TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९४

बृहत्संहिताः - अध्याय ९४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वायसविरुताध्यायः

प्राच्यानां दक्षिणतः शुभदाः ( शुभदः) काकाः करायिका वांवामा) । विपरीतमन्यदेशेष्ववधिः लोकप्रसिद्ध्यैव ॥१॥

वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता । निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥२॥

नीडे प्राक् शाखायां शरदि भवेत् प्रथमवृष्टिः अपरस्याम् । याम्योत्तरयोः मध्यात् ( मध्या) प्रधानवृष्टिः तरोरुपरि ॥३॥

शिखिदिशि मण्डलवृष्टिः नैरृत्यां शारदस्य निष्पत्तिः । परिशेषयोः सुभिक्षं मूषकसंपग ( मूषकसंपत् तु) वायव्ये ॥४॥

शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु । शून्यो भवति स देशश्चौरानावृष्टिरोगार्तः ॥५॥

द्वित्रिचतुःशावत्वं सुभिक्षदं पंचभिः नृपान्यत्वम् । अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय ॥६॥

चौरकवर्णैश्चौराश्चित्रैः मृत्युः सितैः तु वह्निभयम् । विकलैः दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः ॥७॥

अनिमित्तसंहतैः ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः ( प्रवाशद्भिः । रोधश्चक्राकारैः अभिघातो वर्गवर्गस्थैः ॥८॥

अभयाश्च तुण्डपक्षैश्चरणविघातैः जनान् अभिभवन्तः । कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ॥९॥

सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् । अत्याकुलं भ्रमद्भिः वातौद्भ्रमो भवति काकैः ॥१०॥

ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः । सेनांगस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥११॥

भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम् । मणिकुसुमाद्यवहनने ( अवहनेन) सुतस्य जन्माप्यथांगनायाश् ( जन्मांगनायाश्च) ( जन्मान्यथा) च ॥१२॥

पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः । भयदो जनसंवासाद् यदि भाण्डानि अपनयेत् काकः ॥१३॥

वाहनशस्त्रौपानत्छत्रछायांगकुट्टने मरणम् । तत्पूजायां पूजा विष्ठाकरणेऽन्नसंप्राप्तिः ॥१४॥

यद्द्रव्यमुपनयेत् तस्य लब्धिः अपहरति चेत् प्रणाशः स्यात् । पीतद्रव्यैः ( पीतद्रव्ये) कनकं वस्त्रं कार्पासिकैः सितैः ( कार्पासिके सिते) रूप्यम् ॥१५॥

सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च । प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥१६॥

दारुणनादः तरुकोटरोपगो वायसो महाभयदः । सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥१७॥

दीप्तौद्विग्नो विटपे विकुट्टयन् वह्निकृद् विधुतपक्षः । रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥१८॥

एन्द्र्यादिदिग् अवलोकी सूर्याभिमुखो रुवन् गृहे गृहिनः । राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ॥१९॥

शान्तामेन्द्रीमवलोकयन् रुयाद् राजपुरुषमित्राप्तिः । भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥२०॥

आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च । याम्ये माषकुलूत्था ( कुलत्था) भोज्यं गान्धर्विकैः योगः ॥२१॥

नैरृत्यां दूताश्वौपकरणदधितैलपललभोज्याप्तिः । वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः ॥२२॥

मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च । सौम्यायां परमान्नाशनं तुरंगांबरप्राप्तिः ॥२३॥

ऐशान्यां संप्राप्तिः घृतपूर्णानां भवेदनडुहश्च । एवं फलं गृहपतेः गृहपृष्ठसमाश्रिते भवति ॥२४॥

गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति ॥॥अभिमुखमुपैति यातुः विरुवन् विनिवर्तयेद् यात्राम् ॥२५॥

वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः । अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥२६॥

यदि वाम एव विरुवन् ( विरुयात्) मुहुर्मुहुः यायिनोऽनुलोमगतिः । अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ॥२७॥

वामः प्रतिलोमगतिः विरुवन् ( वाशन्) गमनस्य विघ्नकृद् भवति । तत्रस्थस्यैव फलं कथयति तद्वांछितं गमने ॥२८॥

दक्षिणविरुतं कृत्वा वामे विरुयाद् यथीप्सितावाप्तिः । प्रतिवाश्य पुरो यायाद् द्रुतमत्यर्थागमो भवति ( अग्रे ऽर्थागमोऽतिमहान्) ॥२९॥

प्रतिवाश्य पृष्टःअतो दक्षिणेन यायाद् द्रुतं क्षतजकारी ( क्षतजकर्ता) । एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ॥३०॥

दृष्ट्वार्कमेकपादः तुण्डेन लिखेद् यदा स्वपिच्छानि । पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥३१॥

सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः । आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद् यातुः ॥३२॥

सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु । सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः ( चार्थकरः) ॥३३॥

निष्पन्नसस्यशाद्व ( शाड्व, शाद्व) लभवनप्रासादहर्म्यहरितेषु । धन्य ( धान्य) उच्छ्रयमंगल्येषु चैव विरुवन् धनागमदः ॥३४॥

गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजंगस्य । सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥३५॥

कार्यस्य व्याघातः तृणकूटे वामगेऽंबुसंस्थे ( अस्थिसंस्थे) वा । ऊर्ध्वाग्निप्लुष्टेऽशनिहते च काके वधो भवति ॥३६॥

कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च । कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ॥३७॥

छिन्नाग्रे अंगच्छेदः कलहः शुष्कद्रुमस्थिते ध्वांक्षे । पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः ॥३८॥

मृतपुरुषांगावयवस्थितोऽभिविरुवन् ( ऽभिवाशन्) करोति मृत्युभयम् । भञ्जन्न् अस्थि च चंच्वा यदि विरुवति ( वाशति) अस्थिभंगाय ॥३९॥

रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति । भुजगगददंष्ट्रितस्करशस्त्राग्निभयानि अनुक्रमशः ॥४०॥

सितकुसुमाशुचिमांसाननेऽर्थसिद्धिः यथेप्सिता यातुः । पक्षौ धुन्वन्न् ( धुन्वन् पक्षाव्) ऊर्ध्वानने च विघ्नं मुहुः क्वणति ॥४१॥

यदि शृंखलां वरत्रां वल्लीं वा आदाय वाशते बन्धः । पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ॥४२॥

अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति । विज्ञेयः स्त्रीलाभो दंपत्योः विरुवतोः ( वाशतोः) युगपत् ॥४३॥

प्रमदाशिरौपगतपूर्णकुंभसंस्थे अंगनार्थसंप्राप्तिः । घटकुट्टने सुतविपद्घटोपहदनेऽन्नसंप्राप्तिः ॥४४॥

स्कन्धावारादीनां निवेशस्मये रुवंश्चलत्पक्षः । सूचयतेऽन्यत्स्थानं ( ऽन्यस्थानं) निश्चलपक्षः तु भयमात्रम् ॥४५॥

प्रविशद्भिः सैन्यादीन् सगृध्रकंकैः विनामिषं ध्वांक्षैः । अविरुद्धैः तैः प्रीतिः द्विषतां युद्धं विरुद्धैश्च ॥४६॥

बन्धः सूकरसंस्थे पंकाक्ते सूकरे द्विकेऽर्थाप्तिः । क्षेमं खरोष्ट्रसंस्थे केचित् प्राहुः वधं तु खरे ॥४७॥

वाहनलाभोऽश्वगते विरुवत्यनुयायिनि क्षतजपातः । अन्येऽपि अनुव्रजन्तो यातारं काकवद् विहगाः ॥४८॥

द्वात्रिंशत् प्रविभक्ते दिग्चक्रे यद् यथा समुद्दिष्टम् । तत्तत् तथा विधेयं गुणदोषफलं यियासूनाम् ॥४९॥

का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् । कव इति चात्मप्रीत्यै कैति रुते स्निग्धमित्राप्तिशः ॥५०॥

करा इति कलहं कुरुकुरु च हर्षमथ कटकटैति दधिभक्तम् । केके विरुतं कुकु वा धनलाभं यायिनः प्राह ॥५१॥

खरेखरे पथिकागममाह कखाखैति यायिनो मृत्युम् । गमनप्रतिषेधिकमा कखला ( आखलखल, आ खलखल) सद्योऽभिवर्षाय ॥५२॥

काका इति विघातः ( विघातं) काकटीति चाहारदूषणं प्राह । प्रीत्यास्पदं कवकवैति बन्धमेवं कगाकुः इति ॥५३॥

करगौ ( करकौ) विरुते वर्षं गुडवत् त्रासाय वडिति वस्त्राप्तिः । कलयैति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥५४॥

कडिति ( फडिति) फलाप्तिः फलदा ( फलवा) हिदर्शनं टड्डिति ( टडिति) प्रहाराः स्युः । स्त्रीलाभः स्त्रीति रुते गडिति गवां पुडिति पुष्पाणाम् ॥५५॥

युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः । टाकुलि चिण्टिचि केकेकैति पुरं चेति दोषाय ॥५६॥

काकद्वयस्यापि समानमेतत् फलं यदुक्तं रुतचेष्टिताद्यैः । पतत्रिणोऽन्येऽपि यथैव काको वन्याः श्ववगौपरिदंष्ट्रिणो ये ॥५७॥

स्थलसलिलचराणां व्यत्ययो मेघकाले प्रचुरसलिलवृष्ट्यै शेषकाले भयाय । मधु भवननिलीनं तत्करोत्याशु शून्यं मरणमपि च नीला ( निलीना) मक्षिका मूर्ध्नि लीना ॥५८॥

विनिक्षिपन्त्यः सलिलेऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः । तरुं स्थलं ( तरुस्थलं, तरुं स्थलं) वापि नयन्ति निम्नाद् यदा तदा ताः कथयन्ति वृष्टिम् ॥५९॥

6कार्यं तु मूलशकुनेऽन्तरजे तदह्नि 6विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः । 6प्रारंभयानसमयेषु तथा प्रवेशे 6ग्राह्यं क्षुतं न शुभदं क्वचिदपि उशन्ति ॥६०॥

शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथवा सहायान् । दुष्टस्य ( इष्टस्य) संसिद्धिमनामयत्वं वदन्ति ते मानयितुः नृपस्य ॥६१॥

6क्रोशादूर्ध्वं शकुन ( शकुनि) विरुतं निष्फलं प्राहुः एके 6तत्रानिष्टे प्रथमशकुने मानयेत् पंच षट् च । 6प्राणायामान् नृपतिः अशुभे षोडशैव द्वितीये 6प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टः तृतीयः ॥६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:43.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

vesicular cell

  • Bot. पुटिका पेशी 
  • द्राक्षाभ पेशी 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.