TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९५

बृहत्संहिताः - अध्याय ९५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


शाकुनौत्तराध्यायः

दिग्देशचेष्टास्वरवासरऋक्षमुहूर्तहोराकरणौदयांशान् । चरस्थिः ( चिरस्थिर्, चरस्थिः) उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद् रुतज्णः ॥१॥

द्विविधं कथयन्ति संस्थितानाम् आगामिस्थिरसंज्ञितं च कार्यम् । नृपदूतचरान्यदेशजातान्य्- अभिघातः स्वजनादि चागमाख्यम् ॥२॥

उद्बद्धसंग्रहणभोजनचौरवह्नि- वर्षौत्सवात्मजवधाः कलहो भयं च । वर्गः स्थिरोऽयमुदयेन्दुयुते स्थिरऋक्षे विद्यात् स्थिरं चरगृहे च चरं यदुक्तम् ॥३॥

स्थिरप्रदेशौपलमन्दिरेषु सुरालये भूजलसन्निधौ च । स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय ॥४॥

आप्यौदयऋक्षक्षणदिग्जलेषु पक्षावसानेषु च ये प्रदीप्ताः । सर्वेऽपि ते वृष्टिकरा रुवन्तः शान्तोऽपि वृष्टिं कुरुतेऽबुचारी ॥५॥

आग्नेयदिग्लग्नमुहूर्तदेशेष्व् अर्कप्रदीप्तोऽग्निभयाय रौति । विष्ट्यां यमऋक्षोदयकण्टकेषु निष्पत्रवल्लीषु च दोषकृत् ( मोषकृत्) स्यात् ॥६॥

ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्याम् उग्रो रुवन् कण्टकिनि स्थितश्च । भौमऋक्षलग्ने यदि नैरृतीं च स्थितोऽभितश्चेत् कलहाय दृष्टः ॥७॥

लग्नेऽथवा इन्दोः भृगुभांशसंस्थे विदिक्स्थितोऽधोवदनश्च रौति । दीप्तः स चेत् संग्रहणं करोति योन्या तया या विदिशि प्रदिष्टा ॥८॥

पुंराशिलग्ने विषमे तिथौ च दिक्स्थः प्रदीप्तः शुकुनो रनाख्यः ।वाच्यं तदा संग्रहणं नराणां मिश्रे भवेत् पण्डकसंप्रयोगः ॥९॥

एवं रवेः क्षेत्रनवांशलग्ने लग्ने स्थिते वा स्वयमेव सूर्ये । दीप्तोऽभिधत्ते शकुनो विरौति ( विवासं) पुंसः प्रधानस्य हि कारणं तत् ॥१०॥

प्रारंभमाणेषु ( प्रारभ्यमाणेषु) च सर्वकार्येष्वर्कान्विताद् भाद् गणयेद् विलग्नम् । संप्तद् विपगैति यथा क्रमेण संपद् विपच्चैति ( वापि) तथैव वाच्यं ( वाच्या) ॥११॥

काणेनाक्ष्णा दक्षिणेनैति सूर्ये चन्द्रे ल्गनाद् द्वादशे चैतरेन । लग्नस्थेऽर्के पापदृष्टेऽन्ध एव कुब्जः स्वऋक्षे श्रोत्रहीनो जडो वा ॥१२॥

क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद् यस्मिन् राशौ तद्गृहाग्गे व्रणोऽस्य ( स्यात्) एवं प्रोक्तं यन्मया जन्मकाले चिह्नं रूपं तत् तदस्मिन् विचिन्त्यम् ॥१३॥

( यवनेश्वर)

अतः परं लोकनिरूपितानि द्रव्येषु नानाक्षरसंग्रहाणि । इष्टप्रणीतानि विभाजितानि नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥१॥

लग्नांबुसंस्थास्तनभःस्थितेषु क्षेत्रेषु ये लग्नगता गृहांशाः । तेभ्योऽक्षराणि आत्मगृहाश्रयाणि विन्द्याद् ग्रहाणां स्वगणक्रमेण ॥२॥

कवर्गपूर्वान् कुजशुक्रचान्द्रि- जीवार्कजानां प्रवदन्ति वर्गान् । यकारपूर्वाः शशिनो निरुक्ता वर्णाः त्वकारप्रभवा रवेः स्युः ॥३॥

द्रेष्काणवृद्ध्या प्रवदन्ति नाम त्रिपंचसप्ताक्षरमोजराशौ । युग्मे तु विन्द्याद् द्विचतुष्कषट्कं नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥४॥

वर्गोत्तमे द्व्यक्षरकं चरांशे स्थिरऋक्षभागे चतुरक्षरं तत् । ओजेषु चैभ्यो विषमाक्षराणि स्युः द्विस्वभावेषु तु राशिवग ॥५॥

द्विमूर्तिसंज्ञे तु वदेद् द्विनाम सौम्यईक्षिते द्विप्रकृतौ च राशौ । यावान् गणः स्वोदयगोऽंशकानां तावान् ग्रहः संग्रहकेऽक्षराणाम् ॥६॥

संयोगमादौ बहुलेषु विन्द्यात् कूटेषु संयोगपरं वदन्ति । स्वौच्चांशके द्विष्कृतम् ऋक्षयोगाद् गुर्वक्षरं तद्भवनांशके स्यात् ॥७॥

मात्रादियुक् स्याद् ग्रहयुक्त्रिकोणे द्रेष्काणपर्यायवदक्षरेषु । नभोबलेषूर्ध्वमधोऽबुजेषु ज्ञेयो विसर्गः तु बलान्वितेषु ॥८॥

शीर्षोदयेषु ऊर्ध्वमुशन्ति मात्राम् अधश्च पृष्ठोदयशब्दितेषु । तीर्यक् च विन्द्यादुभयोदये तां दीर्घेषु दीर्घामितरेषु चान्याम् ॥९॥

प्राग्लग्नतोयास्तनभःस्थितेषु भेष्वंशकेभ्योऽक्षरसंग्रहः स्यात् । क्रूरोऽक्षरं हन्ति चतुष्टयस्थो दृष्ट्यापि मात्रां च त्रिकोणगो वा ॥१०॥

शुभग्रहः तु ऊर्जितवीर्यभागी स्थानांशतुल्याक्षरदः स चोक्तः । पश्यन् स्थितः केन्द्रत्रिकोणयोः वा स्वौच्चेऽपि वर्णद्वयमात्मभागे ॥११॥

क्षेत्रेश्वरे क्षीणबलेऽशके च मात्राक्षरं नाशमुपैति तज्जम् । असंभवेऽपि उद्भवमेति तस्मिन् वर्गाद्यमुच्चांशयुजीशदृष्टे ॥१२॥

केन्द्रे यथास्थानबलप्रकर्षं क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा । कार्योऽक्षराणामनुपूर्वयोगो मात्रादिसंयोगविकल्पना च ॥१३॥

तत्रादिराश्यादिचतुर्विलग्नम् आद्यंशकादिक्रमपर्यायेण । ग्रहांशकेभ्यः स्वगणाक्षराणाम् अन्वर्थने प्राप्तिः इयं विधार्या ॥१४॥

मेष ककारो हिबुके यकारः तुले चकारो मकरे पकारः । मेषे छकारो हिबुकेऽपि अकारः तुले खकारो मकरे फकारः ॥१५॥

मेषे टकारो हिबुके ठकारः तुले तकारो मकरे थकारः । मेषे तु रेफा हिबुके जकारः तुले बकारो मकरे गकारः ॥१६॥

आकारमाद्येऽंबुगते घकारम् अस्ते भकारं मकरे झकारम् । लग्ने डकारं हिबुके दकारम् अस्ते धकारं मकरे ढकारम् ॥१७॥

लग्ने ञकारो हिबुके मकारः तुले ग़कारो मकरे लकारः । लग्ने ककारो हिबुके पकारः तुले चकारो मकरे इकारः ॥१८॥

लग्ने नकारो हिबुके तकारः तुले णकारो मकरे टकारः । इत्येतदुक्तं चरसंज्ञकस्य वक्ष्ये स्थिराख्यस्य चतुष्टयस्य ॥१९॥

वृषे फकारो हिबुके खकारः कीटे वकारो नृघटे छकारः । आद्यांशकेभ्यो मतिमान् विदध्याद् अनुक्रमेण स्थिरसंज्ञकेषु ॥२०॥

लग्ने बकारो हिबुके जकार ईकारमस्तेऽबरगे गकारः । वृषे थकारो हिबुके टकारः कीटे डकारो नृघटे दकारः ॥२१॥

वृषे घकारो हिबुके शकारः कीटे झकारो नृघटे भकारः । लग्ने जकारो हिबुके उकारः कीटे ग़कारो नृघटे मकारः ॥२२॥

लग्ने ढकारोऽथ जले णकारश् चास्ते धकारोऽबरगे नकारः । वृषे षकारो हिबुके चकारः कीटे पकारो नृघटे ककारः ॥२३॥

ऊकारमाहुः वृषभे जले खम् अस्ते फकारो नृघटे छकारः । अन्त्ये वृषे टम् तमुशन्ति सिंहे थं सप्तगे ठं प्रवदन्ति कुंभे ॥२४॥

द्विमूर्तिसंज्ञे मिथुने जकाराः षष्ठे बकारः प्रथमांशके स्यात् । धनुर्धरेऽस्तोपगते गकारो मीनद्वये चांबरगे सकारः ॥२५॥

लग्ने घकारो हिबुके भकारश् चास्ते झकारोऽबरमध्यगे ई । लग्ने दकारो हिबुके धकारम् अस्ते डकारं विदुः अंबरे ढम् ॥२६॥

लग्ने मकारो हिबुके ग़कारश् अस्ते हकारोऽंबरगे ञकारः । लग्ने पकारो जलगे चकार ऐकारमस्तेऽबरगे ककारः ॥२७॥

प्राग्लग्ने नं जलगे णमाहुः अस्तं गते टं नभसि स्थिते तम् । प्राग्लग्नगे खं जलगे यमाहुः अस्तं गते छं नभसि स्थिते फम् ॥२८॥

लग्ने जमोकारमथांबुसंस्थे गमस्तसंस्थे विदुः अंबरे बम् । ठं लग्नगेऽन्त्ये हिबुकाश्रिते डं थमस्तगे दं नभसि स्थिते वै ॥२९॥

एवं विकल्पोऽक्षरसंग्रहोऽयं नाम्नां निरुद्दिष्टविधान उक्तः । सर्वेषु लग्नेषु च केचिदेवम् इच्छन्ति पूर्वोक्तविधानवत् तु ॥३०॥

केन्द्राणि वा केन्द्रगतांशकैः स्वैः पृथक् पृथक् संगुणितानि कृत्वा । त्रिकृद्विभक्तं विरुदक्षरं तत् क्षेत्रेश्वरस्यांशपरिक्रमस्वम् ॥३१॥

संचिन्तितप्रार्थितनिर्गतेषु नष्टक्षतस्त्रीः अतिभोजनेषु स्वप्नर्क्षचिन्तापुरुषादिवर्गेष्व् एतेषु नामानि उपलक्षयेत ॥३२॥

द्व्यक्षरं चरगृहांशकोदये नाम चास्य चतुरक्षरं स्थिरे । नामयुग्ममपि च द्विमूर्तिषु त्र्यक्षरं भवति चास्य पंचभिः ॥१४॥

काद्याः तु वर्गाः कुजशुक्रसौम्य- जीवार्कजानां क्रमशः प्रदिष्टाः । वर्णाष्टकं यादि च शीतरश्मे रवेः अकारात् क्रमशः स्वराः स्युः ॥१५॥

नामानि चाग्न्यंबुकुमारविष्णु- शक्रेन्द्रपत्नीचतुराननानाम् । तुल्यानि सूर्यात् क्रमशो विचिन्त्य द्वित्र्यादिवर्णैः घटयेत् स्वबुद्ध्या ॥१६॥

वयांसि तेषाम् स्तनपानबाल्य- व्रतस्थिता यौवनमध्यवृद्धाः । अतीववृद्धा इति चन्द्रभौम- ज्ञशुक्रजीवार्कशनैश्चराणाम् ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:44.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

frustum of a cone

  • समाछिन्न शंकु 
  • समच्छिन्न शंकु 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site