संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४८

बृहत्संहिताः - अध्याय ४८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः । तत् संक्षेपः क्रियते मयाऽत्र सकलार्थसंपन्नः ॥१॥

पट्टः शुभदो राज्णां मध्येऽष्टावंगुलानि विस्तीर्णः । सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥२॥

चतुरंगुलविस्तारः पट्टः सेनापतेः भवति मध्ये । द्वे च प्रसादपट्टः पंचैते कीर्तिताः पट्टाः ॥३॥

सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः । सर्वे च शुद्धकांचनविनिर्मिताः श्रेयसो वृद्ध्यै ॥४॥

पंचशिखो भूमिपतेः त्रिशिखो युवराजपार्थिवमहिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥५॥

क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । वृद्धिजयौ भूमिपतेः तथा प्रजानां च सुखसंपत् ॥६॥

जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । मध्ये स्फुटितः त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥७॥

अशुभनिमित्तौत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद् राज्ञः । शस्तनिमित्तः पट्टो नृपराष्ट्रविवृद्धये भवति ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP