेऽपराणि आशु रौद्ररणसंकुलं वदेत् ॥२३॥

मन्त्रैः आग्नेयैः ( वाह्नैः) क्षीरवृक्षात् समिद्भिः होतव्योऽग्निः सर्षपैः सर्पिषा च । अग्न्यादीनां वैकृते शान्तिः एवं देयं चास्मिन् कांचनं ब्राह्मणेभ्यः ॥२४॥

शाखाभंगेऽकस्माद् वृक्षाणां निर्दिशेद् रणोद्योगम् । हसन देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥२५॥

राष्ट्रविभेदः त्वनृतौ बालवधोऽतीव कुसुमिते बाले । वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ॥२६॥

मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः । स्नेहे दुर्भिक्षभयं महद्भयं निःस्रुते ( निःसृते) सलिले ॥२७॥

शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् । पतितानामुत्थाने स्वयं भयं दैवजनितं च ॥२८॥

पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् । धूमः तस्मिन् ज्वालाऽथवा भवेन् नृपवधायैव ॥२९॥

सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः । वृक्षाणां वैकृत्ये दशभिः मासैः फलविपाकः ॥३०॥

स्रग्गन्धधूपांबरपूजितस्य छत्रं विधायोपरि पादपस्य । कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षड् एव होमाः ( षडंगहोमः) ॥३१॥

पायसेन मधुनापि ( मधुना च) भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः । मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ॥३२॥

नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसंभवो मरणम् । कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥३३॥

अतिवृद्धिः सस्यानां नानाफलकुसुमसंभवो ( भवो) वृक्षे । भवति हि यद्येकस्मिन् परचक्रस्यागम्मो नियमात् ॥३४॥

अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् । अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत् ॥३५॥

विकृतकुसुमं फलम् वा ग्रामादथवा पुराद् वहिः कार्यम् । सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥३६॥

सस्ये च दृष्ट्वा विकृतिं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः । तस्यैव मध्ये चरुमत्र भौमं कृवा न दोषं समुपैति तज्जं ( तज्जान्) ॥३७॥

दुर्भिक्षमनावृष्टावतिवृष्टौ ( अनावृष्ट्यामतिवृष्ट्यां) क्षुद्भयं परभयं च ( सपरचक्रं) । रोगो ह्यनृतुभवायां नृपतिवधो ( नृपवधो) ऽनभ्रजातायाम् ॥३८॥

शीतोष्णविपर्यासो ( विपर्यासे) नो सम्यगृतुषु च संप्रवृत्तेषु । षण्मासाद् राष्ट्रभयं रोगभयं दैवजनितं च ॥३९॥

अन्यऋतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिः मरकः ॥४०॥

धान्यहिरण्यत्वक्फलकुसुमाद्यैः वर्षितैः भयं विन्द्यात् । अंगारपांशुवर्षे विनाशमायाति तन्नगरम् ॥४१॥

उपला विना जलधरैः विकृता वा प्राणिनो यदा वृष्टाः । छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसंजननम् ॥४२॥

क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां ( वारिणो) वर्षे । देशविनाशो ज्ञेयोऽसृग्वर्षे च अपि नृपयुद्धम् ॥४३॥

यद्यमलेऽर्के छाया न दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम् ॥४४॥

व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भ्यं सुमहत् ॥४५॥

सूर्येन्दुपर्जन्यसमीरणानां यागः ( योगः) स्मृतो वृष्टिविकारकाले । धान्यान्नगोकांचनदक्षिणाश्च देयाः ततः शान्तिमुपैति पापम् ॥४६॥

अपसर्पणं नदीनाम् नगरादचिरेण शून्यतां कुरुते । शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् ॥४७॥

स्नेहासृग्मांसवहाः संकुलकलुषाः प्रतीपगाश्चापि । परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥४८॥

ज्वालाधूमक्वाथारुदितौत्क्रुष्टानि चैव कूपानाम् । गीतप्रजल्पितानि च जनमरकायौपदिष्टानि ( प्रदिष्टानि) ॥४९॥

सलिल ( तोय) उत्पत्तिः अखाते गन्धरसविपर्यये च तोयानाम् । सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिमिमां ( इयं) ॥५०॥

सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैः मन्त्रैः । तैः एव च जपहोमं शममेवं पापमुपयाति ॥५१॥

प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसंप्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥५२॥

वडवा उष्ट्रमहिषगोहस्तिनीषु यमलौद्भवे रणमरणं ( मरणं) एषाम् । षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्गौक्तौ ॥५३॥

नार्यः परस्य विषये त्यक्तव्याः ता हितार्थिना । तर्पयेग द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥५४॥

चतुष्पादाः स्वयूथेभ्यः त्यक्तव्याः परभूमिषु । नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥५५॥

परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् । उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिपुत्रम् ॥५६॥

मासत्रयेण विन्द्यात् तस्मिन् निःसंशयं परागमनम् । तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥५७॥

त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् । तर्पयेद् ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥५८॥

स्थालीपाकेन धातारं पशुना च पुरोहितः । प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणम् ॥५९॥

यानं वाहवियुक्तं यदि गच्छेन् न व्रजेग वाहयुतम् । राष्ट्रभयं भवति तदा चक्राणां सादभंगे च ॥६०॥

गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् । मृत्युः तदा गदा वा विस्वतूर्ये ( विस्वरतार्ये) पराभिभवः ॥६१॥

अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥६२॥

गोलांगलयोः संगे दर्वीशूर्पाद्युपस्करविकारे । क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥६३॥

वायव्येष्वेषु न्र्पतिः वायुं शक्तुभिः अर्चयेत् । आवायोः इति पंचर्चो जप्तव्याः ( जाप्याश्च) प्रयतैः द्विजैः ॥६४॥

ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् । बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥६५॥

पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् । नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ॥६६॥

सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहंगा वा । दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥६७॥

श्येनाः ( श्वानः) प्ररुदन्त इव द्वारे क्रोशन्ति जंबुका दीप्ताः । प्रविशेन् नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥६८॥

कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः । प्रतिलोममण्डलचराः श्येनाद्याश्चांबरे भयदाः ॥६९॥

गृहचैत्यतोरणेषु द्वारेषु च पक्षिसंघसंपातः ( संपाताः) । मधुवल्मीकांभोरुहसमुद्भवः ( समुद्भवाः) चापि नाशाय ॥७०॥

श्वभिः अस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय । पशुशस्त्रव्याहारे नृपमृत्युः मुनिवचश्चेदम् ॥७१॥

मृगपक्षिविकारेषु कुर्याद् धीमान् ( धोमान्) सदक्षिणान् । देवाः कपोत इति च जप्तव्याः पंचभिः द्विजैः ॥७२॥

सुदेवा इति चैकेन देया गावः सदक्षिणाः ( च दक्षिणा) । जपेत्शाकुनसूक्तं वा मनो वेदशिरांशि च ॥७३॥

शक्रध्वजेन्द्रकीलस्तंभद्वारप्रपातभंगेषु । तद्वत् कपाटतोरणकेतूनां नरपतेः मरणम् ॥७४॥

सन्ध्याद्वयस्य दीप्तिः धूमौत्पत्तिश्च काननेऽनग्नौ । छिद्राभावे भूमेः दरणं कंपश्च भयकारी ॥७५॥

पाखण्डाणां ( पाषण्डाणां) नास्तिकानां च भक्तः साध्वाचारप्रोज्झितः क्रोधशीलः ।

ईर्ष्युः क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः ॥७६॥

प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः । निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ॥७७॥

अंगारगैरिकाद्यैः विकृतप्रेताभिलेखनं यस्मिन् । नायकचित्रितमथवा क्षये क्षयं याति न चिरेण ॥७८॥

लूतापटांगशबलं न सन्ध्ययोः पूजितं कलहयुक्तम् । नित्यौच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति ॥७९॥

दृष्टेषु यातुधानेषु निर्दिशेन् मरकमाशु संप्राप्तम् । प्रतिघातायैतेषां गर्गः शान्तिं चकारैमाम् ॥८०॥

महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च । कारयेत महेन्द्रं च माहेन्द्रीं ( महेन्द्रीभिः) च समर्चयेत् ॥८१॥

नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः । उत्पातानां प्रभवः स्वऋतुभवश्चाप्यदोषाय ॥८२॥

ये च न दोषान् जनयन्त्युत्पाताः तान् ऋतुस्वभावकृतान् । ऋषिपुत्रकृतैः श्लोकैः विद्यादेतैः समासौक्तैः ॥८३॥

वज्राशनिमहीकंपसन्ध्यानिर्घातनिःस्वनाः । परिवेषरजोधूमरक्तार्कास्तमय ( अस्तमन) उदयाः ॥८४॥

द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलौद्गमाः । गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥८५॥

तारा उल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥८६॥

रक्तपद्मारुणा ( अरुणं) सन्ध्या ( सन्ध्यं) नभः क्षुब्धार्णवौपमम् । सरितां चांबुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥८७॥

शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । कंपौद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥८८॥

सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः । सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥८९॥

दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवाऽबरे ॥९०॥

गीतवादित्रनिर्घोषा वनपर्वतसानुषु । सस्यवृद्धिः अपां हानिः अपापाः शरदि स्मृताः ॥९१॥

शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमनुषी ॥९२॥

दिशो धूमान्धकाराश्च सनभोवनपर्वताः । उच्छैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥९३॥

हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् । कृष्णाञ्जनाभमाकाशं तारा उल्कापातपिञ्जरम् ॥९४॥

चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्रांकुरलतानां च विकाराः शिशिरे शुभाः ॥९५॥

ऋतुस्वभावजा ह्येते दृष्टाः स्वऋतौ शुभप्रदाः । ऋतोः अन्यत्र चौत्पाता दृष्टाः ते चातिदारुणाः ( बृशदारुनाः) ॥९६॥

उन्मत्तानां च या गाथाः शिशूनां यग भाषितं ( भाषितं च यत्) । स्त्रियो यग प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥९७॥

पूर्वं चरति देवेषु पश्चागरति ( गच्छति) मानुषान् । नाचोदिता वाग् वदति सत्या ह्येषा सरस्वती ॥९८॥

उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च । एतत् तन्मुनिवचनं रहस्यमुक्तं यज्ञात्वा भवति नरः त्रिकालदर्शी ॥९९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:18.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

औचित्यप्रश्न

  • ना. नियमापत्ती , हरकतीचा मुद्दा . 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site