संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७५

बृहत्संहिताः - अध्याय ७५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


रक्तेऽधिके स्त्री पुरुषः तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये । यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ॥१॥

हर्म्यपृष्ठमुडुनाथरश्मयः सौत्पलं मधु मदालसा प्रिया । वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ॥२॥

माक्षीकधातुमधुपारदलोहचूर्ण- पथ्याशिल्जतुघृतानि समानि ( जतुविडग्गघृतानि) योऽद्यात् । सैकानि विंशतिः अहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यव्बलां युवा इव ॥३॥

क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति । माषान् पयःसर्पिषि वा विपक्वान् षड्ग्रासमात्रांश्च पयोऽनुपानं ( अनुपानान्) ॥४॥

विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुः भावितशोषितं च । शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः ॥५॥

धात्रीफलानां स्वरसेन चूर्णं सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ्वानु पीत्वा च पयोऽग्निशक्त्या कामं निकामं पुरुषो निषेवेत् ॥६॥

क्षीरेण बस्ताण्डयुजा शृतेन संप्लाव्य कामी बहुशस्तिलान् यः । सुशोषितान् अत्ति पयः पिबेच् ( पिबेत् पयः) च तस्याग्रतः किं चटकः करोति ॥७॥

माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । क्षीरमपि अनु पिबन्ति तासु ते शर्वरीषु मदनेन ( मदने न) शेरते ॥८॥

तिलाश्वगन्धाकपिच्छुमूलैः विदारिकाषष्टिकपिष्टयोगः । आजेन पिष्टः पयसा घृतेन पक्वं ( पक्त्वा) भवेत्शुष्कलिकातिवृष्या ॥९॥

क्षीरेण वा गोक्षुरकौपयोगं विदारिकाकन्दकभक्षणं वा । कुर्वन् न सीदेद् यदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥१०॥

साजमोदलवणा हरीतकी शृंगवेरसहिता च पिप्पली । मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥११॥

अत्यम्लतिक्तलवणानि कटूनि वाऽत्ति यः क्षारशाकबहुलानि ( क्षारशाकबहुलानि) च भोजनानि । दृक्षुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्न् इव युवाऽपि अबलामवाप्य ॥१२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP