संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८१

बृहत्संहिताः - अध्याय ८१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसंभूतिः ( पद्मरागो सं) । सौगन्धिकजा भ्रमराञ्जनाब्जजंबूरसद्युतयः ॥१॥

कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिः विद्धाः । स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥२॥

स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभोऽतिरागो ( अतिरागा) मणिरत्नगुणाः समस्तानाम् ॥३॥

कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥४॥

भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजंगानाम् । भवति मणिः किक मूर्धनि योऽनर्घेयः स विज्ञेयः ॥५॥

यः तं बिभर्ति मनुजाधिपतिः न तस्य दोषा भवन्ति विषरोगकृताः कदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥६॥

षड्विंशतिः सहस्राणि एकस्य मणेः पलप्रमाणस्य । कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥७॥

अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि । यगाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥८॥

माषकचतुष्टयं दशशतक्रयं द्वौ तु पंचशतमूल्यौ । परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥९॥

वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यमष्टांशम् । अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥१०॥

आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम् । इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥११॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP