TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४७

बृहत्संहिताः - अध्याय ४७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


पुष्यस्नानाध्यायः

मूलं मनुजाधिपतिः प्रजातरोः तदुपघातसंस्कारात् । अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥१॥

या व्याख्याता शान्तिः स्वयंभुवा सुरगुरोः महेन्द्रार्थे । तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥२॥

पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् । नातः परं पवित्रं सर्वौत्पातान्तकरमस्ति ॥३॥

श्लेष्मातकाक्षकन्टकिकटुतिक्तविगन्धिपादपविहीने । कौशिकगृध्रप्रभृतिभिः अनिष्टविहगैः परित्यक्ते ॥४॥

तरुणतरुगुल्मवल्लीलताप्रतानान्विते ( वृते) वनोद्देशे । निरुपहतपत्रपल्ल्वमनोज्ञमधुरद्रुमप्राये ॥५॥

कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः । क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥६॥

कुसुमरसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः । विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ॥७॥

हृदिनी ( ह्रदिनी) विलासिनीनां जलखगनखविक्षतेषु रम्येषु । पुलिनजघनेषु कुर्याद् दृक्मनसोः प्रीतिजननेषु ॥८॥

प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसोद्गीते । फुल्लेन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ॥९॥

प्रोत्फुल्लकमलवदनाः कलहंसकल ( अद्द्।स्वन) प्रभाषिण्यः । प्रोत्तुंगकुड्मलकुचा यस्मिन् नलिनीविलासिन्यः ॥१०॥

कुर्याद् गोरोमन्थजफेनलवशकृत्खुरक्षतौपचिते । अचिरप्रसूतहुंकृतवल्गितवत्सौत्सवे गोष्ठे ॥११॥

अथवा समुद्रतीरे कुशलागतरत्नपोत ( पोतरत्न) संबाधे । घननिचुललीनजलचरसितखगशबलीकृतोपान्ते ॥१२॥

क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते येषु ( यत्र) । दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथवा ॥१३॥

कांचीकलापनूपुरगुरुजघनौद्वहनविघ्नितपदाभिः । श्रीमति मृगेक्षणाभिः गृहेऽन्यब्भृतवल्गुवचनाभिः ॥१४॥

पुण्येष्वायतनेषु च तीर्थेषूद्यानरम्यदेशेषु । पूर्वोदक्प्लवभूमौ प्रदक्षिणांभोवहायां च ॥१५॥

भस्मांगारास्थ्यूषरतुषकेशश्वभ्रकर्कटावासैः । श्वाविध ( श्वाविन्) मूषकविवरैः वल्मीकैः या च सन्त्यक्ता ॥१६॥

धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय । सेनावासेऽपि एवं योजयितव्या यथायोगम् ॥१७॥

निष्क्रम्य पुरान् नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् । कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥१८॥

लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् । आवाहनमथ मन्त्रः तस्मिन् मुनिभिः समुद्दिष्टः ॥१९॥

( मन्त्र ४७।२०- २१) आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये चाप्यन्ये ( चानेयपि) ऽशभागिनः ॥२०॥

आवाह्यएवम् ततः सर्वान् एवं ब्रूयात् पुरोहितः । श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ॥२१॥

आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुः ते । सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥२२॥

अपरेऽहनि प्रभाते संभारान् उपहरेद् यथोक्तगुणान् । गत्वाऽवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ॥२३॥

तस्मिन् मण्डलमालिख्य कल्पयेत् तत्र मेदिनीम् । नानारत्नाकरवतीं स्थानानि विविधानि च ॥२४॥

पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितुन् । गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ॥२५॥

ग्रहांश्च सर्व ( सह) नक्षत्रै रुद्रांश्च सह मातृभिः । स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः ॥२६॥

वर्णकैः विविधैः कृत्वा हृद्यैः गन्धगुणान्वितैः । यथास्वं पूजयेद् विद्वान् गन्धमाल्यानुलेपनैः ॥२७॥

भक्ष्यैः अन्नैश्च विविधैः फलमूलामिषैः तथा । पानैश्च ( पानकैः) विविधैः हृद्यैः सुराक्षीरासवादिभिः ॥२८॥

कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम् । ग्रहयज्ञे यः प्रोक्तो विधिः ग्रहाणां स कर्तव्यः ॥२९॥

मांसओदनमद्यैः पिशाचदितितनयदानवाः पूज्याः । अभ्यञ्जनाञ्जनतिलैः पितरो मांसओदनैश्चापि ॥३०॥

सामयजुर्भिः मुनयः त्वृग्भिः गन्धैश्च धूपमाल्ययुतैः । अश्लेषकवर्णैः त्रिमधुरेण चाभ्यर्चयेद् नागान् ॥३१॥

धूपूज्याहुतिमाल्यैः विबुधान् रत्नः ( रत्नैः) स्तुतिप्रणामैश्च । गन्धर्वान् अप्सरसो गन्धैः माल्यैश्च सुसुगन्धैः ॥३२॥

शेषां तु सार्ववर्णिकबलिभिः पूजां न्यसेग सर्वेषाम् । प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ॥३३॥

मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथवा वेद्याम् । आदद्यात् संभारान् दर्भान् दीर्घान् अगर्भांश्च ॥३४॥

लाजाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो धूपः ( धुपान्) । गोरोचनाञ्जनतिलाः ( तिलान्) स्वर्तुजमधुराणि च फलानि ॥३५॥

सघृतस्य पायसस्य च तत्र शरावाणि तैश्च संभारैः । पश्चिमवेद्यां पूजां कुर्यात् स्नानस्य सा वेदी ॥३६॥

तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान् । सक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ॥३७॥

पुष्यस्नानविमिश्रेणापूर्णान् अंभसा सरत्नांश्च । पुष्यस्नानद्रव्याणि आदद्याद् गर्गगीतानि ॥३८॥

ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् । जीवां विश्वेश्वरीं पाठां समंगां विजयां तथा ॥३९॥

सहां च सहदेवीं च पूर्णकोशां श्तावरीम् । अरिष्टिकां शिवां भद्रां तेषु कुंभेषु विन्यसेत् ॥४०॥

ब्राह्मीं क्षेमामजां चैव सर्वबीजानि कांचनीं ( कांचनं) । मंगल्यानि यथालाभं सर्वौषध्यो रसाः ( रसां) तथा ॥४१॥

रत्नानि सर्वगन्धाः ( सर्वगन्धांश) च बिल्वं च सविकंकतम् । प्रशस्तनाम्न्यश्चौषध्यो हिरण्यं मंगलानि च ॥४२॥

आदावनडुहश्चर्म जरया संहृतायुषः । प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥४३॥

ततो वृषस्य योधस्य चर्म रोहितमक्षतम् । सिंहस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम् ॥४४॥

चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् । शुभे मुहूर्ते संप्राप्ते पुष्ययुक्ते निशाकरे ॥४५॥

भद्रासनमेकतमेन कारितं कनकरजतताम्राणाम् । क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणामुपरि ॥४६॥

त्रिविधः तस्यौच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च । माण्दलिकानन्तरजित्समस्तराज्यार्थिनां शुभदः ॥४७॥

अन्तर्धाय हिरण्यं तत्रौपविशेन् नरेश्वरः सुमनाः । सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः ॥४८॥

वन्दिजनपौरविप्रैः प्रघुष्ट ( विप्रप्रघुष्ट) पुण्याहवेदनिर्घोषैः । समृदंगशंखतूर्यैः मंगलशब्दैः हतानिष्टः ॥४९॥

अहतक्षौमनिवसनं पुरोहितः कंबलेन संछाद्य । कृतबलिपूजं कलशैः अभिषिंचेत् सर्पिषा पूर्णैः ॥५०॥

अष्टावष्टाविंशतिः अष्टशतं वापि कलशपरिमाणम् । अधिकेऽधिके गुणोत्तरमयं च मन्त्रोऽत्र मुनिगीतः ॥५१॥

( मन्त्र) आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥५२॥

भौमान्तरिक्षं दिव्यं वा यत् ते कल्मषं ( कल्विषं) आगतम् । सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥५३॥

कंबलमपनीय ततः पुष्यस्नानांबुभिः सफलपुष्पैः । अभिषिंचेन् मनुजेन्द्रं पुरोहितोऽनेन मन्त्रेण ॥५४॥

( मन्त्र) सुराः त्वामभिषिंचन्तु ये च सिद्धाः पुरातनाः । ब्रह्मा विष्णुश्च रुद्रः ( शंभुः) च साध्याश्च समरुद्गणाः ॥५५॥

आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ । अदितिः देवमाता च स्वाहा सिद्धिः सरस्वती ॥५६॥

कीर्तिः लक्ष्मीः धृतिः श्रीश्च सिनीवाली कुहूः तथा । दनुश्च सुरसा चैव विनता कद्रुः एव च ॥५७॥

देवपत्न्यश्च या नोक्ता देवमातर एव च । सर्वाः त्वामभिषिंचन्तु दिव्याश्चाप्सरसां गणाः ॥५८॥

नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः । संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा ।

सर्वे त्वामभिषिंचन्तु कालस्यावयवाः शुभाः । एते चान्ये च मुनयो वेदव्रतपरायणाः ॥५९॥

सशिष्याः तेऽभिषिंचन्तु सदाराश्च तपोधनाः । वैमानिकाः सुरगणा मनवः सागरैः सह ॥६०॥

सरितश्च महाभागा नागाः किंपुरुषाश्तथा । वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥६१॥

सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च । मरीचिः अत्रिः पुलहः पुलस्त्यः क्रतुः अंगिराः ॥६२॥

भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः । सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ॥६३॥

एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ । दुर्वासा दुर्विनीतश्च कण्वः कात्यायनः तथा ॥६४॥

मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः । ऊर्ध्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ॥६५॥

द्वैपायनो यवक्रीतो देवराजः सहानुजः । पर्वताः तरवो वल्ल्यः पुण्यानि आयतनानि च ॥६६॥

प्रजापतिः दितिश्चैव गावो विश्वस्य मातरः । वाहनानि च दिव्यानि सर्वलोकाश्चराचराः ॥६७॥

अग्नयः पितरः तारा जीमूताः खं दिशो जलम् । एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभैः ( शुभाः) ॥६८॥

तोयैः त्वामभिषिंचन्तु सर्वोत्पातनिबर्हणैः । यथाभिषिक्तो मघवान् एतैः मुदितमनसैः ( कल्याणम् ते प्रकुर्वन्तु आयुरारोग्यमेव्व च) ॥६९॥

इत्येतैश्चान्यैश्चाप्यथर्वकल्प आहितैः ( विहितैः) सरुद्रगणैः । कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च ॥७०॥

आपोहिष्ठातिसृभिः हिरण्यवर्णा इति चतसृभिः जप्तम् । कार्पासिकवस्त्रयुगं बिभृयात् स्नातो नराधिपतिः ॥७१॥

पुण्याहशंखशब्दैः आचान्तोऽभ्यर्च्य देवगुरुविप्रान् । छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत ॥७२॥

आयुष्यं वर्चस्यं रायस्पोषाभिः ऋग्भिः एताभिः । परिजप्तं वैजयिकं नवं विदध्यादलंकारम् ॥७३॥

गत्वा द्वितीयवेदीं समुपविशेगर्मणां उपरि राजा । देयानि चैव चर्माणि उपर्युपर्येवमेतानि ॥७४॥

वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च । तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥७५॥

मुख्यस्थाने जुहुयात् पुरोहितोऽग्निं समित्तिलघृताद्यैः । त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ॥७६॥

इन्द्रध्वजनिर्दिष्टानि अग्निनिमित्तानि दैवविद् ब्रूयात् । कृत्वाऽशेषसमाप्तिं पुरोहितः प्राञ्जलिः ब्रूयात् ॥७७॥

यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्त्वा तु विपुलांसुविपुलां) पुनः आगमनाय च ( वै) ॥७८॥

नृपतिः अतो दैवज्ञं पुरोहितं चार्चयेद् धनैः बहुभिः । अन्यांश्च दक्षिणीयान् यथोचितं ( यथार्हतः) श्रोत्रियप्रभृतीन् ॥७९॥

दत्त्वाऽभयं प्रजानामाघातस्थानगान् विसृज्य पशून् । बधनमोक्षं कुर्यादभ्यनन्तरदोषकृद्वर्जम् ॥८०॥

एतत् प्रयुज्यमानं प्रतिपुष्यं सुखयशोऽर्थवृद्धिकरम् । पुष्याद् ( पुष्यं) विनार्धफलदा पौषी शान्तिः परा ( पुरा) प्रोक्ता ॥८१॥

राष्ट्रौत्पातौपसर्गेषु राहोः केतोश्च दर्शने । ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥॥८२

नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति । मंगलं चापरं नास्ति यदस्मादतिरिच्यते ॥८३॥

अधिराज्यार्थिनो राज्ञः पुत्रजन्म च कांक्षतः । तत्पूर्वमभिषेके च विधिः एष प्रशस्यते ॥८४॥

महेन्द्रार्थमुवाचैदम् बृहत्कीर्तिः बृहस्पतिः । स्नानमायुष्प्रजावृद्धिसौभाग्यकरणं परम् ॥८५॥

अनेनैव विधानेन हस्त्यश्वं स्नापयेत् ततः ( स्नापयीत यः) । तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:19.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

crystalline cone

  • Zool. स्फट शंकु 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.