TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८७

बृहत्संहिताः - अध्याय ८७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


विरुताध्यायः

श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश् चाषाण्डीरकखञ्जरीटकशुकध्वांक्षाः कपोताः त्रयः ( त्रयाः) । भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुटपूर्णकूटचटकाः प्रोक्ता ( चटकाश्च उक्ता) दिवासंचराः ॥१॥

लोमाशिका पिंगलच्छिप्पिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ । सर्वे स्वकालोत्क्रमचारिणः स्युः देशस्य नाशाय नृपान्तदा वा ॥२॥

हयनरभुजगौष्ट्रद्वीपिसिंहऋक्षगोधा वृकनकुलकुरंगश्वाजगोव्याघ्रहंसाः । पृषतमृगशृगालश्वाविदाख्यान्यपुष्टा द्युनिशमपि बिडालः सारसः सूकरश्च ॥३॥

भषकूटपूरिकुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः । नामानि उलूकचेट्याः पिंगलिका पेचिका हक्का ॥४॥

कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचंचुः । छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥५॥

स्रोतः तडागभेद्य ( भेद्येक) एकपुत्रकः कलहकारिका च रला । भृंगारवग विरुवति ( वाशति) निशि भूमौ द्व्यंगुलशरीरा ॥६॥

दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ । धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥७॥

गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम । गृहगोधिकेति संज्ञा विज्ञेया कुड्यमत्स्यस्य ॥८॥

दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरुस्रा । श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥९॥

एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि ॥॥शकुनरुतज्ञानार्थं शास्त्रे संचित्य ( संचिन्त्य) योज्यानि ॥१०॥

वञ्जुलकरुतं तित्तिड् इति दीप्तमथ किल्किलीति तत्पूर्णम् । श्येनशुकगृध्रकंकाः प्रकृतेः अन्यस्वरा दीप्ताः ॥११॥

यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा । अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः ॥१२॥

आपाण्डुरस्य वर्षागित्रकपोतस्य चैव षण्मासात् । कुंकुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ॥१३॥

चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः । चच्चैति दीप्तः स्यात् स्वप्रियलाभाय ( योगाय) चिक्चिग् इति ॥१४॥

हारीतस्य तु शब्दो गुग्गुः पूर्णोऽपरे प्रदीप्ताः स्युः । स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ॥१५॥

किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहैति । क्षमाय केवलं करकरैति न त्वर्थसिद्धिकरः ॥१६॥

कोटुक्लीति क्षेम्यः स्वरः कुटुक्लीति वृष्टये तस्याः । अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः ॥१७॥

शस्त्रं वामे दर्शनं दिव्यकस्य सिद्धिः ज्ञेया हस्तमात्रौच्छ्रितस्य । तस्मिन्न् एव प्रोन्नतस्थे शरीराद् धात्री वश्यं सागरान्तराभ्युपैति ॥१८॥

फणितोऽभिमुखागमोऽरिसंगं कथयति बन्धुवधात्ययं च यातुः । अथवा समुपैति सव्यभागात् न स सिद्ध्यै कुशलो गमागमे च ॥१९॥

अब्जेषु मूर्धसु च वाजिगजौरगाणां राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु । भस्मास्थिकाष्ठतुषकेशतृणेषु दुःखं दृष्टः करोति खलु खञ्जनकोऽब्दमेकम् ॥२०॥

किलिकिल्किलि तित्तिरस्वनः शान्तः शस्तफलोऽन्यथापरः । शशको निशि वामपार्श्वगो वाशन् शस्तफलो निगद्यते ॥२१॥

किलिकिलिविरुतं कपेः प्रदीप्तं न शुभफलप्रदमुद्दिशन्ति यातुः । शुभमपि कथयन्ति चुग्लुशब्दं कपिसदृशं च कुलालकुक्कुटस्य ॥२२॥

पूर्णाननः कृमिपतंगपिपीलकाद्यैश् चाषः प्रदक्षिणमुपैति नरस्य यस्य । खे स्वस्तिकं यदि करोत्यथवा यियासोः तस्यार्थलाभमचिरात् सुमहत् करोति ॥२३॥

चाषस्य काकेन विरुध्यतश्चेत् पराजयो दक्षिणभागगस्य । वधः प्रयातस्य तदा नरस्य विपर्यये तस्य जयः प्रदिष्टः ॥२४॥

केकेति पूर्णकुटवद् यदि वामपार्श्वे चाषः करोति विरुतं जयकृत् तदा स्यात् । क्रेक्रेति ( क्रक्रेति) तस्य विरुतं न शिवाय दीप्तं सन्दर्शनं शुभदमस्य सदैव यातुः ॥२५॥

अण्डीरकष्टीति रुतेन पूर्णष्- टिट्टिट्टिशब्देन तु दीप्त उक्तः । फेण्टः शुभो दक्षिणभागसंस्थो न वाशिते तस्य कृतो विशेषः ॥२६॥

श्रीकर्णरुतं तु दक्षिणे क्वक्वक्वैति शुभं प्रकीर्तितम् । मध्यं खलु चिक्चिकीति यच् शेषं सर्वमुशन्ति निष्फलम् ॥२७॥

दुर्बलेः अपि चिरिल्विरिल्विति प्रोक्तमिष्टफलदं हि वामतः । वामतश्च यदि दक्षिणं व्रजेत् कार्यसिद्धिमचिरेण यच्छति ॥२८॥

चिक्चिकिवाशितमेव तु कृत्वा दक्षिणभागमुपैति तु वामात् । क्षेमकृदेव न साधयतेऽर्थान् व्यत्ययगो वधबन्धभयाय ॥२९॥

क्रक्रेति च सारिका द्रुतं त्रेत्रे वाप्यभया विरौति या । सा वक्ति यियासतोऽचिराद् गात्रेभ्यः ( गात्रेभ्य) क्षतजस्य विस्रुतिम् ॥३०॥

फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः । शोभनो निगद्यते प्रदीप्त उच्यतेऽपरः ॥३१॥

श्रेष्ठं खरं स्थास्नुमुशन्ति वामम् ओंकारशब्देन हितं च यातुः । अतोऽपरं ( अतः परं) गर्दभनादितं यत् सर्वाश्रयं तत् प्रवदन्ति दीप्तम् ॥३२॥

आकाररावी समृगः कुरंग ओकाररावी पृषतश्च पूर्णः । येऽन्ये स्वराः ते कथिताः प्रदीप्ताः पूर्णाः शुभाः पापफलाः प्रदीप्ताः ॥३३॥

भीता रुवन्ति कुकुकुक्विति ताम्रचूडाः त्यक्त्वा रुतानि भयदानि अपराणि रात्रौ । स्वस्थैः स्वभावविरुतानि निशावसाने ताराणि राष्ट्रपुरपार्थिववृद्धिदानि ॥३४॥

नानाविधानि विरुतानि हि छिप्पिकायाः तस्याः शुभाः कुलुकुलुः न शुभाः तु शेषाः । यातुः बिडालविरुतं न शुभं सदैव गोः तु क्षुतं मरणमेव करोति यातुः ॥३५॥

हुंहुंगुग्लुग् इति प्रियामभिलषन् क्रोशत्युलूको मुदा पूर्णः स्याद् गुरुलु प्रदीप्तमपि च ज्ञेयं सदा किस्किसि । विज्ञेयः कलहो यदा बलबलं तस्य ( तस्याः) असकृद्वाशितं दोषायैव टटट्टटैति न शुभाः शेषाः तु दीप्त ( दीप्ताः) स्वराः ॥३६॥

सारसकूजितमिष्टफलं तद् यद् युगपद्विरुतं मिथुनस्य । एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति ( प्रतिरौति) चिरेण ॥३७॥

चिरिल्विरिल्विति स्वरैः शुभं करोति पिंगलाः ( पिंगला) । अतोऽपरे तु ये स्वराः प्रदीप्तसंज्ञिताः तु ते ॥३८॥

इशिविरुतं गमनप्रतिषेधि कुशुकुशु चेत् कलहं प्रकरोति । अभिमतकार्यगर्तिं च यथा सा कथयति तं च विधिं कथयामि ॥३९॥

दिनान्तसन्ध्यासमये निवासम् आगम्य तस्याः प्रयतश्च वृक्षम् । देवान् समभ्यर्च्य पितामहादीन् नवांबरः तं च तरुं सुगन्धैः ॥४०॥

एको निशीथेऽनलदिक्स्थितश्च दिव्येतरैः तां शपथैः नियोज्य । पृच्छेद् यथाचिन्तितमर्थमेवम् अनेन मन्त्रेण यथाशृणोति ॥४१॥

( मन्त्र) विद्धिभद्रे मया यत् त्वमिममर्थं प्रचोदिता । कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यसे ॥४२॥

आपृच्छेऽद्य गमिष्यामि वेदितश्च पुनः त्वहम् । प्रातः आगम्य पृच्छे त्वामाग्नेयीं दिशमाश्रितः ॥४३॥

प्रचोदयाम्यहं यत् त्वां तन् मे व्याख्यातुमर्हसि । स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम् ॥४४॥

इत्येवमुक्ते तरुमूर्धगायाश् चिरिल्विरिल्वीति रुतेऽर्थसिद्धिः । अत्याकुलत्वं दिशिकारशब्दे कुचाकुचा इत्येवमुदाहृते वा ॥४५॥

अवाक्प्रदाने ऽपि हित ( विहित) अर्थसिद्धिः पूर्वोक्तदिक्चक्रफलैः अतोऽन्यत् । वाच्यं फलं चोत्तममध्यनीच- शाखास्थितायां वरमध्यनीचम् ॥४६॥

दिन्मन्दलेऽभ्यन्तरबाह्यभागे फलानि विन्द्याद् गृहगोधिकायाः । छुच्छुन्दरी चिच्चिड् इति प्रदीप्ता पूर्णा तु सा तित्तिड् इति स्वनेन ॥४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:40.4070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कवीत

  • नस्त्री . १ कवन ; काव्य ; पद्म ; आल्हादकारक पद्मरचना ; रसयुक्त वाक्यरचना . २ प्रतिभा संपन्न ( गद्य , पद्य ) रचना . ' जेणें अनुताप उपजे । जेणें लेकिक लाजे । जेणें ज्ञान उमजे । या नाव कवित्व । ' - दा १४ . ३ . ४८ . ( सं .) 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.