संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
लक्ष्मीर्यस्य परिग्रहः कम...

सर्वमङ्गलाष्टकम् - लक्ष्मीर्यस्य परिग्रहः कम...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेपश्च शय्यासनः । ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रेलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥१॥
ब्रह्मा वायुगिरिशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ । नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥२॥
विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः । माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥३॥
मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः । इक्ष्वाकुश्च विभीश्णश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥४॥
श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः । सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तकावित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥५॥
गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती । कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥६॥
वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः । काव्यालङ्कृतिनीतिनातकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥७॥
आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः । मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥८॥
इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् । माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥९॥
इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP