TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४२

बृहत्संहिताः - अध्याय ४२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


इन्द्रध्वजसंपदः

ब्रह्माणमूचुः अमरा भगवन् शक्ताः स्म नासुरान् समरे । प्रतियोधयितुमतः त्वां शरण्यशरणं समुपयाताः ॥१॥

देवान् उवाच भगवान् क्षीरोदे केशवः स वः केतुम् । यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥२॥

लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः । श्रीवत्सांकं कौस्तुभमणिकिरनौद्भासितौरस्कम् ॥३॥

श्रीपतिमचिन्त्यमसमं समं ततः ( समन्ततः) सर्वदेहिनां सूक्ष्मम् । परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥४॥

तैः संस्तुतः स देवः तुतोष नारायणो ददौ चैषाम् । ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥५॥

तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे । देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ॥६॥

स किंकिणीजालपरिष्कृतेन ( परिस्कृतेन) स्रक्छत्रघण्टापिटकान्वितेन । समुच्छ्रितेनामरराड्ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥७॥

उपरिचरस्यामरपो वसोः ददौ चेदिपस्य वेणुमयीम् । यष्टिं तां स नरेन्द्रो विधिवत् संपूजयामास ॥८॥

प्रीतो महेन मघवा ( मघवान्) प्राहएवं ये नृपाः करिष्यन्ति । वसुवद्वसुमन्तः ते भुवि सिद्धाज्ञा भविष्यन्ति ॥९॥

मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः । ध्वजएव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥१०॥

पूजा तस्य नरेन्द्रैः बलवृद्धिजयार्थिभिः यथा पूर्वम् । शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥११॥

तस्य विधानं शुभकरणदिवसनक्षत्रमंगलमुहूर्तैः । प्रास्थानिकैः वनमियाद् दैवज्ञः सूत्रधारश्च ॥१२॥

उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः । कुब्ज ऊर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ॥१३॥

बहुविहगालयकोटरपवनानलपीडिताश्च ये तरवः । ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ॥१४॥

श्रेष्ठोऽर्जुनोऽजकर्णः ( अश्वकमः) प्रियकधवौदुंबराश्च पंचैते । एतेषामेकतमं ( अन्यतमं) प्रशस्तमथवापरं वृक्षम् ॥१५॥

गौरासितक्षितिभवं संपूज्य यथाविधि द्विजः पूर्वम् । विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥१६॥

यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । उपहारं गृहीत्वा इमं क्रियतां वासपर्ययः ॥१७॥

पार्थिवः त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम । ध्वजार्थं देवराजस्य पूजा इयं प्रतिगृह्यताम् ॥१८॥

छिन्द्यात् प्रभातसमये वृक्षमुदक् प्रान् मुखोऽपि वा भूत्वा । परशोः जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥१९॥

नृपजयदमविध्वस्तं पतनमनाकुंचितं च पूर्वोदक् । अविलग्नं चान्यतरौ विपरीतमतः त्यजेत् पतितम् ॥२०॥

छित्त्वाग्रे चतुरंगुलमष्टौ मूले जले क्षिपेद् यष्टिम् । उद्धृत्य पुरद्वारं शकटेन नयेन् मनुष्यैः वा ॥२१॥

अरभंगे बलभेदो नेम्या नाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षयभंगे तथाणिभंगे च वर्द्धकिनः ॥२२॥

भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैः वृतो राजा । दैवज्ञसचिवकंचुकिविप्रप्रमुखैः सुवेषधरैः ॥२३॥

अहतांबरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः । स्रग्गन्धधूपयुक्तां प्रवेशयेत्शंखतूर्यरवैः ॥२४॥

रुचिरपताकातोरणवनमालालंकृतं प्रहृष्टजनम् । सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥२५॥

अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् । नटनर्तकगेयज्ञैः आकीर्णचतुष्पथं नगरम् ॥२६॥

तत्र पताकाः श्वेता भवन्ति विजयाय ( विजयाय भवन्ति) रोगदाः पीताः । जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥२७॥

यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः । बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ॥२८॥

सन्तक्ष्य पुनः तक्षा विधिवद् यष्टिं प्ररोपयेद् यन्त्रे । जागरमेकादश्यां नरेश्वरः कारयेगास्याम् ॥२९॥

सितवस्त्रौष्णीषधरः पुरोहितः शाक्रवैष्णवैः मन्त्रैः । जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ॥३०॥

इष्टद्रव्याकारः सुरभिः स्निग्धो घनोऽनलोऽर्चिष्मान् । शुभकृदतोऽन्योऽनिष्टो ( नेष्टो) यात्रायां विस्तरोऽभिहितः ॥३१॥

स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य ।

गंगादिवाकरसुताजलचारुहारां धात्रीं समुद्ररशनां ( समुद्ररसनां) वशगां करोति ॥३२॥

चामीकराशोककुरण्टकाब्ज वैदूर्यनीलोत्पलसन्निभेऽग्नौ । न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य ॥३३॥

येषां रथौघार्णवमेघदन्तिनां समस्वनोऽग्निः यदि वापि दुन्दुभेः । तेषां मदान्धैभघटावघट्टिता भवन्ति याने तिमिरोपमा दिशः ॥३४॥

ध्वजकुंभहयैभभूभृतामनुरूपे वशमेति भूभृताम् । उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥३५॥

द्विरदमदमहीसरोजलाजा ( जलाजैः) घृतमधुना च हुताशने सगन्धे । प्रणतनृपशिरोमणिप्रभाभिः भवति पुरस्छुरितेव भूः नृपस्य ॥३६॥

उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः । तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ॥३७॥

गुडपूपपायसाद्यैः विप्रान् अभ्यर्च्य दक्षिणाभिश्च । श्रवणेन द्वादश्यामुत्थाप्योऽन्यत्र वा श्रवणात् ॥३८॥

शक्रकुमार्यः कार्याः प्राह मनुः सप्त पंच वा तज्ञैः । नन्दौपनन्दसंज्ञे पादोनार्धे ध्वजोच्छ्रायात् ( पादेनार्धेन चोच्छ्रायात्) ॥३९॥

षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये । अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम् ॥४०॥

प्रीतैः कृतानि विबुधैः यानि पुरा भूषणानि सुरकेतोः । तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि ॥४१॥

रक्ताशोकनिकाशं चतुरस्रं ( चतुरश्रं) विश्वकर्मणा प्रथमम् ।

रशना ( रसना) स्वयंभुवा शंकरेण चानेकवर्णगा दत्ता ( चानेकवर्णधरी) ॥४२॥

अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् । असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ॥४३॥

मञ्जिष्ठाभं वरुणः षडश्रि तत्पंचमं जलोर्मिनिभम् । मयूरं केयूरं षष्ठं वायुः जलदनीलम् ॥४४॥

स्कन्धः स्वं केयूरं सप्तममददद् ध्वजाय बहुचित्रम् । अष्टममनलज्वालासंकाशं हव्यभुग्वृत्तं ( दत्तं) ॥४५॥

वैदूर्यसदृशमिन्द्रो ( इन्दुः) नवमं ग्रैवेयकं ददावन्यत् । रथचक्राभं दशमं सूर्यः त्वष्टा प्रभायुक्तम् ॥४६॥

एकादशमुद्वंशं विश्वेदेवाः सरोजसंकाशम् । द्वादशमपि च निवेशम् ऋषयो ( निवंशं मुनयो) नीलोत्पलाभासम् ॥४७॥

किंचिदधऊर्ध्वनिर्मितं ( निर्नतं) उपरि विशालं त्रयोदशं केतोः । शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः ॥४८॥

यदि यद् येन विभूषणं ( विनिर्मितं) अमरेण विनिर्मितंविभूषणं) ध्वजस्यार्थे । तत्तत् तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः ॥४९॥

ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य । परतः प्रथमात् प्रथमादष्टांशाष्टांशहीनानि ॥५०॥

कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः । मनुना चागमगीतान् मन्त्रान् एतान् पठेन् नियतः ॥५१॥

हरार्कवैवस्वतशक्रसोमैः धनेशवैश्वानरपाशभृद्भिः । महर्षिसंघैः सदिगप्सरोभिः शुक्रांगिरःस्कन्दमरुद्गणैश्च ॥५२॥

यथा त्वमूर्जस्करणैकरूपैः समर्चितः त्वाभरणैरुदारैः । तथेह तानि आभरणानि यागे ( देव) शुभानि संप्रीतमना गृहाण ॥५३॥

अजोऽव्ययः शाश्वत एकरूपो विष्णुः वराहः पुरुषः पुराणः । त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षः ( शीर्शा) शतमन्युः ईड्यः ॥५४॥

कविं सप्तजिह्वं त्रातारमिन्द्रं स्ववितारं ( अवितारं) सुरेशम् । ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरा ( उत्तरे) भवन्तु ॥५५॥

प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे । पठेदिमान् नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः ॥५६॥

क्षत्रध्वजादर्शफलार्धचन्द्रैः विचित्रमालाकदलीक्षुदण्डैः । सव्यालसिंहैः पिटकैः गवाक्षैः अलंकृतं दिक्षु च लोकपालैः ॥५७॥

अच्छिन्नरज्जुं दृढकाष्ठमातृकं सुश्लिष्टयन्त्रार्गलपादतोरणम् । उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वितम् ॥५८॥

अविरतजनरावं मंगलाशीःप्रणामैः । पटुपटहमृदंगैः शंखभेर्यादिभिश्च ।

श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैः अशुभविहत ( रहित) शब्दं केतुमुत्थापयेच् ( उत्थापयीत) च ॥५९॥

फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिः तुष्ट ( तुष्टु) वद्भिश्च पौरैः ।

वृत ( धृत) मनिमिषभर्तुः केतुमीशः प्रजानाम् मरिनगरनताग्रं कारयेद् द्विड्बधाय ( वधाय) ॥६०॥

नातिद्रुतं न च विलंबितमप्रकंपम् अध्वस्तमाल्यपिटकादिविभूषणम् च ।

उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात् तच्छान्तिभिः नरपतेः शमयेत् पुरोधाः ॥६१॥

क्रव्यादकौशिककपोतककाककंकैः केतुस्थितैः महदुशन्ति भयं नृपस्य ।

चाषेण चापि युवराजभयं वदन्ति श्येनो विलोचनभयं निपतन् करोति ॥६२॥

छत्रभंगपतने नृपमृत्युः तस्करान् मधु करोति निलीनम् । हन्ति चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च ॥६३॥

राज्ञीविनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः । मध्याग्रमूलेषु च केतुभंगो निहन्ति मन्त्रिक्षितिपालपौरान् ॥६४॥

धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैः न भवत्यमात्याः ।

ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्यान् ( द्विजाद्या) भंगे तु बन्धकिबधः ( वधः) कथितः कुमार्याः ॥६५॥

रज्जूत्संगच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः । यद्यत् कुर्युश्चारणा बालका ( बालकाश्चारणा) वा तत्तत् तादृग् भावि पापं शुभं वा ६६॥॥

दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि पंचमे । प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः स्वबलाभिविवृद्धये ॥६७॥

उपरिचरवसुप्रवर्तितं नृपतिभिः अपि अनुसन्ततं कृतम् । विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:17.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

byu long

  • स्त्री. सट्टाखरेदी 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.