संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १

बृहत्संहिताः - अध्याय १


बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


जयति जगतः प्रसूतिः विश्वात्मा सहजभूषणं नभसः । द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता ॥१॥
प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्यार्थम् । नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ॥२॥
मुनिविरचितमिदमिति यगिरन्तनं साधु न मनुजग्रथितम् । तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥३॥
क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्ते । कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदिव्यकृतेः ( कृते) ॥४॥
आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः । क्रियमाणकमेव एतत् समासतोऽतो ममौत्साहः ॥५॥
आसीत्तमः किलैदं तत्रापां तैजसेऽभवद् धैमे । स्वर्भूशकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥६॥
कपिलः प्रधानमाह द्रव्यादीन् कणकभुग् अस्य विश्वस्य । कालं कारणमेके स्वभावमपरे जगुः कर्म ॥७॥
तदलमतिविस्तरेण प्रसंगवादार्थनिर्णयोऽतिमहान् । ज्योतिःशास्त्रांगानां वक्तव्यो निर्णयोऽत्र मया ॥८॥
ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं तत्कार्त्स्न्यौपनयस्य नाम मुनिभिः संकीर्त्यते संहिता ।॥९॥
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिः तन्त्राभिधानः त्वसौ होरा अन्यो अंगविनिश्चयश्च कथितः स्कन्धः तृतीयोऽपरः ॥१०॥
वक्रानुवक्रास्तमयौदयाद्याः ताराग्रहाणां करणे मयोक्ताः । होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वमुक्तम् ॥११॥
प्रश्नप्रतिप्रश्नकथाप्रसंगान् स्वल्पौपयोगान् ग्रहसंभवांश्च । सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ॥१२॥

N/A

References : N/A
Last Updated : February 07, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP