TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०३

बृहत्संहिताः - अध्याय १०३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ग्रहगोचराध्यायः

प्रायेण सूत्रेण विनाकृतानि प्रकाशरन्ध्राणि चिरन्तनानि । रत्नानि शास्त्राणि च योजितानि नवैः गुणैः भूषयितुं क्षमाणि ॥१॥

प्रायेण गोचरो व्यवहार्योऽतः तत्फलानि वक्ष्यामि । नानावृत्तैः आर्या ( तन्नो) मुखचपलत्वं क्षमध्वं नःक्षमन्त्वार्याः) ॥२॥

माण्डव्यगिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम् । साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला ॥३॥

सूर्यः षट्त्रिदशस्थितः त्रिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ । सौम्यः षड्द्विचतुर्दशाष्टमगतः सूर्ये ( सर्वे) ऽपि उपान्ते शुभाः शुक्रः सप्तमषड्दशऋक्षसहितः शार्दूलवत् त्रासकृत् ॥॥

जन्मनि आयासदोऽर्कः क्षपयति विभवान् कोष्ठरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति च न सुखं वंचनां दृग्रुजं च । स्थानप्राप्तिं तृतीये धननिचयमुदा कल्यकृच्चारिहर्ता ( हन्ता) रोगान् दत्ते ( धत्ते) चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥४॥

पीडाः स्युः पंचमस्थे सवितरि बहुशो रोगारिजनिताः षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश्च नुदति । अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुते । रुक्त्रासौ ( रुक्कासौ) चाष्टमस्थे भवति सुवदना न स्वापि वनिता ॥५॥

रवावापद्दैन्यं रुग् इति नवमे वित्त ( चित्त) चेष्टाविरोधो जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण । जयस्थानं ( जयं स्थानं) मानं विभवमपि चैकादशे रोगनाशं सुवृत्तानां चेष्टा भवति सफला द्वादशे नैतरेषाम् ॥६॥

शशी जन्मनि अन्नप्रवरशयनाच्छादनकरो द्वितीये मानार्थान् ( मानार्थौ) ग्लपयति सविघ्नश्च भवति । तृतीये वस्त्रस्त्रीधनविजय ( निचय) सौख्यानि लभते चतुर्थेऽविश्वासः शिखरिणि भुजंगेन सदृशः ॥७॥

दैन्यं व्याधिं शुचमपि शशी पंचमे मार्गविघ्नं षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च । यानं मानं शयनमशनं सप्तमे वित्तलाभं मन्द आक्रान्ते फणिनि हिमगौ च अष्टमे भीः न कस्य ॥८॥

नवमगृहगो बन्धौद्वेगश्रमौदररोगकृद् दशमभवने च आज्ञाकर्मप्रसिद्धिकरः शशी । उपचयसुहृत्संयोगार्थप्रमोदमुपान्त्यगो वृषभचरितान् दोषान् अन्त्ये ( अन्ते) करोति च ( हि) सव्ययान् ॥९॥

कुजेऽभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः । भृशं च पित्तानलचौररोगैः ( रोगचौरैः) उपेन्द्रवज्रप्रतिमोऽपि यः स्यात् ॥१०॥

तृतीयगश्चौरकुमारकेभ्यो भौमः सकाशात् फलमादधाति । प्रदीप्तिमाज्ञां धनमौर्णिकानि धात्वाकर आख्यानि किल अपराणि ॥११॥

भवति धरणिजे चतुर्थगे ज्वरजठरगदासृगुद्भवः । कुपुरुषजनिताग संगमात् प्रसभमपि करोति च अशुभम् ॥१२॥

रिपुगदकोपभयानि पंचमे तनयकृताश्च शुचो महीसुते । द्युतिः अपि न अस्य चिरं भवेत् स्थिरा शिरसि कपेः इव मालती यथा ( कृता) ॥१३॥

रिपुभयकलहैः विवर्जितः सकनकविद्रुमताम्रकामगः ( कागमः) । रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते ॥१४॥

कलत्रकलहाक्षिरुग्जठररोगकृत् सप्तमे क्षरत्क्षतजरूक्षितः क्षपित ( क्षयित) वित्तमानोऽष्टमे । कुजे नवमसंस्थिते परिभवार्थनाश आदिभिः विलंबितगतिः भवत्यबलदेहधातुक्लमैः ॥१५॥

दशमगृहगते समं महीजे विविधधन आप्तिरुपान्त्यगे जयश्च । जनपदमुपरि स्थितश्च भुंक्ते वनमिव षट्चरणः सुपुष्पिताग्रम् ॥१६॥

नानाव्ययैः द्वादशगे महीसुते सन्ताप्यतेऽनर्थशतैश्च मानवः । स्त्रीकोपपित्तैश्च सनेत्रवेदनैः योऽपि इन्द्रवंशाभिजनेन गर्वितः ॥१७॥

दुष्टवाक्यपिशुनाहितभेदैः बन्धनैः सकलहैश्च हृतस्वः । जन्मगे शशिसुते पथि गच्छन् स्वागतेऽपि कुशलं न शृणोति ॥१८॥

परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदय आप्तिः ( सुहृदाप्तिः) । नृपतिशत्रुभयशंकितचितो ( चित्तो) द्रुतपदं व्रजति दुश्चरितैः स्वैः ॥१९॥

चतुर्थगे स्वजनकुटुंबवृद्धयो धनागमो भवति च शीतरश्मिजे । सुतस्थिते तनयकलत्रविग्रहो निषेवते न च रुचिरामपि स्त्रियम् ॥२०॥

सौभाग्यं विजयमथ उन्नतिं च षष्ठे वैवर्ण्यं कलहमतीव सप्तमे ज्ञः । मृत्युस्थे जयसुत ( सुतजय) वस्त्रवित्तलाभा नैपुण्यं भवति मतिप्रहर्षणीयम् ॥२१॥

विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च । सप्रमदं शयनं च विधत्ते तद्गृहदो ऽथ कथां स्तरणं च ( कथास्तरणं) ॥२२॥

धनसुतसुख ( सुखसुत) योषिन्मित्रवाह ( वाह्य) आप्तितुष्टिः तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः । रिपुपरिभवरोगैः पीडितो द्वादशस्थे न सहति परिभोक्तुं मालिनीयोगसौख्यम् ॥२३॥

जीवे जन्मनि अपगतधनधीः स्थानभ्रष्टो बहुकलहयुतः । प्राप्य अर्थेऽर्थान् व्यरिः अपि कुरुते कान्ताआस्याब्जे भ्रमरविलसितम् ॥२४॥

स्थानभ्रंशात् कार्यविघाताग तृतीये अनेकैः ( नैकैः) क्लेशैः बन्धुजनोत्थैश्च चतुर्थे । जीवे शान्तिं पीडितचित्तश्च स विन्देद् ( विन्देन्) नैव ग्रामे नापि वने मत्तमयूरे ॥२५॥

जनयति च तनयभवनमुपगतः परिजनशुभसुतकरितुरगवृषान् । सकनकपुरगृहयुवतिवसनकृन् मणिगुणनिकरकृदपि विबुधगुरुः ॥२६॥

न सखीवदनं तिलकोज्ज्वलं न च वनं ( भवनं) शिखिकोकिलनादितम् । हरिणप्लुतशावविचित्रितं रिपुगते मनसः सुखदं गुरौ ॥२७॥

त्रिदशगुरुः शयनं रतिभोगं धनमशनं कुसुमानि उपवाह्यम् । जनयति सप्तमराशिमुपेतो ललितपदां च गिरं धिषणां च ॥२८॥

बन्धं व्याधिम् चाष्टमे शोकमुग्रं मार्गक्लेशं) क्लेशान् मृत्युतुल्यांश्च रोगान् । नैपुण्याआज्ञापुत्रकर्मार्थसिद्धिं धर्मे जीवः शालिनीनां च लाभम् ॥२९॥

स्थानकल्यधनहा दशऋक्षगः तत्प्रदो भवति लाभगो गुरुः । द्वादशेऽध्वनि विलोमदुःखभाग् याति यद्यपि नरो रथोद्धतः ॥३०॥

प्रथमगृहौपगो भृगुसुतः स्मरौपकरणैः सुरभिमनोज्ञगन्धकुसुमांबरैरुपचयम् । शयनगृहासनाशनयुतस्य च अनुकुरुते समदविलासिनीमुखसरोजषट्चरणताम् ॥३१॥

शुक्रे द्वितीयगृहगे प्रसवार्थधान्य- भूपालसन्नत ( सन्नति) कुटुंबहितानि अवाप्य । संसेवते कुसुमरत्नविभूषितश्च कामं वसन्ततिलकद्युतिमूर्धजोऽपि ॥३२॥

आज्ञा अर्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुः तृतीये । दत्ते ( धत्ते) चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रप्रतिमां च शक्तिम् ॥३३॥

जनयति शुक्रः पंचमसंस्थो गुरुपरितोषं बन्धुजनाप्तिम् । सुतधनलब्धिं मित्रसहायान् अनवसितत्वं च अरिबलेषु ॥३४॥

षष्ठो भृगुः परिभवरोगतापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम् । यातोऽष्टमं भवनपरिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥३५॥

नवमे तु धर्मवनितासुखभाग् भृगुजेऽर्थवस्त्रनिचयश्च भवेत् । दशमेऽवमानकलहान् नियमात् प्रमिताक्षराणि अपि वदन् लभते ॥३६॥

उपान्त्यगो भृगो सुतः सुहृद्धनान्नगन्धदः । धनांबर आगमोऽन्त्यगः स्थिरः तु नांबर आगमः ॥३७॥

प्रथमे रविजे विषवह्निहतः स्वजनैः वियुतः कृतबन्धुवधः । परदेशमुपैत्यसुहृद्भवनो विमुखार्थसुतोऽटकदीनमुखः ॥३८॥

चारवशाद् द्वितीयगृहगे दिनकरतनये रूपसुखापवर्जिततनुः विगतमदबलः । अन्यगुणैः कृतं वसुचयम् तदपि खलु भवत्य्- अंब्विव वंशपत्रपतितं न बहु न च चिरम् ॥३९॥

सूर्यसुते तृतीयगृहगे धनानि लभते दासपरिच्छदौष्ट्रमहिषा अश्वकुञ्जरखरान् । सद्मविभूतिसौख्यममितं गदव्युपरमं भीरुः अपि प्रशास्त्यधिरिपूंश्च वीरललितैः ॥४०॥

चतुर्थं गृहं सूर्यपुत्रेऽभ्युपेते सुहृद्वित्तभार्य आदिभिः विप्रयुक्तः । भवत्यस्य सर्वत्र चासाधु दुष्टं भुजंगप्रयातानुकारं च चित्तम् ॥४१॥

सुतधनपरिहीणः पंचमस्थे प्रचुरकलहयुक्तश्च अर्कपुत्रे । विनिहतरिपुरोगः षष्ठयाते पिबति च वनिताआस्यं श्रीपुटोष्ठम् ॥४२॥

गच्छत्यध्वानं सप्तमे च अष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः । तद्वद् धर्मस्थे वैरहृद्रोगबन्धैः धर्मोऽपि उच्छिद्येद् वैश्वदेवीक्रियाद्यः ॥४३॥

कर्मप्राप्तिः दशमेऽर्थक्षयश्च विद्याकीर्त्योः परिहानिश्च सौरे । तैक्ष्ण्यं लाभे परयोषार्थलाभः ( लाभा) च अन्त्ये ( अन्ते) प्राप्नोत्यपि शोक ऊर्मिमालाम् ॥४४॥

अपि कालमपेक्ष्य च पात्रं शुभकृद् विदधात्यनुरूपम् । न मधौ बहु कं कुडवे वा ( च) विसृजत्यपि मेघवितानः ॥४५॥

रक्तैः पुष्पैः गन्धैः ताम्रैः कनकवृषबकुलकुसुमैः दिवाकरभूसुतौ भक्त्या पूज्याविन्दुः धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः । कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलककुसुमैः गुरुः परिपीतकैः प्रीतैः पीडा न स्यादुच्चाद् यदि पतति विशति यदि वा भुजंगविजृंभितम् ॥४६॥

शमयौद्गतामशुभदृष्टिमपि विबुधविप्रपूजया । शान्तिजपनियमदानदमैः सुजनाभिभाषणसमागमैः तथा ॥४७॥

रविभौमौ पूर्वार्धे शशिसौरौ कथयतोऽन्त्यगौ राशेः । सदसल्लक्षणमार्यगीत्युपगीत्योः यथासंख्यम् ॥४८॥

आदौ यादृक् सौम्यः पश्चादपि तादृशो भवति । उपगीतेः मात्राणां गणवत् सत्संप्रयोगो वा ॥४९॥

आर्याणामपि कुरुते विनाशमन्तर्गुरुः विषमसंस्थः । गण इव षष्ठे दृष्टः स ( च) सर्वलघुतां जनं ( गतो) नयति ॥५०॥

अशुभनिरीक्षितः शुभफलो बलिना बलवान् अशुभफलप्रदश्च शुभदृग्विषयोपगतः । अशुभशुभावपि स्वफलयोः व्रजतः समताम् इदमपि गीतकं च खलु नर्कुटकं च यथा ॥५१॥

नीचेऽरिभेऽस्ते च अरिदृष्टस्य ( अरि) सर्वं वृथा यत् ( यथा) परिकीर्तितम् । पुरतोऽन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम् ॥५२॥

सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश् छन्दतः समनुयाति यथा । स्कन्धकमार्यगीतिः वैतालीयं च मागधी गाथाआर्याम् ॥५३॥

सौरोऽर्करश्मियोगात् ( रागात्) सविकारो लब्धवृद्धिः अधिकतरम् । पित्तवदाचरति नृणां पथ्यकृतां न तु तथाआर्याणाम् ॥५४॥

यादृशेन ग्रहेणेन्दुः युक्तः तादृग् भवेत् सोऽपि । मनोवृत्तिसमायोगाद् विकार इव वक्त्रस्य ॥५५॥

पंचमं लघु सर्वेषु ( सर्वपादेषु) सप्तमं द्विचतुर्थयोः । यद्वत्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः ॥५६॥

प्रकृत्य अपि लघुः यश्च वृत्तबाह्ये व्यवस्थितः । स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ॥५७॥

प्रारब्धमसुस्थितैः ग्रहैः यत् कर्म आत्मविवृद्धये बुधैः ( ऽबुधैः) । विनिहन्ति तदेव कर्म तान् वैतालीयमिव अयथाकृतम् ॥५८॥

सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा । अणुना अपि स पौरुषेण वृत्त्यौ ( वृत्तस्यौ) पच्छन्दसिकस्य याति पारम् ॥५९॥

( १) उपचयभवनौपयातस्य भानोः दिने कारयेद् - धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौर - आयुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादि- गोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूर आहवश्लाघ्ययाय्य - ( याज्या) अग्निकर्माणि ( कार्याणि) सिद्ध्यन्ति लग्नस्थिते वा रवौ । ( २) शिशिरकिरणवासरे तस्य व अपि उद्गमे केन्द्रसंस्थेऽथवा - भूषणं शंखमुक्ता अब्जरूप्यांबुयज्ञैक्षुभोज्यांगनाक्षीर- सुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्यविप्राध्वगीत - ( विप्राश्वशीत) क्रियाशृंगिकृष्यादिसेनाधिप - आक्रन्दभूपालसौभाग्यनक्तंचरश्लैष्मिकद्रव्यमातुल्य ( मातुंग) - पुष्पांबरारंभसिद्धिः भवेत् । ( ३) क्षितितनयदिने प्रसिद्ध्यन्ति ( प्रसिध्यन्ति) धात्वाकरादीनि - सर्वाणि कार्याणि चामीकराग्निप्रवाल आयुधक्रौर्यचौर्याभिघाताट- वीदुर्गसेनाधिकाराः - तथा रक्तपुष्पद्रुमा रक्तमन्यग तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः - कुमारा भिषक्षाक्यभिक्षुक्षपावृत्तिकोशेश ( कौशेय) शाठ्यानि - सिद्ध्यन्ति ( सिध्यन्ति) दंभाः तथा । ( ४) हरति ( हरित, हरित) मणिमहीसुगन्धीनि वस्त्राणि साधारणं - नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो - मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूताः तथाऽऽयुष्यमायानृतस्नानह्रस्वाणि - दीर्घाणि मध्यानि च छन्दतः ( च्छन्दनः) चण्डवृष्टिप्रयातानुकारीणि - कार्याणि सिद्ध्यन्ति ( सिध्यन्ति) सौम्यस्य लग्नेऽह्नि वा ॥६०॥

सुरगुरुदिवसे कनकं रजतं तुरगाः करिणो वृषभा - भिषगौषधयः ( ओषधयः) । द्विजपितृसुरकार्यपुरःस्थितघर्म ( धर्म) निवारणचामरभूषणभूपतयः । विबुधभवनधर्मसमाश्रयमंगलशास्त्रमनोज्ञबलप्रदसत्यगिरः । व्रतहवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ॥६१॥

भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनौपभोगरम्यभूमयः । स्फटिकरजतमन्मथौपचारवाहनैक्षुशारद- प्रकारगोवणिक्कृषीवलौषधांबुजानि च । सवितृसुतदिने च कारयेन् - महिष्यजौष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान् । च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च - अन्यथा न साधयेत् समुद्रगोऽपि अपां कणम् ॥६२॥

विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत् । श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरोऽतः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:48.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोळा असणें

  • एखाद्या वस्‍तूची प्राप्ति व्हावी अशी इच्छा मनात वागविणें. डोळा ठेवणें पहा. ‘पण मध्ये काही घोटाळा होण्याची चिन्हे दिसूं लागली. मुंबईच्या जागेवर दोघांतिघांचा डोळा होता. त्‍यांच्या खटपटी चाललेल्‍याच होत्‍या.’ -पकोघे. 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site