संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
सत्यं ज्ञानमनंतं नित्यमना...

गोविंदाष्टकम् - सत्यं ज्ञानमनंतं नित्यमना...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशम् ।
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।
क्ष्माया नाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशव संत्रासम् ।
व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम् ।
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ ३ ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदित गोविंदस्फुतनामानं बहुनामानम् ।
गोपीगोचरपथिकं प्रणमत गोविंदं परमानंदम् ॥ ४ ॥
गोपीमंडलगोष्ठिभेदं भेदावस्थमभेदाभम् ।
शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिन्त्यं चिंतितसद्भावम् ।
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ ५ ॥
स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढम् ।
व्यदित्संतिरथ दिग्वस्त्रा ह्युपुदातुमुपाकर्षंतम् ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतस्थम् ।
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ ६ ॥
कांतं कारणकारणमादिमनादिं कालमनाभासम् ।
कालिंदीगतकालियशिरसि मुहुर्नृत्यंतं नृत्यंतम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ ७ ॥
वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वंदेऽहम् ।
कुंदाभामलमंदस्मेरसुधानंदं सुहृदानंदम् ।
वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वम् ।
वंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ ८ ॥
गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो ।
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविंदाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो ।
गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥ ९ ॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीगोविंदाष्टकं संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP