TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३

बृहत्संहिताः - अध्याय ३

बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आदित्यचाराध्यायः

आश्लेषार्धाद् दक्षिणमुत्तरमयनं रवेर्धनिष्ठा अद्यम् । नूनं कदाचिदासीद् येनोक्तम् पूर्वशास्त्रेषु ॥१॥

सांप्रतमयनं सवितुः कर्कटकाद्यम् मृगादितश्चान्यत् । उक्ताभावो विकृतिः प्रत्यक्षपरीक्सणैः व्यक्तिः ॥२॥

दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः । छायाप्रवेशनिर्गमचिह्नैः वा मण्डले महति ॥३॥

अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापराम् याम्याम् । कर्कटकमसंप्राप्तो विनिवृत्तश्चोत्तरां स।एन्द्रीम् ॥४॥

उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः । प्रकृतिस्थश्चाप्येवं विकृतगतिः भयकृदुष्णांशुः ॥५॥

सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः ॥६॥

तामसकीलकसंज्ञा राहुसुताः केतवः त्रयः त्रिंशत् । वर्णस्थान आकारैः तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥७॥

ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ध्वांक्षकबन्धप्रहरणरूपाः पापाः शशांकेऽपि ॥८॥

तेषामुदये रूपाणि अंभः कलुषं रजोवृतं व्योम । नगतरुशिखरामर्दी ( शिखरविमर्दी) सशर्करो मारुतश्चण्डः ॥९॥

ऋतुविपरीताः तरवो दीप्ता मृगपक्षिणो दिशां दाहाः । निर्घातमहीकंपादयो भवन्त्यत्र चोत्पाताः ॥१०॥

न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि । तदुदयकारणमेषां केतुआदीनाम् फलं ब्रूयात् ॥११॥

यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिंबस्था । तस्मिं तस्मिन् व्यसनम् महीपतीनाम् परिज्ञेयम् ॥१२॥

क्षुत्प्रम्लानशरीरा मुनयोऽपि उत्सृष्टधर्मसच्चरिताः । निर्मांसबालहस्ताः कृच्छ्रेणऽऽयान्ति परदेशं ( परदेशान्) ॥१३॥

तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः । सन्तः सन्नशरीराः शोकौद्भववाष्प ( बाष्प) रुद्धदृशः ॥१४॥

क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः । स्वनृपतिचरितं कर्म न ( च) पुरा कृतं ( पराकृतं, पुराकृतं) प्रब्रुवन्त्यन्ये ॥१५॥

गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम् ॥१६॥

दण्डे नरेन्द्रमृत्युः व्याधिभयं स्यात् कबन्धसंस्थाने ( कवन्धसंस्थाने) । ध्वांक्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥

राजौपकरणरूपैश्छत्रध्वजचामरादिभिः विद्धः । राजान्यत्वकृदर्कः स्फुलिंगधूमादिभिः जनहा ॥१८॥

एको दुर्भिक्षकरो द्व्याद्याः स्युः नरपतेः विनाशाय । सितरक्तपीतकृष्णैः तैः विद्धोऽर्कोऽनुवर्णघ्नः ॥१९॥

द्वश्यन्ते ( दृश्यन्ते) च यतः ते रविबिंबस्यौत्स्थिता मोहौत्पाताः । आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥२०॥

ऊर्ध्वकरो दिवसकरः ताम्रः सेनापतिं विनाशयति । पीतो नरेन्द्रपुत्रं श्वेतः तु पुरोहितं हन्ति ॥२०॥

चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलां ( व्याकुलां) करोत्यूर्धं ( महीं) । तस्करशस्त्रनिपातैः यदि सलिलं नाशु पातयति ॥२२॥

ताम्रः कपिलो वार्कः शिशिरे हरिकुंकुमच्छविश्च मधौ । आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ॥२३॥

शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः । प्रावृट्काले स्निग्धः सर्वऋतुनिभोऽपि शुभदायी ॥२४॥

रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति । पीतो वैश्यान् कृष्णः ततो अपरान् शुभकरः स्निग्धः ॥२५॥

ग्रीष्मे रक्तो भयकृद् वर्षास्वसितः करोत्यनावृष्टिम् । हेमन्ते पीतोऽर्कः करोति न चिरेण ( अचिरेण) रोगभयम् ॥२६॥

सुरचापपाटिततनुः नृपतिविरोधप्रदः सहस्रांशुः । प्रावृट्काले सद्यः करोति विमलद्युतिः वृष्टिम् ॥२७॥

वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः । शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥२८॥

श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् । यस्य ऋक्षे सच्छिद्रः तस्य विनाशः क्षितीशस्य ॥२९॥

शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः । शशिसदृशे नृपतिबधः ( नृपतिवद्धः) क्षिप्रं चान्यो नृपो भवति ॥३०॥

क्षुत्मारकृत् घटनिभः खण्डो जनहा ( नृपहा) विदीधितिः भयदः । तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥३१॥

ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च । कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं ( नृपं ततः) सचिवः ॥३२॥

दिनकरं ( दिवसकरं) उदयास्तसंस्थितमुदयसंस्थितं) उल्काशनिविद्युतो यदा हन्युः । नरपतिमरणं विन्द्यात् तदा अन्यराजप्रतिष्ठा ( प्रतिष्ठां) च ॥३३॥

प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोः द्वयोः अथवा । रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥३४॥

प्रहरणसदृशैः जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी । मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥३५॥

दिनकरकराभितापाद् ऋक्षमवाप्नोति सुमहतीम् पीडाम् । भवति तु पश्चात्शुद्धं कनकमिव हुताशपरितापात् ॥३६॥

दिवसकृतः प्रतिसूर्यो जलकृदुदग् दक्षिणे स्थितोऽनिलकृत् । उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥३७॥

रुधिरनिभो वियत्यवनिपान्तरकरो न चिरात् । परुषरजोऽरुणीकृततनुः यदि वा दिनकृत् ॥३८॥

असितविचित्रनीलपरुषो जनघातकरः । खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ॥३९॥

अमलवपुः अवक्रमण्डलः स्फुतविपुलामलदीर्घदीधितिः । अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:50:57.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ĀNA I(आन)

  • (A Malayalam word meaning elephant). Bhāgavata relates the story of how Indradyumna became an elephant by the curse of Agastya. (See under Indradyumna). 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.