TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५३

बृहत्संहिताः - अध्याय ५३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दकार्गलाध्यायः

धर्म्य यशस्य च वदाम्यतोऽह दकार्गल ( दगार्गल) येन जलोपलब्धिः । पुसा यथागेषु शिराः तथैव क्षितावपि प्रोन्नतनिम्नसस्थाः ॥१॥

एकेन वर्णेन रसेन चाभश्च्युत नभस्तो वसुधाविशेषात् । नानारसत्व बहुवर्णता च गत परीक्ष्य क्षितितुल्यमेव ॥२॥

पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशकरा देवाः । विज्ञातव्याः क्रमशः प्राच्याद्याना दिशा पतयः ॥३॥

दिक्पतिसज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी । एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥४॥

पातालादूर्ध्वशिरा शुभा ( ऊर्ध्वशिराः शुभाः) चतुर्दिक्षु सस्थिता याश्च । कोणदिगुत्था न शुभाः शिरानिमित्तानि अतो वक्ष्ये ॥५॥

यदि वेतसोऽबुरहिते देशे हस्तैः त्रिभिः ततः पश्चात् । सार्धे पुरुषे तोय वहति शिरा पश्चिमा तत्र ॥६॥

चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता । पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥७॥

जब्वाश्चौदग् धस्तैः त्रिभिः शिराधो नरद्वये पूर्वा । मृल्लोहगन्धिका पाण्डुरा च ( अथ) पुरुषेऽत्र मण्डूकः ॥८॥

जबूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः । तस्माद् दक्षिणपार्श्वे सलिल पुरुषद्वये स्वादु ॥९॥

अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः । मृद् भवति चात्र नीला दीर्घ काल च बहु तोयम् ॥१०॥

पश्चादुदुंबरस्य त्रिभिः एव करैः नरद्वये सार्धे । पुरुषे सितोऽहिरश्माञ्जनौपंप्ऽधः शिरा सुजला ॥११॥

उदग् अर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद् धस्तैः । त्रिभिः अंबु भवति पुरुषैः त्रिभिः अर्धसमन्वितैः पश्चात् ॥१२॥

श्वेता गोधार्धनरे पुरुषे मृद् धूसरा ततः कृष्णा । पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ॥१३॥

वल्मीकौपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः । पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ॥१४॥

रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः । सिकता सशर्कराऽथ क्रमेण परतो भवत्यंभः ॥१५॥

पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् । पुरुषैः त्रिभिः आदेश्यं श्वेता गृहगोधिकार्धनरे ॥१६॥

सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति । पुरुषत्रये सपादे पुरुषेऽत्र च दुण्डुभः ( दुण्डुभिः) चिह्नम् ॥१७॥

विल्व ( बिल्व) उदुंबरयोगे विहाय हस्तत्रयं तु याम्येन । पुरुषैः त्रिभिः अंबु भवेत् कृष्णोऽर्धनरे च मण्डूकः ॥१८॥

काकौदुंबरिकायां वल्मीको दृश्यते शिरा तस्मिन् । पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥१९॥

आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः । पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥२०॥

जलपरिहीने देशे वृक्षः कंपिल्लको यदा दृश्यः । प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥२१॥

मृन्नीलोत्पलवर्णा कापोता दृश्यते ततः ( चैव दृश्यते) तस्मिन् । हस्ते ऽजगन्धको मत्स्यकः ( ऽजगन्धिमत्स्यो भवति) पयोऽल्पं च सक्षारम् ॥२२॥

शोणाकतरोः अपरोत्तरे शिरा द्वौ करावतिक्रम्य । कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥२३॥

आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि । अध्यर्धे भवति ( तस्य) शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥२४॥

तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद् धस्ते । तत्रौदग् भवति शिरा चतुर्भिः अर्धाधिकैः पुरुषैः ॥२५॥

श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुंकुमाभोऽश्मा । अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥२६॥

सकुशः सित ( सकुशासित) ऐशान्यां वल्मीको यत्र कोविदारस्य । मध्ये तयोः नरैः अर्धपंचमैः तोयमक्षोभ्यम् ॥२७॥

प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता । कुरुविन्दः पाषाणश्चिह्नानि एतानि वाच्यानि ॥२८॥

यदि भवति सप्तपर्णो वल्मीकवृतः तदुत्तरे तोयम् । वाच्यं पुरुषैः पंचभिः अत्रापि भवन्ति चिह्नानि ॥२९॥

पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च । पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभांबुवहा ॥३०॥

सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः । तस्माद् धस्ते तोयं चतुर्भिः अर्धाधिकैः पुरुषैः ॥३१॥

पुरुषे तु भवति नकुलो नीलो मृत्पीतिका ततः श्वेता । दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ॥३२॥

यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य । हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ॥३३॥

कच्छपकः पुरुषार्धे प्रथमं चौद्भिद्यते शिरा पूर्वा । उदग् अन्या स्वादुजला हरितोऽश्माधः ततः तोयम् ॥३४॥

उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोः तोयम् । परिहृत्य पंच हस्तान् अर्धाष्टमपौरुषान् ( पौरुषे) प्रथमम् ॥३५॥

अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलुत्थ ( कुलत्त) वर्णोऽश्मा । माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ॥३६॥

वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् । पुरुषैः पंचभिः अंभो दिशि वारुण्यां शिरा पूर्वा ॥३७॥

सर्पावासः पश्चाद् यदा कदंबस्य दक्षिणेन जलम् । परतो हस्तत्रितयात् षड्भिः पुरुषैः तुरीयोनैः ॥३८॥

कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम् । कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ॥३९॥

वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा । पश्चात् षड्भिः हस्तैः नरैश्चतुर्भिः शिरा याम्या ॥४०॥

याम्येन कपित्थस्याहिसंश्रयश्चेदुदग् जलं वाच्यम् । सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पंच ॥४१॥

कर्बुरकोऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः । श्वेता मृत् पश्चिमतः शिरा ततश्चौत्तरा भवति ॥४२॥

अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा । षड्भिरुदक् तस्य करैः सार्धे पुरुषत्रये तोयम् ॥४३॥

कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् । आदौ च शिरा ( शिरा च) याम्या पूर्वोत्तरतो द्वितीया च ॥४४॥

वामेन हरिद्रतरोः वल्मीकश्चेज्जलं भवति पूर्वे ( चेत् ततो जलं) । हस्तत्रितये सत्र्यंशैः पुंभिः ( पुरुषैः सत्र्यंशैः) पंचभिः भवति ॥४५॥

नीलो भुजगः पुरुषे मृत् पीता मरकतौपमश्चाश्मा । कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥४६॥

जलपरिहीने देशे दृश्यन्तेऽनूपजानि चेन् निमितानि ( चिह्नानि) । वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ॥४७॥

भार्ंगी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चैव । नवमालिका च हस्तद्वयेऽंबु याम्ये त्रिभिः पुरुषैः ॥४८॥

स्निग्धाः प्रलंबशाखा वामनविकट ( विट) द्रुमाः समीपजलाः । सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ॥४९॥

तिलकाम्रातकवरुणकभल्लातकविल्व ( बिल्व) तिन्दुकांकोलाः ( अग़्कोल्लाः) । पिण्डारशिरीषाञ्जनपरूषका वञ्जुलोऽतिबला ( वञ्जुरातिबला) ॥५०॥

एते यदि सुस्निग्धा वल्मीकैः परिवृताः ततः तोयम् । हस्तैः त्रिभिरुत्तरतश्चतुर्भिः अर्धेन च नरेण ( नरस्य) ॥५१॥

अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र । तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ॥५२॥

कण्टक्यकण्टकानां व्यत्यासेऽंभः त्रिभिः करैः पश्चात् । खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥५३॥

नदति मही गंभीरं यस्मिंश्चरणाहता जलं तस्मिन् । सार्धैः त्रिभिः मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥५४॥

वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् । विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥५५॥

फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिः हस्तैः । भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ॥५६॥

यदि कण्टकारिका कण्टकैः विना दृश्यते सितैः कुसुमैः । तस्याः तलेऽंबु वाच्यं त्रिभिः नरैः अर्धपुरुषे च ॥५७॥

खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे । तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैः ( त्रिपुरुषे) वारि ॥५८॥

यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा । सव्येन तत्र हस्तद्वयेऽंबु पुरुषद्वये ( पुरुषत्रये) भवति ॥५९॥

यस्याम् ऊष्मा ( ऊष्मा यस्यां) धात्र्यां धूमो वा तत्र वारि नरयुगले ( नरयुग्मे) । निर्देष्टव्या च शिरा महता तोयप्रवाहेण ॥६०॥

यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति । स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥६१॥

मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि । ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥६२॥

पूर्वोत्तरेण पीलोः यदि वल्मीको जलं भवति पश्चात् । उत्तरगमना च शिरा विज्ञेया पंचभिः पुरुषैः ॥६३॥

चिह्नं दर्दुर आदौ मृत् कपिला तत्परं ( मृत्कपिलातः परं) भवेद् धरिता । भवति च पुरुषे अधौ ऽश्मा तस्य तले ऽभो विनिर्देष्यं ( वारि निर्देच्यं) ॥६४॥

पीलोः एव प्राच्यां वल्मीकोऽतोऽर्धपंचमैः हस्तैः । दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥६५॥

प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च । दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥६६॥

उत्तरतश्च करीरस्याहिगृहं ( करीरादहिनिलये) दक्षिणे जलं स्वादु । दशभिः पुरुषैः ज्ञेयम् पुर्षे पीतोऽत्र मण्डूकः ॥६७॥

रोहीतकस्य पश्चादहिवासश्चेत् त्रिभिः करैः याम्ये । द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥६८॥

इन्द्रतरोः वल्मीकः प्राग् दृश्यः पश्चिमे शिरा हस्ते । खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे ॥६९॥

यदि वा सुवर्णनाम्नः तरोः भवेद् वामतो भुजंगगृहम् । हस्तद्वये तु याम्ये पंचदशनरावसानेऽबु ॥७०॥

क्षार पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा । रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥७१॥

बदरीरोहितवृक्षौ सपृक्तौ चेद् विनापि वल्मीकम् । हस्तत्रयेऽबु पश्चात् षोडशभिः मानवैः भवति ॥७२॥

सुरस जलमादौ दक्षिणा शिरा वहति चौत्तनेणान्या । पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिकोऽर्धनरे ॥७३॥

सकरीरा चेद् वदरी त्रिभिः करैः पश्चिमेन तत्राभः । अष्टादशभिः पुरुषैः अशानी बहुजला च शिरा ॥७४॥

पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ॥॥विशत्या पुरुषाणामशोष्यमभोऽत्र सक्षारम् ॥७५॥

ककुभकरीरावेकत्र सयुतौ यत्र ककुभविल्वौ ( बिल्बौ) वा । हस्तद्वयेऽबु पश्चान् नरैः भवेत् पचविशत्या ॥७६॥

वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति । कूपो मध्ये देयो जलमत्र नरैकविशत्या ॥७७॥

भूमिः कदबकयुता ( भूमी कदबकयुता, भूमीकदबकयुता) वल्मीके यत्र दृश्यते दूर्वा । हस्तद्वयेन ( हस्तत्रयेन) याम्ये नरैः जल पचविशत्या ॥७८॥

वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति । नानावृक्षैः सहितः त्रिभिः जल तत्र वक्तव्यम् ॥७९॥

हस्तचतुष्के मध्यात् षोडशभिश्चागुलैरुदग् वारि । चत्वारिशत् पुरुषान् खात्वा ऽश्माऽधः ( अश्मातः) शिरा भवति ॥८०॥

ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः । पश्चात् पचकरान्ते शतार्धसख्यैः नरैः सलिलम् ॥८१॥

एकस्थाः पच यदा वल्मीका मध्यमो भवेत्श्वेतः । तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पचवर्जितया ॥८२॥

सपलाशा यत्र शमी पश्चिमभागेऽबु मानवैः षष्ट्या । अर्धनरेऽहिः प्रथम सवालुका पीतमृत् परतः ॥८३॥

वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद् यस्मिन् । पूर्वेण हस्तमात्रे सप्तत्या मानवैः अबु ॥८४॥

श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः । नरपचकसयुतया सप्तत्याहिः नरार्धे च ॥८५॥

मरुदेशे यच्चिह्न न जागले तैः जल विनिर्देश्यम् । जबूवेतसपूर्वैः ( पूर्वे) ये पुरुषाः ते मरौ द्विगुणाः ॥८६॥

जबूः त्रिवृता मौर्वी ( मूर्वा) शिशुमारी सारिवा शिवा श्यामा । वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च ( च गरुडवेगा) ॥८७॥

सूकरिकमाषपर्णीव्याघ्रपदाश्चैति यद्यहेः निलये । वल्मीकादुत्तरतः त्रिभिः करैः त्रिपुरुषे तोयम् ॥८८॥

एतदनूपे वाच्य जागलभूमौ तु पचभिः पुरुषैः । एतैः एव निमित्तैः मरुदेशे सप्तभिः कथयेत् ॥८९॥

एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना । तस्या यत्र विकारो भवति धरित्र्या जल तत्र ॥९०॥

यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् । तत्र अर्धपचकैः ( अर्धपचमैः) वारि मानवैः पचभिः यदि वा ॥९१॥

स्निग्धतरूणा याम्ये नरैश्चतुर्भिः जल प्रभूत च । तरुगहनेऽपि हि विकृतो यः तस्मात् तद्वदेव वदेत् ॥९२॥

नमते यत्र धरित्री सार्धे पुरुषेऽबु जागलानूपे । कीटा वा यत्र विनालयेन बहवोऽबु तत्रापि ॥९३॥

उष्णा शीता च मही शीतोष्णाभः त्रिभिः नरैः सार्धैः । इन्द्रधनुः मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥९४॥

वल्मीकाना पक्त्या यद्येकोऽभ्युच्छ्रितः शिरा तदधः । शुष्यति न रोहते वा सस्य यस्या च तत्राभः ॥९५॥

न्यग्रोधपलाशौदुबरैः समेतैः त्रिभिः जल तदधः । वटपिप्पलसमवाये तद्वद् वाच्य शिरा चौदक् ॥९६॥

आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् ( भवति) कूपः । नित्य स करोति भय दाह च समानुष प्रायः ॥९७॥

नैरृतकोणे बालक्षय च वनिताभय ( वनिताभय) च वायव्ये । दिक्त्रयमेतत् त्यक्त्वा शेषासु शुभावहाः कूपाः ॥९८॥

सारस्वतेन मुनिना दकार्गक ( दगारगल) यत् क्र्त तदवलोक्य । आर्याभिः कृतमेतद् वृत्तैः अपि मानव वक्ष्ये ॥९९॥

स्निग्धा यतः पादपगुल्मवल्ल्यो निश्छिद्रपत्राश्च ततः शिरास्ति । पद्मक्षुरौशीरकुलाः सगुण्ड्राः काशाः कुशा वा नलिका नलो वा ॥१००॥

खर्जूरजबू अर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मवल्ल्यः । छत्रैभनगाः शतपत्रनीपाः स्युः नक्तमालाश्च ससिन्दुवाराः ॥१०१॥

विभीतको वा मदयन्तिका वा यत्रास्ति तस्मिन् पुरुषत्रयेऽभः । स्यात् पर्वतस्यौपरि पर्वतोऽन्यः तत्रापि मूले पुरुषत्रयेऽभः ॥१०२॥

या मौञ्जिकैः ( मौञ्जकैः) काशकुशैश्च युक्ता नीला च मृद्यत्र सशर्करा च । तस्या प्रभूत सुरस च तोय कृष्णाथवा यत्र च रक्तमृद् वा ॥१०३॥

सशर्करा ताम्रमही कषाय क्षार धरित्री कपिला करोति । आपाण्डुराया लवण प्रदिष्ट मृष्ट ( मिष्ट) पयो नीलवसुन्धरायाम् ॥१०४॥

शाकाश्वकर्णार्जुनविल्व ( बिल्व) सर्जाः श्रीपर्ण्यरिष्टाधवशिशपाश्च । छिद्रैश्च पत्रैः ( पर्णैः) द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽबु निवेदयन्ति ॥१०५॥

सूर्याग्निभस्मौष्ट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा । रक्ताकुराः क्षीरयुताः करीरा रक्ता धरा चेज्जलमश्मनोऽधः ॥१०६॥

वैदूर्यमुद्ग ( वैडूर्यमुड्ग) अबुदमेचकाभा पाकौन्मुखौदुबरसन्निभा वा । भग ( भृग्ग) अञ्जनाभा कपिलाथवा या ज्ञेया शिला भूरिसमीपतोया ॥१०७॥

पारावत ( परावत) क्षौद्रघृतौपमा या ( वा) क्षौमस्य वस्त्रस्य च तुल्यवर्णा । या सोमवल्ल्याश्च समानरूपा साप्याशु तोय कुरुतेऽक्षय च ॥१०८॥

ताम्रैः समेता पृषतैः विचित्रैः आपाण्डुभस्मौष्ट्रखरानुरूपा । भृगौपमागुष्ठिकपुष्पिका वा सूर्याग्निवर्णा च शिला वितोया ॥१०९॥

चन्द्रातपस्फटिकमौक्तिकहेमरूपा याश्चेन्द्रनीलमणिहिगुलुकाञ्जनाभाः । सूर्योदयाशुहरितालनिभाश्च याः स्युः ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥११०॥

एता ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः । येषा च राष्ट्रेषु भवन्ति राज्णा तेषामवृष्टिः न भवेत् कदाचित् ॥१११॥

भेद यदा नैति शिला तदानी पलाशकाष्ठैः सह तिन्दुकानाम् । प्रज्वालयित्वानलमग्निवर्णा सुधाबुसिक्ता प्रविदारमेति ॥११२॥

तोय श्रित ( शृत) मोक्षकभस्मना वा यत् सप्तकृत्वः परिषेचन तत् । कार्य शरक्षारयुत शिलायाः प्रस्फोटन वह्निवितापितायाः ॥११३॥

तक्रकाञ्जिकसुराः सकुलत्था योजितानि बदराणि च तस्मिन् । सप्तरात्रमुषितानि अभितप्ता दारयन्ति हि शिला परिषेकैः ॥११४॥

नैब पत्र त्वक् च नाल तिलाना सापामार्ग तिन्दुक स्याद् गुडूची । गोमूत्रेण स्रावितः क्षार एषा षट्कृत्वोऽतः तापितो भिद्यतेऽश्मा ॥११५॥

आर्क पयो हुडुविषाणमषीसमेत पारावताखुशकृता च युतः प्रलेपः । टकस्य तैलमथितस्य ततोऽस्य पान पश्चात्शितस्य न शिलासु भवेद् विघातः ॥११६॥

क्षारे कदल्या मथितेन युक्ते ( यक्ते) दिनोषिते पायितमायस यत् । सम्यक् शित ( छित) चाश्मनि नैति भग न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥११७॥

पाली प्रागपरायताबु सुचिर धत्ते न याम्योत्तरा कल्लोलैः अवदारमेति मरुता सा प्रायशः प्रेरितैः । ता चेदिच्छति सारदारुभिः अपा सपातमावारयेत् । पाषाणादिभिः एव वा प्रतिचय क्षुण्ण ( क्षुन्न) द्विपाश्वादिभिः ॥११८॥

ककुभवटाम्रप्लक्षकदबैः सनिचुलजबूवेतसनीपैः । कुरबक ( कुरवाक) तालाशोकमधूकैः बकुलविमिश्रैश्चावृएततीराम् ॥११९॥

द्वार च नैर्वाहिकमेकदेशे कार्य शिलासचितवारिमार्गम् । कोशस्थित निर्विवर कपाट कृत्वा ततः पाशुभिः आवपेत् तम् ॥१२०॥

अञ्जनमुस्तौशीरैः सराजकोशातकामलकचूर्णैः । कतकफलसमायुक्तैः योगः कूपे प्रदातव्यः ॥१२१॥

कलुष कटक ( कतुक) लवण विरस सलिल यदि वा शुभगन्धि भवेत् । तदनेन भवत्यमल सुरस सुसुगन्धि गुणैः अपरैश्च युतम् ॥१२२॥

हस्तो मघानुराधापुष्यधनिष्ठौत्तराणि रोहिण्यः । शतभिषग् इत्यारभे कूपाना शस्यते भगणः ॥१२३॥

कृत्वा वरुणस्य बलि वटवेतसकीलक शिरास्थाने । कुसुमैः गन्धैः धूपैः सपूज्य निधापयेत् प्रथमम् ॥१२४॥

एअत्नुम्( ५४।१२५अब् मेघोद्भव प्रथममेव मया प्रदिष्ट ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा । भौम दगार्गलमिद कथित द्वितीय सम्यग्वराहमिहिरेण मुनिप्रसादात् ॥ १२५॥)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:22.5770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

होमकुंड

  • n  The hole for the sacred fire of an oblation. 
RANDOM WORD

Did you know?

घरातील देव्हारा कोणत्या वस्तुपासून बनविलेला असावा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site