TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २४

बृहत्संहिताः - अध्याय २४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


रोहिणीयोगाध्यायः

कनकशिलाचयविवरजतरुकुसुमासंगिमधुकरानुरुते । बहुविहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥१॥

सुरनिलयशिखरिशिखरे बृहस्पतिः नारदाय यान् आह । गर्गपराशरकाश्यपमयाश्च यान् शिष्यसंघेभ्यः ॥२॥

तान् अवलोक्य यथावत् प्राजापत्येन्दुसंप्रयोगार्थान् । अल्प ग्रन्थेनाहं तान् एवाभ्युद्यतो वक्तुम् ॥३॥ ( स्वल्प)

प्राजेशमाषाढतमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य । वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद् ग्रहचिन्तकेन ॥४॥

योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः । चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं निगद्यं ॥५॥ ( निगाद्यं)

पुरादुदग् यत् पुरतोऽपि वा स्थलं । त्र्यहोषितः तत्र हुताशतत्परः । ग्रहान् सनक्षत्रगणान् समालिखेत् । सधूपपुष्पैः बलिभिश्च पूजयेत् ॥६॥ ( यत्)

सरत्नतोयौषधिभिश्चतुर्दिशं । तरुप्रवालापिहितैः सुपूजितैः । अकालमूलैः कलशैः अलंकृतं । कुशास्तृतं स्थण्डिलमावसेद् द्विजः ॥७॥

आलभ्य मन्त्रेण महाव्रतेन । बीजानि सर्वाणि निधाय कुंभे । प्लाव्यानि चामीकरदर्भतोयैः । होमो मरुद्वारुणसोम मन्त्रैः ॥८॥ ( सोम्य)

श्लक्ष्णां पताकामसितां विदध्याद् । दण्डप्रमाणां त्रिगुणोच्छ्रितां च । आदौ कृते दिग्ग्रहणे नभस्वान् । ग्राह्यः तया योगगते शशांके ॥९॥

तत्रार्धमासाः प्रहरैः विकल्प्या । वर्षानिमित्तं दिवसाः तदंशैः । सव्येन गच्छन् शुभदः सदैव । यस्मिन् प्रतिष्ठा बलवान् स वायुः ॥१०॥

वृत्ते तु योगे अंकुरितानि यानि । सन्तीह बीजानि धृतानि कुंभे । येषां तु योऽंशो अंकुरितः तदंशः । तेषां विवृद्धिं समुपैति नान्यः ॥११॥

शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितोऽनिलः । शस्यते शशिनि रोहिणीगते ( रोहिणीयते) मेघमारुतफलानि वच्म्यतः ॥१२॥

क्वचिदसितसितैः सितैः क्वचिग । क्वचिदसितैः भुजगैः इवांबुवाहैः । वलितजठरपृष्ठमात्रदृश्यैः । स्फुरिततडिद्रसनैर्वृतं विशालैः ॥१३॥

विकसितकमलौदरावदातैः । अरुणकरद्युतिरञ्जितौपकण्ठैः । छुरितमिव वियद्घनैः विचित्रैः । मधुकरकुंकुमकिंशुकावदातैः ॥१४॥

असितघननिरुद्धमेव वा । चलिततडित्सुरचापचित्रितम् । द्विपमहिषकुलाकुलीकृतं । वनमिव दावपरीतमंबरम् ॥१५॥

अथवाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् । हिममौक्तिकशंखशशांककरद्युतिहारिभिः अंबुधरैः अथवा ॥१६॥

तडिद्धैमकक्ष्यैः बलाकाग्रदन्तैः । स्रवद्वारिदानैश्चलत्प्रान्तहस्तैः । विचित्रेन्द्रचापध्वजौच्छ्रायशोभैः । तमालालिनीलैः वृतं चाब्दनागैः ॥१७॥

सन्ध्यानुरक्ते नभसि स्थितानाम् । इन्दीवरश्यामरुचां घनानाम् । वृन्दानि पीतांबरवेष्टितस्य । कान्तिं हरेश्चोरयतां यदा वा ॥१८॥

सशिखिचातकदर्दुरनिःस्वनैः । यदि विमिश्रितमन्द्रपटुस्वनाः । खमवतत्य दिगन्तविलंबिनः । सलिलदाः सलिलौघमुचः क्षितौ ॥१९॥

निगदितरूपैः जलधरजालैः । त्र्यहमवरुद्धं द्व्यहमथवाहः । यदि वियदेवं भवति सुभिक्षं । मुदितजना च प्रचुरजला भूः ॥२०॥

रूक्षैः अल्पैः मारुताक्षिप्तदेहैः । उष्ट्रध्वांक्षप्रेतशाखामृगाभैः । अन्येषां वा निन्दितानां स्वरूपैः । मूकैश्चाब्दैः नो शिवं नापि वृष्टिः ॥२१॥ ( सरूपैः)

विगतघने वा वियति विवस्वान् । अमृदुमयूखः सलिलकृदेवम् । सर इव फुल्लं निशि कुमुदाढ्यं । खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥२२॥

पूर्वोद्भूतैः सस्यनिष्पत्तिः अब्दैः । आग्नेयाशासंभवैः अग्निकोपः । याम्ये सस्यं क्षीयते नैरृतेऽर्धं । पश्चाज्जातैः शोभना वृष्टिः अब्दैः ॥२३॥ ( अर्घं अर्धं)

वायव्योत्थैः वातवृष्टिः क्वचिग । पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः । श्रेष्ठं सस्यं स्थाणुदिक्संप्रवृद्धैः । वायुश्चैवं दिक्षु धत्ते फलानि ॥२४॥

उल्कानिपाताः तडितोऽशनिश्च । दिग्दाहनिर्घातमहीप्रकंपाः । नादा मृगाणां सपतत्रिणां च । ग्राह्या यथैव अंबुधराः तथैव ॥२५॥

नामांकितैः तैरुदगादिकुंभैः । प्रदक्षिणं श्रावणमासपूर्वैः । पूर्णैः स मासः सलिलस्य दाता । स्रुतैः अवृष्टिः परिकल्प्यमूनैः ॥२६॥ ( स्रुतः)

अन्यैश्च कुंभैः नृपनामचिह्नैः । देशांकितैश्चाप्यपरैः तथैव । भग्नैः स्रुतैः न्यूनजलैः सुपूर्णैः । भाग्यानि वाच्यानि यथानुरूपम् ॥२७॥

दूरगो निकटगोऽथवा शशी । दक्षिणे पथि यथा तथा स्थितः । रोहिणीं यदि युनक्ति सर्वथा । कष्टमेव जगतो विनिर्दिशेत् ॥२८॥

स्पृशन्न् उदग् याति यदा शशांकः । तदा सुवृष्टिः बहुलौपसर्गा । असंस्पृशन् योगमुदक्समेतः । करोति वृष्टिं विपुलां शिवं च ॥२९॥

रोहिणीशकटमध्यसंस्थिते । चन्द्रमस्यशरणीकृता जनाः । क्वापि यान्ति शिशुयाचिताशनाः । सूर्यतप्तपिठरांबुपायिनः ॥३०॥

उदितं यदि शीतदीधितिं । प्रथमं पृष्ठत एति रोहिणी । शुभमेव तदा स्मरातुराः । प्रमदाः कामवशेन संस्थिताः ॥३१॥ ( कामिवशे च)

अनुगच्छति पृष्टतः शशी । यदि कामी वनितामिव प्रियाम् । मकरध्वजबाणखेदिताः । प्रमदानां वशगाः तदा नराः ॥३२॥

आग्नेय्यां दिशि चन्द्रमा यदि भवेत् तत्रौपसर्गो महान् । नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः । प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो । याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घवृष्ट्यादयः ॥३३॥ ( वृद्ध्यादयः)

ताडयेद् यदि च योगतारकामावृणोति वपुषा यदापि वा । ताडने भयमुशन्ति दारुणं छादने नृपबधो अंगनाकृतः ॥३४॥ ( नृपवधो)

गोप्रवेशसमयेग्रतो वृषो याति कृष्णपशुः एव वा पुरः । भूरि वारि शबले तु मध्यमं नो सितेऽंबुपरिकल्पनापरैः ॥३५॥

दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते । रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ॥३६॥seprte ३६

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:08.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

steady moving state

  • अचर गतिक अवस्था 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.