TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५२

बृहत्संहिताः - अध्याय ५२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वास्तुविद्या

वास्तुज्ञानमथातः कमलभवान् मुनिपरपरायातम् । क्रियतेऽधुना मया इदम् विदग्धसावत्सरप्रीत्यै ॥१॥

किमपि किल भूतमभवद् रुन्धान रोदसी शरीरेण । तदमरगणेन सहसा विनिगृह्याधोमुख न्यस्तम् ॥२॥

यत्र च येन गृहीत विबुधेनाधिष्ठितः स तत्रैव । तदमरमय विधाता वास्तुनर कल्पयामास ॥३॥

उत्तममष्टाभ्यधिक हस्तशत नृपगृह पृथुत्वेन । अष्टाष्तोनानि एव पच सपादानि दैर्घ्येण ॥४॥

षड्भिः षड्भिः हीना सेनापतिसद्मना चतुःषष्टिः । एव पच गृहाणि ( पच एव विस्तारात्) षड्भागसमन्विता दैर्घ्यम् ॥५॥

षष्टिश्चतुर्भिः हीना ( चतुर्विहीना) वेश्मानि पच सचिवस्य । स्वाष्टाशयुतो दैर्घ्य तदर्धतो राजमहिषीणाम् ॥६॥

षड्भिः षड्भिश्चैव युवराजस्यापवर्जिता अशीतिः । त्र्यशान्विता च दैर्घ्य पच तदर्धैः तदनुजनानाम् ॥७॥

नृपसचिवान्तरतुल्य सामन्तप्रवरराजपुरुषाणाम् । नृपयुवराजविशेषः कचुकिवेश्याकलाज्ञानाम् ॥८॥

अध्यक्षाधिकृताना सर्वेषा ( सर्वेषामेव) कोशरतितुल्यम् । युवराजमन्त्रिविवर कर्मान्ताध्यक्षदूतानाम् ॥९॥

चत्वारिशद्धीना चतुश्चतुर्भिः तु पच यावदिति । षड्भागयुता दैर्घ्य दैवज्ञपुरोधसोः भिषजः ॥१०॥

वास्तुनि यो विस्तारः स एव चौच्छ्रायनिश्चयः शुभदः । शालैकेषु गृहेष्वपि विस्ताराद् द्विगुणित दैर्घ्यम् ॥११॥

चातुर्वर्ण्यव्यासो द्वात्रिशत् सा ( स्यात्) चतुश्चतुर्हीना । आडोडशादिति पर न्यूनतरमतीव हीनानाम् ॥१२॥

सदशाश विप्राणा क्षत्रस्याष्टाशसयुत दैर्घ्यम् । षड्भागयुत वैश्यस्य भवति शूद्रस्य पादयुतम् ॥१३॥

नृपसेनापतिगृहयोः अन्तरमानेन कोशरतिभवने । सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥१४॥

अथ पारश ( पारस) वादीना स्वमानसयोगदलसम भवनम् । हीनाधिक स्वमानादशुभकर वास्तु सर्वेषाम् ॥१५॥

पश्वाश्रमिणाममित धान्यायुधवह्निरतिगृहाणा च । नैच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रित परतः ॥१६॥

सेनापतिनृपतीना सप्ततिसहिते द्विधाकृते व्यासे । शाला चतुर्दशहृते पचत्रिशद्धृतेऽलिन्दः ॥१७॥

हस्तद्वात्रिशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः । सप्तदशत्रितयतिथित्रयोदशकृतागुलाभ्यधिकाः ॥१८॥

त्रित्रिद्विद्विद्विसमाः क्षयक्रमादगुलानि चैतेषाम् । व्येका विशतिः अष्टौ विशतिः अष्टादश त्रितयम् ॥१९॥

शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् । यद्यग्रतो भवति सा सोष्णीष नाम तद्वास्तु ॥२०॥

सायाश्रयमिति पश्चात् सावष्टभ तु पार्श्वसस्थितया । सुस्थितमिति च समन्तात्शास्त्रज्ञैः पूजिताः सर्वाः ॥२१॥

विस्तारषोडशाशः सचतुर्हस्तो भवेद् गृहौच्छ्रायः । द्वादशभागेनोनो भूमौ भूमौ समस्तानाम् ॥२२॥

व्यासात् षोडशभागः सर्वेषा सद्मना भवति भित्तिः । पक्वैष्टकाकृताना दारुकृताना तु न विकल्पः ( सविकल्पः, न विकल्पः) ॥२३॥

एकादशभागयुतः ससप्ततिः नृपबलेशयोः व्यासः । उच्छ्रायो अगुलतुल्यो द्वारस्यार्धेन विष्कभः ॥२४॥

विप्रादीना व्यासात् पचाशोऽष्टादशागुलसमेतः । साष्टाशो विष्कभो द्वारस्य त्रिगुण उच्छ्रायः ॥२५॥

उच्छ्रायहस्तसख्यापरिमाणानि अगुलानि बाहुल्यम् । शाखाद्वयेऽपि कार्य सार्ध तत् स्यादुदुबरयोः ॥२६॥

उच्छ्रायात् सप्तगुणादशीतिभागः पृथुत्वमेतेषाम् । नवगुणितेऽशीत्यशः स्तभस्य दशाशहीनोऽग्रे ॥२७॥

समचतुरस्रो ( समचतुरश्रो) रुचको वज्रोऽष्टास्रिः ( अष्टाश्रिः) द्विवज्रको द्विगुणः । द्वात्रिशता तु मध्ये प्रलीनको वृत्त इति वृत्तः ॥२८॥

स्तभ विभज्य नवधा वहन भागो घटोऽस्य भागोऽन्यः । पद्म तथा उत्तरोष्ठ कुर्याद् भागेन भागेन ॥२९॥

स्तभसम बाहुल्य भारतुलानामुपर्युपर्यासाम् । भवति तुला उपतुलानामून पादेन पादेन ॥३०॥

अप्रतिषिद्धालिन्द समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहाना कार्य द्वारैश्चतुर्भिः अपि ॥३१॥

नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वार पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥३२॥

द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभः ततश्चान्यः । तस्मिश ( तद्वद्) च वर्धमाने द्वार तु न दक्षिण कार्यम् ॥३३॥

अपरोऽन्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ । तदवधिविधृतः ( विवृतः) चान्यः प्राग्द्वार स्वस्तिके शुभद ( ऽशुभद) ॥३४॥

प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ । रुचके द्वार न शुभदमुत्तरतोऽन्यानि शस्तानि ॥३५॥

श्रेष्ठ नन्द्यावर्त सर्वेषा वर्धमानसज्ञ च । स्वस्तिकरुचके मध्ये शेष शुभद नृपादीनाम् ॥३६॥

उत्तरशालाहीन हिरण्यनाभ त्रिशालक धन्यम् । प्राक्षालया वियुक्त सुक्षेत्र वृद्धिद वास्तु ॥३७॥

याम्याहीन चुल्ली त्रिशालक वित्तनाशकरमेतत् । पक्षघ्नमपरया वर्जित सुतध्वसवैरकरम् ॥३८॥

सिद्धार्थमपरयाम्ये यमसूर्य पश्चिमोत्तरे शाले । दण्डाख्यमुदक्पूर्वे वाताख्य प्राग्युता याम्या ॥३९॥

पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् । सिद्धार्थेऽर्थावाप्तिः यमसूर्ये गृहपतेः मृत्युः ॥४०॥

दण्डवधो दण्डाख्ये कलहौद्वेगः सदैव वाताख्ये । वित्तविनाशश्चुल्ल्या ज्ञातिविरोधः स्मृतः काचे ॥४१॥

एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः । अन्तः त्रयोदश सुरा द्वात्रिशद्बाह्यकोष्ठस्थाः ॥४२॥

शिखिपर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च । ऐशान्यादि ( ऐशान्याद्याः) क्रमशो दक्षिणपूर्वेऽनिलः कोणे ॥४३॥

पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृगराजमृगाः । पितृदौवारिकसुग्रीवकुसुमदन्ताबुपत्यसुराः ॥४४॥

शोषोऽथ पापयक्ष्मा रोगः कोणे ततोऽहिमुख्यौ च । भल्लाटसोमभुजगाः ततोऽदितिः दितिः इति क्रमशः ॥४५॥

मध्ये ब्रह्मा नवकोष्ठकाधिपोऽस्यार्यमा स्थितः प्राच्याम् । एकान्तरात् प्रदक्षिणमस्मात् सविता विवस्वाश्च ॥४६॥

विबुधाधिपतिः तस्मान् मित्रोऽन्यो राजयक्ष्मनामा च । पृथिवी ( पृथ्वी) धरापवत्सावित्येते ब्रह्मणह् परिधौ ॥४७॥

आपो नामैशाने कोणे हौताशने च सावित्रः । जय इति च नैरृते रुद्र आनिलेऽभ्यन्तरपदेषु ॥४८॥

आपः तथापवत्सः पर्जन्योऽग्निः दितिश्च वर्गोऽयम् । एव कोणे कोणे पदिकाः स्युः पच पच सुराः ॥४९॥

बाह्या द्विपदाः शेषाः ते विबुधा विशति समाख्याताः । शेषाश्चत्वारोऽन्ये त्रिपदा दिक्ष्वर्यमाद्याः ते ॥५०॥

पूर्वोत्तरदिग्मूर्धा पुरुषोऽयमवान्मुखोऽस्य शिरसि शिखी । आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ॥५१॥

पर्जन्याद्या बाह्या दृक्ष्रवणौरःस्थलासगा देवाः । सत्याद्याः पच भुजे हस्ते सविता च सावित्रः ( ससावित्रः) ॥५२॥

वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वाश्च । ऊरू जानु च जघे स्फिग् इति यमाद्यैः परिगृहीताः ॥५३॥

एते दक्षिणपार्श्वे स्थानेष्वेव च वामपार्श्वस्थाः । मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिता अघ्रिगतः ( अग्रिगतः) ॥५४॥

अष्टाष्टकपदमथवा कृत्वा रेखाश्च कोणगाः तिर्यक् । ब्रह्मा चतुष्पदोऽस्मिन्न् अर्धपदा ब्रह्मकोणस्थाः ॥५५॥

अष्तौ च बहिष्कोणेष्वर्धपदाः तदुभयस्थिताः सार्धाः । उक्तेभ्यो ये शेषाः ते द्विपदा विशतिः ते हि ( च) ॥५६॥

सपाता वशाना मध्यानि समानि यानि च पदानाम् । मर्माणि तानि विन्द्यान् न तानि परिपीडयेत् ( विन्द्यान्न् अपरिपीडयेत्) प्राज्णः ॥५७॥

तानि अशुचिभाण्डकीलस्तभाद्यैः पीडितानि शल्यैश्च । गृहभर्तुः तत्तुल्ये पीडामगे प्रयच्छन्ति ॥५८॥

कण्डूयते यदग गृहभर्तुः ( गृहपतिना) यत्र वा अमराहुत्याम् । अशुभ भवेन् निमित्त विकृतेः वा अग्नेः सशल्य तत् ॥५९॥

धनहानिः दारुमये पशुपीडा रुग्भयानि चास्थिकृते । लोहमये शस्त्रभय कपालकेशेषु मृत्युः स्यात् ॥६०॥

अग्गारे स्तेनभय भस्मनि च विनिर्दिशेत् सदाग्निभयम् । शल्य हि मर्मसस्थ सुवर्णरजतादृतेऽत्यशुभम् ॥६१॥

मर्मण्यमर्मगो वा रुणद्ध्यर्थागम तुषसमूहः) । अपि नागदन्तको मर्मसस्थितो दोषकृद् भवति ॥६२॥

रोगाद् वायु पितृतो हुताशन शोषसूत्रमपि वितथात् । मुख्याद् भृश जयन्ताग भृगमदितेश्च सुग्रीवम् ॥६१॥

तत्सपाता नव ये तानि अतिमर्माणि सप्रदिष्टानि । यश्च पदस्याष्टाशः तत् प्रोक्त मर्मपरिमाणम् ॥६२॥

पदहस्तसख्यया सम्मितानि वशो अगुलानि विस्तीर्णः । वशव्यासोऽध्यर्धः शिराप्रमाण विनिर्दिष्टम् ॥६३॥

सुखमिच्छन् ब्रह्माण यत्नाद् रक्षेद् गृही गृहान्तःस्थ ( गृतान्तस्थ) । उच्छिष्टाद्युपघाताद् गृहपतिरुपतप्यते तस्मिन् ॥६४॥

दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयो अगनादादोषाः ( अगनादोषाः) । वामेऽर्थधान्यहानिः शिरसि गुणैः हीयते सर्वैः ॥६५॥

स्त्रीदोषाः सुतमरण प्रेष्यत्व चापि चरणवैकल्ये । अविकलपुरुषे वसता मानार्थयुतानि सौख्यानि ॥६६॥

गृहनगरग्रामेषु च सर्वत्रैव प्रतिष्ठिता देवाः । तेषु च यथानुरूप वर्णा विप्रादयो वास्याः ॥६७॥

वासगृहाणि च विन्द्याद् विप्रादीनामुदग्दिगाद्यानि । विशता च यथा भवन भवन्ति तानि एव दक्षिणतः ॥६८॥

नवगुणसूत्रविभक्तानि अष्टगुणेनाथवा चतुःषष्टेः । द्वाराणि यानि तेषामनलादीना फलोपनयः ॥६९॥

अनिलभय स्त्रीजनन ( स्त्रीजन्म) प्रभूतघनता नरेन्द्रवाल्लभ्यम् । क्रोधपरतानृतत्व क्रौर्य चौर्य च पूर्वेण ॥७०॥

अल्पसुतत्व प्रैष्य नीचत्व भक्ष्यपानसुतविऋद्धिः । रौद्र कृतघ्नमधन सुतवीर्यघ्न च याम्येन ॥७१॥

सुतपीडा रिपुवृद्धिः न सुतधनाप्तिः ( धनस्ताप्तिः) सुतार्थफलसपत् । धनसपन् नृपतिभय धनक्षयो रोग इत्यपरे ॥७२॥

वधबन्धो रिपुवृद्धिः सुतधनलाभः ( धनसुतलाभः) समस्तगुणसपत् । पुत्रधनाप्तिः वैर सुतेन दोषाः स्त्रिया नैःस्वम् ॥७३॥

मार्गतरुकोणकूपस्तभभ्रमविद्धमशुब्भद द्वारम् । उच्छ्रायाद् द्विगुणमिता त्यक्त्वा भूमि न दोषाय ॥७४॥

रथ्याविद्ध द्वार नाशाय कुमारदोषद तरुणा । पकद्वारे शोको व्ययोऽबुनिःस्राविणि ( अबुनि श्राविणि) प्रोक्तः ॥७५॥

कूपेनापस्मारो भवति विनाशश्च देवताविद्धे । स्तभेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे ( ब्राह्मणोऽभिमुखे) ॥७६॥

उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वय कुलविनाशः । मानाधिके नृपभय दस्युभय व्यसनमेव नीचे च ( व्यसनद नीच) ॥७७॥

द्वार द्वारस्यौपरि यत्तन् न शिवाय सकट यच्च । आव्यात्त क्षुद्भयद कुब्ज कुलनाशन भवति ॥७८॥

पीडाकरमतिपीडितमन्तर्विनत भवेदभावाय । बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ॥७९॥

मूलद्वार नान्यैः द्वारैः अभिसन्दधीत रूपऋद्ध्या । घटफलपत्रप्रमथादिभिश्च तन्मगलैश्चिनुयात् ॥८०॥

ऐशान्यादिषु कोणेषु सस्थिता बाह्यतो गृहस्यैताः । चरकी विदारिनामा अथ पूतना राक्षसी चेति ॥८१॥

पुरभवनग्रामाणा ये कोणाः तेषु निवसता दोषाः । श्वपचादयोऽन्त्यजात्याः तेष्वेव विवृद्धिमायान्ति ॥८२॥

याम्यादिष्वशुभफला जाताः तरवः प्रदक्षिणेनैते । उदगादिषु प्रशस्ताः प्लक्षवटौदुबराश्वत्था ( उदुबराक्ष्वत्थाः) ॥८३॥

आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय । फलिनः प्रजाक्षयकरा दारूणि अपि वर्जयेदेषाम् ॥८४॥

छिन्द्याद् यदि न तरूश्तान् तदन्तरे पूजितान् वपेदन्यत् ( अन्यान्) । पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ ॥८५॥

शस्तौषधिद्रुमलता मधुरा सुगन्धा स्निग्धा समा न सुषिरा च मही नराणाम् । अप्यध्वनि श्रमविनोदमुपागताना धत्ते श्रिय किमुत शाश्वतमन्दिरेषु ॥८६॥

सचिवालयेऽर्थनाशो धूर्तगृहे सुतवधः समीपस्थे । उद्वेगो देवकुले चतुष्पदे ( चतुष्पथे) भवति चाकीर्तिः ॥८७॥

चैत्ये भय ग्रहकृत वल्मीकश्वभ्रसकुले विपदः । गर्ताया तु पिपासा कूर्माकारे धनविनाशः ॥८८॥

उदगादिप्लवमिष्ट विप्रादीना प्रदक्षिणेनैव । विप्रः सर्वत्र वसेदनुवर्णमथैष्टमन्येषाम् ॥८९॥

गृहमध्ये हस्तमित खात्वा परिपूरित पुनः श्वभ्रम् । यद्यूनमनिष्ट तत् समे सम धन्यमधिक यत् ॥९०॥

श्वभ्रमथवा अबुपूर्ण पदशतमित्वागतस्य यदि नोनम् । तद्धन्य यच्च भवेत् पलानि अपामाढक चतुःषष्टिः ॥९१॥

आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिः अभ्यधिकम् । ज्वलति दिशि यस्य शस्ता सा भूमिः तस्य वर्णस्य ॥९२॥

श्वभ्रोषित न कुसुम यस्य ( यस्मिन्) प्रम्लायतेऽनुवर्णसमम् । तत्तस्य भवति शुभद यस्य च यस्मिन् मनो रमते ॥९३॥

सितरक्तपीतकृष्णा विप्रादीना प्रशस्यते भूमिः । गन्धश्च भवति यस्या ( यस्या) घृतरुधिरान्नाद्यमद्यसमः ॥९४॥

कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रेमेण मही । ह्यनुवर्ण ( अनुवर्ण) वृद्धिकरी मधुरकषायाम्लकटुका च ॥९५॥

कृष्टा प्ररूढबीजा गोऽध्युषिता ब्राह्मणैः प्रशस्ता च । गत्वा मही गृहपतिः काले सावत्सरोद्दिष्टे ॥९६॥

भक्ष्यैः नानाकारैः दध्यक्षतसुरभिकुसुमधूपैश्च । दैवतपूजा कृत्वा स्थपतीन् अभ्यर्च्य विप्राश्च ॥९७॥

विप्रः स्पृष्ट्वा शीर्ष वक्षश्च क्षत्रियो विशाश्च ऊरू । शूद्रः पादौ स्पृष्ट्वा कुर्याद् रेखा गृहारभे ॥९८॥

अगुष्ठकेन कुर्यान् मध्यागुल्याऽथवा प्रदेशिन्या । कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम् ॥९९॥

शस्त्रेण शस्त्रमृत्युः बन्धो लोहेन भस्मनाग्निभयम् । तस्करभय तृणेन च काष्ठौल्लिखिता च राजभयम् ॥१००॥

वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च । चर्मागारास्थिकृता दन्तेन च भर्तुः ( कर्तुः) अशिवाय ॥१०१॥

वैरमपसव्यलिखिता प्रदक्षिण सपदो विनिर्देश्याः । वाचः परुषा निष्ठीवित क्षुत चाशुभ कथितम् ॥१०२॥

अर्धनिचित कृत वा प्रविशन् स्थपतिः गृहे निमित्तानि । अवलोकयेद् गृहपतिः क्व सस्थितः स्पृशति कि चागम् ॥१०३॥

रविदीप्ते यदि शकुनिः तस्मिन् काले विरौति परुषरव ( परुषरवः) । सस्पृष्टागसमान तस्मिन् देशेऽस्थि निर्देश्यम् ॥१०४॥

शकुनसमयेऽथ्वाऽन्ये हस्त्यश्वश्वादयोऽनुवाशन्ते । तत्प्रभवमस्थि तस्मि तदगसभूतमेवैति ॥१०५॥

सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे । श्वशृगाललघिते वा सूत्रे शल्य विनिर्देश्यम् ॥१०६॥

दिशि शान्ताया शकुनिः ( शकुनो) मधुरविरावी यदा तदा वाच्यः । अर्थः तस्मिन् स्थाने गृहेश्वराधिष्ठिते अगे वा ॥१०७॥

सूत्रच्छेदे मृत्युः कीले चावान्मुखे महगः ( महान् रोगः) । गृहनाथस्थपतीना स्मृतिलोपे मृत्युः आदेश्यः ॥१०८॥

स्कन्धाग्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुभे । भग्नेऽपि च कर्मिवधश्च्युते कराद् गृहपतेः मृत्युः ॥१०९॥

दक्षिणपूर्वे कोणे कृत्वा पूजा शिला न्यसेत् प्रथम ( प्रथमा) । शेषाः प्रदक्षिणेन स्तभाश्चैव समुत्थाप्य ( समुत्थाप्याः) ॥११०॥

छत्रस्रगबरयुतः कृतधूपविलेपनः समुत्थाप्यः । स्तभः तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन ॥१११॥

विहगादिभिः अवलीनैः आकपितपतितदुःस्थितैश्च तथा ( फल) । शक्रध्वजसदृशफल तदेव तस्मिन् ( सदृश तस्मिश्च शुभ) विनिर्दिष्टम् ॥११२॥

प्रागुत्तरौन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे । वक्रे ब्न्धुविनाशो न सन्ति गर्भाश्च दिन्मूढे ॥११३॥

इच्छेद् यदि गृहवृद्धि ततः समन्ताद् विवर्धयेत् तुल्यम् । एकौद्देशे दोषः प्राग् अथवाऽपि उत्तरे कुर्यात् ॥११४॥

प्राग् भवति मित्रवैर मृत्युभय दक्षिणेन यदि वृद्धिः । अर्थविनाशः पश्चादुदग्विवृद्धिः ( उदग्विवृद्धौ) मनस्तापः ॥११५॥

ऐशान्या देवहृह महानस यदि चापि कार्यमाग्नेय्याम् । नैरृत्या भाण्डौपस्करोऽर्थधान्यानि मारुत्याम् ॥११६॥

प्राच्यादिस्थे सलिले सुतहानिः शिखिभय रिपुभय च । स्त्रीकलहः स्त्रीदौष्ट्य नैःस्व्य वित्तात्मजविवृद्धिः ॥११७॥

खगनिलयभग्नसशुष्कदग्धदेवालयश्मशानस्थान् । क्षीरतरुधवविभीतकनिबारणिवर्जितान् छिन्द्यात् ( वर्जिताश्च्छिन्द्यात्) ॥११८॥

रात्रौ कृतबलिपूज प्रदक्षिण छेदयेद् दिवा वृक्षम् । धन्यमुदक्प्राक्पतत न ग्राह्योऽतोऽन्यथा पतितः ॥११९॥

छेदो यद्यविकारी ततः शुभ दारु तद्गृहौपयिकम् । पीते तु मण्डले निर्दिशेत् तरोः मध्यगा गोधाम् ॥१२०॥

मञ्जिष्ठाभे भेको नीले सर्पः तथाऽरुणे सरटः । मुद्गाभेऽश्मा कपिले तु मूषकोऽभश्च खड्गाभे ॥१२१॥

धान्यगोगुरुहुताशसुराणा न स्वपेदुपरि नाप्यनुवशम् । नौत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ॥१२२॥

भूरिपुष्पविकर ( निकर) सतोरण तोयपूर्णकलशौपशोभितम् । धूपगन्धबलिपूजितामर ब्राह्मणध्वनियुत विशेद् गृहम् ॥१२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:51:22.1100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rotating magnetic field

  • Elec.Eng. घूर्णी चुंबकीय क्षेत्र 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site